श्रीकृष्ण उवाच ॥
पार्थ पार्थिवदिव्यस्त्रीमुखपंकजसदृशः । शुणुष्वभिनवर्स्येदोरुदयेऽर्घ्यविधिं परम् ॥१॥
रविर्द्वादशभिर्भागैर्वारुण्या दृश्यते यदि । प्रदोषसमये पार्थ अर्घ्य दद्यात्तदा विमोः ॥२॥
द्वितीयायां सिते पक्षे संध्याकाले ह्युपस्थिते । संस्थाप्यभिनवं चंद्रं सभूम्यां दृश्यते यदि ॥३॥
गोमयं मंडलं कृत्वा चंदनेन सुशोभितम् । रोहिण्यासहितं देवं कुम्दामोदसंभवम् ॥४॥
पुष्पचंदनधूपैश्व दीपाक्षतजलैःशुभैः । दूर्वाकुरैरत्नवरैर्दध्नावस्त्रैपाण्डुरैः ॥५॥
मंत्रेणानेन राजेन्द्र क्षत्रियः सपुरोहितः । नवो नवोऽसि मासांते जायमानः पुनः पुनः ॥६॥
आप्यायस्वसमेत्वेवंसोमराजनमोनमः । अनेन विधिनाचार्य सर्वकामफलप्रदम् ॥७॥
य प्रयच्छति कौतेय मासि मासि समाहितः । स कीर्त्या यशसा कांत्या धन्यश्व भुवि मानवः ॥८॥
पुत्रपौत्रैः परिवृतो गोधान्यधनसंकुलः । स्थित्वा वर्षशतं मर्त्ये ततः सोमपुरं व्रजेत् ॥९॥
तत्रास्ते दिव्यवपुषा भोगान्भुञ्जन्नृपोत्तम । वरस्त्रीभिः सहात्यर्थ यावदाभूतसंप्लवम् ॥१०॥
धर्म समृद्धिमतुलां यदि व्राञ्छसि त्वं मासानुमासमिह मद्वचन कुरुष्व । सोमस्य सोमकुलनंदन धूपपुष्परैर्घ प्रयच्छ नतजानु नवोदित्यस्य ॥११॥ [ ५०६७ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽभिनवचंद्रार्घ्यव्रतं नामैकोनविंशोतरशततमोऽध्यायः ॥११९॥