श्रीकृष्ण उवाच ॥
समुत्पन्नेषु रन्तेष क्षीरोदमथने पुरा । दैत्यानां मोहनार्थाय योषिद्भते जनार्दने ॥१॥
बिल्वे वृक्षे क्षणं श्रान्ता विश्रान्ता कमलालया । यामेवमिति वान्योन्यं युयुधुर्देवदानवाः ॥२॥
जिताः सर्वे पुरा पार्थ युद्धे कृष्णेन चक्रिणा । पातालं गमिता दैत्याः सश्रीकः स्वयमाययौ ॥३॥
श्रीः समावासिता यस्माच्छ्रीवृक्षस्तु ततः स्मृतः । तस्माद्भाद्रपदस्यैव शुक्लपक्षे कुरुत्तम ॥४॥
नवम्यामर्चयेद्भक्त्या ईषत्सूर्योदये नगम । श्रीवक्षं विविधैः पुष्पैरनग्निपाचितैः फलैः ॥५॥
तिलपिष्टान्नगोधमैधूपगन्धस्वगम्बरैः । ईषद्भानुकरातास्त्रतास्त्रीकृतनभस्तले ॥६॥
मन्व्रेणानेन राजेन्द्र कृत्वा ब्राह्मणभोजनम् । ततो भुञ्जीत मौनेन तैलक्षारविवर्जितः ॥७॥
अनग्निपाकं भूपाव्रे दधिपुष्पफलैः शुभम् । एवं यः कुरुते पार्थ श्रीवृक्षस्यार्चनं नरः ॥८॥
नारी वा दुःखशोकाभ्यां मुच्यते नाव्र संशयः । सप्तजन्मान्तरं यावत्सुखसौभाग्यसयुता ॥९॥
श्रीमती कलिनी धन्या मर्त्यलोके महीयते ॥१०॥
श्रीवृषक्षमक्षतफलं वसितं नवभ्यां नैवेद्यपुष्पफलवस्त्र्विचिधान्यैः । पूज्यः प्रभातसमये पुरुषोत्तमेष्टां संप्राप्रुवन्ति पुरुषाः पुरुषेन्द्रवन्धम् ॥११॥ [ २४३६ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे श्रीवृक्षनवमीव्रतवर्णनं नाम षष्टितमोऽध्यायः ॥६०॥