श्रीकृष्ण उवाच ।
महाशांतिं प्रवक्ष्यामि महादेवेन भाषितान् । पार्थिवा नांहितार्थाय महादुस्तरतारिणीम् ॥१॥
नृपाभिषेक सा कार्या यात्राकाले नृपस्य तु । दुःस्वप्ने दुर्निमित्ते च ग्रहवैगुण्यसंभवे ॥२॥
विद्युदुल्कानिपाते च जन्मर्क्षे ग्रहदैवते । कतूदयेऽथ संजाते निर्घाते क्षितिकम्पने ॥३॥
प्रसूती मूलगण्डान्ते यमलस्य तु संभवे । छत्राणां च ध्वजानां च स्वस्थानात्पतने भुवि । काकोलू ककपोतानां प्रवेशे वेश्मनस्तथा ॥४॥
क्रूरग्रहाणां वक्रत्वे जन्मदिषु विशेषतः । जन्मनिद्वादशेचैवचतुर्थेवाष्टमेतथा ॥५॥
यदास्युर्गुरुमंदाऽऽसूर्यश्रदैवाविशेषतः । युद्धेग्रहाणां सर्वेषां सूर्यशीतांशुकीलके ॥६॥
वस्त्रायुधगवाश्वेषु मणिकेशविनाशने । यद्यग्रे परिदृश्यते रात्राविंद्रधनुरतथा ॥७॥
वेश्मनश्व तुलाभंगे गर्भेष्वश्वतरीषु च । रवीन्द्वोरुपरागेषु महाशांतिः प्रशत्यते ॥८॥
सवाणि दुलिन्नत्तानि प्रशम यान्ति सर्वथा । तां कुर्यब्राह्मणाः पंच कुशशीलसमन्विताः ॥९॥
चतुर्वेदास्त्रेवेदाश्व द्विवेदा श्वापि पांडव । आथर्वणा विशेषण वहूवृचा यज संयुताः ॥१०॥
शुचयः श्रुतसपन्ना जहहोमपराग्रणाः । कृच्छ्रपाराकनक्ताद्यैः कृतकायाविशोधनाः ॥११॥
पूर्वमाराध्य मंत्रस्तु प्रारभेत क्रियां ततः । दशद्वादशहस्तं वा मंण्डपं कारयेच्छुभम् ॥१२॥
तन्मव्ये वेदिकां कूर्याच्चतुर्हस्तप्रमाणतः । आग्नेय्यां कारयेत्कुंड हस्तमात्रं सुशोभनम् ॥१३॥
मंखलात्रयसंयुक्तं योन्या चापि विभूषितम् । बद्धचन्दनमालं च तोरणालकृत तथा ॥१४॥
गोमयनोपलिप्ते च मंडपे तु द्विजातयः । शुल्काम्बरधराः स्त्राताः शुल्कमाल्या नुलेपनाः ॥१५॥
ततश्वपञ्चकलशांस्तस्यां वेद्यां नियोजयेत् । आग्नेयादिषु कोणेषु पञ्चमं मध्यतरतथा ॥१६॥
अष्टास्त्रालंकृते पद्मे चूतपल्लवशोभिते । ब्रह्मकूर्चविधानेन पंचगव्यं तु कारयेत् ॥१७॥
औषधीः पञ्चरत्नानि रोचनां चन्दनं तथा । सिद्धार्थकाञ्छमी दूर्वाः कुशान्व्रीहितयांस्तथा ॥१८॥
अपामार्ग फल वतींन्यधोदुंबरौतथा । प्लक्षाश्वकपित्थांश्व प्रियंचूतपल्लवान् ॥१९॥
हस्तिदंमृदंचैव कोणकुंभेषु निक्षिपेत् । पुण्यतीर्थोदकान्नं च धान्य्म गव्यं च मध्यमं ॥२०॥
कूर्च वाचमितीदं च बह्रिकुंभाभिमंत्रणम् । आशुःशिशानो मन्त्रेण मन्त्रणं वायुगोचरे ॥२१॥
ईशावास्यं चतुर्थस्य कुंभस्य चाभिमंत्रणम् । मध्यमे तु प्रजप्तव्या रुद्रकुंभवोद्भवाः ॥२२॥
गंधपुष्पाक्षतैर्वस्त्रैर्नैवद्यैतपाचितैः । फलैञ्च नारिकेलाद्यैर्दीपकैः कुंभपूजनम् ॥२३॥
स्वस्तिवाचनेकं चैव कारयेत्तदनंतरम् । क्रमेणानेन शनकैराग्निकार्य प्रयोजयेत् ॥२४॥
अग्निं दूतमितिह्यग्रिं पूर्वमेव निधापयेत् । हिरण्यगर्भः समिति ब्रह्मासननियोजनम् ॥२५॥
कपोतसुप्रणीतेण मंत्रेण विनिवेशयेत् । कृत्वा चावरणं वह्रेराज्यसंस्कारमेव च ॥२६॥
अथ चासादयेद्द्रव्यं यथावत्सप्रयोजनम् । ततः पुरुषसूक्तेन पायसश्रपणंभवेत् ॥२७॥
अभिघार्याथ संसिद्धं तथा संस्थापयेद्धुवि । अष्टादशप्रमाणेध्मान्दद्यादथ शमीयमान् ॥२८॥
पालाशीः समिधः सप्त तथा सप्तंति दापयेत् । आघारावाज्यभागौ तु हुत्वा पूर्वक्रमेण तु ॥२९॥
जुहुयाहुतीः सप्त जायवेदस इत्यृचा । स्थालीपाकस्य जुहुयात्पुनर्वै जातवेदसि ॥३०॥
तरत्समंदीसूक्तेन चतस्त्रो जुहुयात्ततः । यमायेति च सप्तान्याः स्वाहांता जुहुयात्ततः ॥३१॥
इदं विष्णुस्ततः सप्त जुहुयादाहुतीनृप । नक्षत्रेभ्यस्ततः स्वाहा सप्तविंशदथाहुतीः ॥३२॥
यत्कर्मणेति जुहुयात्ततः स्विष्टकृतं पुनः । ग्रहहोमस्ततः कार्यस्तिलैराज्यपरिप्लुतैः ॥३३॥
प्रायश्वित्तं ततो हुत्वा होमकर्मसमापयेत् । ततस्तु तर्यनिर्घोषैः काहलाशंखनिःस्वनैः ॥३४॥
यजमानस्य कर्तव्यो हाभिषेकोद्विजोत्तमैः । काश्मर्यवृक्षसंभूते भद्रे भद्रासने स्थितम् ॥३५॥
वेदिमध्यगतं कृत्वा दुनिमित्तमशांतये । पंचभिः कलशैः पूर्णैर्मेत्रै भिर्यथाक्रमस् ॥३६॥
सहस्त्राक्षेण प्रथमं ततश्वैव शतायुषा । सजोषसाचैन्द्रेतिविश्वानीत्यृग्भिरेव च ॥३७॥
ऋतवस्तिवति च ततः स्त्रापयेयुः समाहिताः ततो दिशां बलिं दद्याद्विचित्राजसमायुतम् ॥३८॥
नमोस्तु सर्वभूतेभ्य इति मंत्र्मुदाहरन् । स्त्रातस्य ब्राह्मणाः सर्वे पठेयुः शांतिमुत्तमाम् ॥३९॥
शांतितोयेन धाराम च पातयित्वा समंततः । पुण्याहवाचनं कृत्वा शांतिकर्म समापयैत् ॥४०॥
क्षिति हिरण्य वासांसि शयनान्यासनांनि च । विप्रेभ्यो दक्षिणां दद्याद्यथाशक्त्या विमत्सरः ॥४१॥
दीनानाथविशिष्टेभ्यः श्रोत्रिभ्यश्व दापयेत् । भोजनं शोभनं दत्वा ततः सर्व प्रसिद्धयति ॥४२॥
आयुश्व लभते दीर्घ शत्रून्विजयते क्षणात् । दुर्गणि चास्य सिद्ध्यन्ति पुत्रांश्व लभते शुभान् ॥४३॥
यथाशस्त्रप्रहाराणां कवचं वारणं भवेत् । तथा देवोपघातानां शान्तिर्भवति वारणम् ॥४४॥
अहिंसकस्य दांतस्य धर्मार्जितधनस्य च । दयादाक्षिण्ययुक्तस्य सर्वे सानुग्रहाग्रहाः ॥४५॥
अर्थान्समर्थयति वर्द्धयेत च धर्म काम प्रसाधयति तस्य पिनष्टि पापम् । यः कारयेत्सकलदोषहरीं समर्था शांतिं प्रशांतहृदयः पुरुषः सदैव ॥४६॥ [ ६४५० ]
इति श्रीभविष्ये महापुराणेउत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे महाशांतिविधिवर्णनंनामत्रिचत्वारिंशदुत्त शततमोऽध्यायः ॥१४३॥