युधिष्ठिर उवाच ॥
तडागोत्सर्जने देव विधिं विधिविदां वर । कथयस्व महाभाग मम देवकिनंदन ॥१॥
वाषीकूपोदकानाञ्च के मंत्राः परिकीर्तिताः । के ऋग्विजोत्र के यूपाः कर्तव्याः कुण्डमण्डपे ॥२॥
दानं किमत्र निर्दिष्टं बलयः के प्रकीर्तिताः । कस्मिन्काले कथं कुर्यादित्येतत्सकलं वद ॥३॥
श्रीकृष्ण उवाच ॥ साधु साधु महाबाहो यन्मां त्वं परिपृच्छासि तडागवापीकृपानामुत्समं कथयामि ते ॥४॥
निष्पम्र बद्धपालीके सर्वोद्भेदविवर्जिते । सोपानपंक्तिसहिते पाषाणैः सर्वतश्विते ॥५॥
तस्मिन्सालिलसंपूर्णे कार्तिके वा विशेषतः । तडागस्य विधिः कार्यः स्थिरनक्षत्रयोगतः ॥६॥
मुनयः केचिदिच्छंति व्यतीते चोत्तरायणे । न कालनियमो ह्यत्र प्रमाणं सलिलं यतः ॥७॥
तडागपालिशीर्शे तु मंडप कारयेच्छुभम् । दशद्वादशहस्तं च चतुर्द्वारं सुविस्तृतम् ॥८॥
तोरणानि तु चत्वारि चतुर्दिक्षु विचक्षणैः । अश्वत्थोदुंवरप्लक्षवटशाखामयानि च ॥९॥
नानावर्णास्तु परितः पताकाः परिकल्पयेत् । मध्ये महाध्वजः कार्यः पञ्चवर्णः सुशोभनः ॥१०॥
चतुर्हस्ता भवेद्वेदी मध्ये पञ्चकराथवा । यजमानप्रमाणेन मध्ये यूपेन शोभिता ॥११॥
कदंबाश्वत्थपालाशवैकंकतमयः शुभः । ब्राह्मणस्यास्य निर्दिष्टो यूपः श्रुतिविचक्षणैः ॥१२॥
न्यग्रोधबिल्वजः प्रोक्तः क्षत्रियाणांचखादिः । वैश्यस्योदुंबरमयो मध्वर्जुनसमुद्भवः ॥१३॥
बिभितकोदुबरजः शाकशाल्मलिसंभवः । शूद्रस्य यूपो निर्दिष्टः सारदारुमयोऽथवा ॥१४॥
लोकचालाष्टाकं तत्र रजसा च विलेखयेत् । ब्रह्माविष्णुश्व रुद्रश्व कमला चाम्बिका तथा ॥१५॥
सावित्री सहिता क्रार्या पुष्पधूपैरथार्चयेत् । कुर्यात्कुंडानि चत्वारि चतुर्दिक्षु विचक्षणः ॥१६॥
मेखलात्रययुक्तानि हस्तमात्राणि सर्वतः । हेमालंकारिणः कार्या होतारः षोडशाष्ट वा ॥१७॥
अहतांबरसंवीताः स्त्रक्चन्दनविभूषिताः । स्थापकाश्वात्र विहिता वेदवेदाङ्गपारगाः ॥१८॥
इतिहासपुराणज्ञाः प्रियवागनसूयकाः । मृन्मयानि च पात्राणि ताम्राणि स्त्रुवस्त्रुवं तथा ॥१९॥
व्यंजनानि च कार्याणि होमार्थ समिधस्तिलाः । ग्रहज्ञबिधानेन होमः कार्यो विजानता ॥२०॥
वेद्याविवासितानां च सुराणां होम इष्यते । वारुणैस्तु तथामंत्रैहोतव्यं पुष्टिवर्द्धनम् ॥२१॥
इन्द्रादिलोकपालानां पूर्वादिक्रमयोगतः । बलिं दद्याच्च तल्लिङ्गैर्मन्त्रैस्सर्वार्थसिद्धये ॥२२॥
द्वारेषु कलशान्दद्यात्सहिरण्यान्सपल्लवान् । अश्वत्थपल्लवैः कार्याः शुभाश्वन्दनमालिकाः ॥२३॥
सौवर्ण कार्येत्कूर्म ताम्रेण मकरं तथा रजतेन तथा मत्स्यं त्रपुणा दर्दुरं तथा ॥२४॥
शिशुमारजलौकाञ्च रजतेनैव कारयेत् । सर्वानपि यथास्थानं ताम्रपात्र्यांनिधापयेत् ॥२५॥
एषा प्रतिष्ठा नामेति मन्त्रेणामंत्रयेच्च तान् । वस्त्रयुग्मन संपूज्य नैवेद्यादि यथाक्रमम् ॥२७॥
ततो द्विजातिप्रवर . श्रपयित्वा चरुं नवम् । ततश्वाग्न्याहुतीर्द्याद्भूर्भुवःस्वरितिक्रमात् ॥२८॥
ततश्वावाहयेद्देवं वरुणं सरितांपतिम् । वादित्रघोषैर्गीतैश्व गन्धमाल्यानुलेपनैः ॥२९॥
श्वेतेनैव तु वस्त्रेण शिरोवेष्टं तु कारयेत् । आदाय ताम्रपात्रीं तु ब्रह्महोषपुरः सरः ॥३०॥
अप्रमाणं जलं मत्वा वरुणाय निवेदयेत् । त्वं वरुण इति मंत्रेण जलमध्ये प्रवाहयेत् ॥३१॥
यच्चान्यदूस्त्रबीजानि तत्सर्व मज्जयेज्जले । तारयेच्च ततो धेनुं दक्षिणाया उदग्व्रजेत ॥३२॥
गोशिरोवेष्टनं कुर्यात्सति वस्त्रे तु बुद्धिमान् । लांगूलस्याग्रमादाय अवतीर्य ततो जलम् ॥३३॥
ज्ञातिभिः सहितः कर्ता सभार्यश्वानगाहयेत् । ततोऽवतीर्य सलिलाद्दत्त्वा गां ब्राह्मणाय ताम् । शक्त्या च दक्षिणां दद्यादेवं विप्रान्विसर्जयेत् ॥३४॥
सामान्यं सर्वभूतेभ्यो मया दत्तमिदं जलम् । एवं जला ञ्जलिं क्षिप्त्वा पूजयेज्जलमातरः ॥३५॥
तोष्याः कर्मकराः सर्वे कुद्दालानि च पूजयेत् । अवारितं तु दातव्यं मंत्रपूर्व दिनत्रयम् ॥३६॥
एकाहं च यथाशक्त्या वित्तशाठ्यं न कारयेत् । गोसहस्त्रं तदर्ध वा तस्यार्धमथवापि वा ॥३७॥
शतमर्धशतं वापि पञ्चविंशतिमेव च । तासामभावे गां दद्यात्सवत्सां कांस्यदोहनाम् ॥३८॥
एष राजंस्तडागस्य विधिस्तेपरिकीर्तितः । वापीकूपविधानं च कथयामि तथा परम् ॥३९॥
लुडमंड्पडपसंभारभूषणाच्छादनादिकम् । तडागविधिवत्कुर्याद्यूपगोतरणादिकम् ॥४०॥
अकालमूलान्कलशान्वापीकोणेषु दापयेत् । तीर्थोदकसमायुक्तान्सितचन्दनचर्चितान ॥४१॥
सितवासोयुगच्छन्नासमाल्यान्रन्नगर्भिणः । श्रपयित्वा चरुं तत्र यावन्मात्रो यथाविधि ॥४२॥
चतस्त्राआहुतीर्दवाद्भूर्भुवःस्वरितिक्रमात् । ग्रहहोमं प्रकुर्वीत शांतिपुष्टिविवर्द्धनम् ॥४३॥
वरुणाय बलिं दद्याल्लोकपालभ्य एव च । वारुणानि च सुक्तानि पठेयुर्द्विजसत्तमाः ॥४४॥
वेदीमध्ये मंडलं च पद्मपत्र प्रशस्यते । तन्मध्ये पूजयेच्छुंभु ब्रह्माण्म केशवं तथा ॥४५॥
मत्स्यकमठमण्डूकान्वेद्या मध्येऽधिवासयेत् । मित्रामित्रोऽसि भूतानां धनदो धनकाक्षिणाम् ॥४६॥
वैद्यो रोगाभिभूतानं शरण्यः शरणार्थिनाम् । अनेनैव हि मंत्रेण वरुणाय विसर्जयेत् ॥४७॥
आदौ चावाहयेदेवमनेनैव विशेषतः । नमस्ते विश्वगुप्राय नमो विप्णो अपांपते ॥४८॥
सान्निध्य्म कुरु देवेश समुद्रे यद्वदत्र वै । ततस्तु दक्षिणा देया ब्राह्मणानां नराधिप ॥४९॥
गौः स्थापकाय दातव्यां भोजनं चानिवारितम् । सर्वेषामेव दातव्यमेष पौराणिको विधिः ॥५०॥
शराया आगतं सामुद्रं प्रथमं स्मृतम् । निपाने वा तडागे वा संस्थितं तद्भवेच्छुचि ॥५१॥
वापीकूपडागे वा स्थितं तु प्रथमं जलम् । अपेयं तु भवेत्सर्व तज्जलं सूतिकासमम् ॥५२॥
समुद्रोऽपिहिकौतेयदेवयोनिरपांपतिः । कुशाग्रेणा पिरभसानस्पृष्टाव्यस्त्वसंस्कृतः ॥५३॥
अग्निश्व तेजो मृडयाथदेहेरेतोधाविष्णुरमृतस्यनाभिः । एवं ब्रुवन्पांडव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ॥५४॥
वैष्णवे मासि संप्राप्ते नक्षत्रे वारुणे तथा । अर्घ्य प्रदद्याद्भक्त्या तु तस्मिन्काले महोदधेः ॥५५॥
स्त्रात्वा तु विधिवन्मंत्रैः सागरेतुसमाहितः । फलमूलाक्षतैर्भक्ष्येस्तथार्घ्यसंप्रकल्पयेत ॥५६॥
अपि जन्मसहस्त्रं तु यत्पापं कुरुते नरः । मुच्यते सर्वपापेभ्यः स्त्रात्वा तु लवणांभसि ॥५७॥
विधिज्ञेन तु कर्तव्यं ब्राह्मणेन यथाविधि । कर्ता कारयिता चैव उभौ तु स्वर्गगामिनौ ॥५८॥
विधिं त्वेनमजानानो यः कुर्यादर्थमोहितः कर्ता कारयिता चैव उभौ नरकगामिनौ ॥५९॥
य न कारयते शांति तडागाद्येषु कर्मसु । तस्य तन्निष्फलं सर्वमुप्तं बीजमिवोषरे ॥६०॥
सर्व्रत्नमयं दिव्यं चन्द्रार्कसदृअशवभम् । विमानं तेजसा युक्तमारोहेत्पुण्यकर्मकृत ॥६१॥
कश्वित्पिबतितत्तोयंनिपानस्थं ततोऽऽञ्जलिम् । ब्राह्मणो वा यतिर्गौवो येन कर्ता न सीदति ॥६२॥
उत्सृष्टे कृतकृत्यस्तु सुहृअत्कुर्यान्महोत्सवम् । महाभोज्यं महोत्सर्ग यजमानो दिनाष्टकम् ॥६३॥
कारकाः कर्मणो बापि सुत्रधारादयो नराः । इष्टापूर्तेन धर्मेण तेऽपि स्वर्गे प्रयांति हि ॥६४॥
स्वन्यमाने महीभागे प्राणिनो ये क्षयं गताः । चित्रे वा देवकूटार्थे ते सर्वे त्रिदिवं गताः ॥६५॥
धेनोस्तु रोमकूपाणि यावंतीह नरोत्तम । तावद्वर्षसहस्त्राणि वर्षकोटिशतानि च ॥६६॥
कोटिर्युगसहस्त्राणां स्वर्गे तिष्ठेत्तडागकृत् । चेत्तस्य पितरः केचिन्नरकं समुपागताः ॥६७॥
तांस्तु तारयते सर्वानात्मानं च महीपते । आस्फोट्यंति पितरो वल्गंति प्रपितामहाः ॥६८॥
अपि नः सकुले जातो यस्तडागं करिष्यति । सर्वस्वेनापि कौतेय भूमिष्ठमुदकं कुरु ॥६९॥
कुलानि तारयेत्सप्त यत्र गौर्वितृषी भवेत् । अतः सर्वेण धन्येन कार्या वाप्यः समंततः ॥७०॥
धनस्य क्षणध्वं सित्वं चित्ते कार्य सदैव हि । तडागं देवभवनं वापीवृक्षाघन्च्छदः ॥७१॥
चतुर्थकं फलं प्राप्त कारितेऽस्मिश्वतुष्टये । यथा मातुःसमाचष्टे पुत्रः शीलं स्वकैर्गुणैः ॥७२॥
तथा स्वादेन च जलं कर्तुः सर्व शुभाशुभम् । अतः शुभागतं द्रव्यं तडागादिषु लापयेत् ॥७३॥
धन्यस्य पांथाः संप्राप्य तडागं वृक्षमण्डितम् । अभ्यागता यसुधिया तडागाद्यं प्रकल्पितम् ॥७५॥
सामान्यं सर्वभूतेभ्यो येन भूमिगतं जलम् । तारितं कारितं तेन सुपुत्रेण कुलद्वयम् ॥७६॥
मूर्त स्वभावतः सिद्धमिष्टं मंत्रप्रदर्शितम् । इष्टापूर्ते राजन्कृतकृत्यः पुनान्भवेत् ॥७७॥
उन्नता वाथ निम्रा वा कीर्तिर्येन प्रकाशिता । तेन त्रैलोक्यचन्द्रेण जननी पार्थपुत्रिणी ॥७८॥
त्रितयं निम्रतां नेयं त्रितयं चोन्नतिं पराम् । तडागमथ यो भूमौ देव देवागृहंकृती ॥७९॥
यः कारयति लोकेऽस्मिन्कीर्तिस्यस्यामला भवेत् । सजीवति स एवैकः स भवेदजरामरः ॥८०॥
उपेतोऽपि दिवं त्यक्त्वा नश्वरं स कलेश्वर । आस्त एव निरातंकं तस्य कीर्तिमय्म वपुः ॥८१॥
तावत्स्वर्गे स रमते यावत्कीर्तिरनश्वरी । तावत्त्विलायामध्यास्ते सुकृती वै बुधं पदम् ॥८३॥
घटैरञ्जलिभिवक्रैर्यस्य वाटीपुटैर्जलम् । पिबंति जंतवः सर्वे किमन्यत्तस्य वर्ण्यते ॥८४॥
तडागं नगरोपांते धन्यस्य किल जायते । उभयोरर्थसंसिद्धिर्दृष्टा कर्तुर्जनस्य च ॥८५॥
येषां देवकुलं तत्तु निष्पद्येत सरस्तटे । अभीष्टदेवतायुक्तं तेषां पार्थ किमुच्यते ॥८६॥
न भवंतीष्टि कयावद्द्रोणी वा भूमिसन्निभा । स्वर्गे महीयते तावत्कारकोदेववेशमनः ॥८७॥
भोग्यस्थाने कृतः कूपः सुस्वादुसलिलस्तथा । दृढरज्जुसमायुक्तः पुनात्यासप्तमं कुलम् ॥८८॥
यस्य स्वादुजलं कूपे पिबंति सततं जनाः । किं तेन न कृतं पुण्यं सर्वसत्वोपकारिणा ॥८९॥
यः प्रासादन्त्रचयति शुभान्देवतानां तडातेकीर्तिस्तस्य भ्रमति विपुला वंशमार्गानुयाता । दिव्यान्भोगान्भजति च सदा कारकश्वाप्रमेयान्भुक्त्वा सौख्यं पुनरपि च भवेच्चक्रवर्ती पृथिव्याम् ॥९०॥
येषां तडागानि बहूदकानि कूपाश्व यूपाश्व प्रतिश्रयाश्व । अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्वचनी भवंति ॥९१॥ [ ५५३१ ]
इति श्रीभविष्ये महापुराणे श्रीकृष्णयुधिष्ठिरसंवादे वापीकूपतगोत्सर्गविधिवर्णन नाम सप्तविंशन्युत्तरशततमोध्यायः ॥१२७॥