अथ विविधदानानि ।
युधिष्ठिर उवाच ॥
श्रुतः पुराणविषयस्त्वप्रसादान्मयाच्युत । संसारासारतां ज्ञात्वा श्रुतश्व व्रतविस्तरः ॥१॥
भूयश्व श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम् । किं दीयत कदा कृष्ण केनोपायेन शंस मे ॥२॥
न हि दानात्परतरमन्यदस्तीति मे मतिः । धनं धनवतां किञ्चिदहार्य राजतस्करैह ॥३॥
श्रीकृष्ण उवाच ॥
अनिश्चितं निधान यदप्रयुक्तं च वर्द्धते । अनीतं याति चाध्वानं धनं विप्रकराप्रितम् ॥४॥
किं कायेन सुपुष्टेन बलिना चिरजीविना । यन्न सत्वोपकाराय तज्जीवित मनर्थकम् ॥५॥
ग्रासादर्द्धमपि ग्रासमर्थिभ्यः किं न दीयते । इच्छानुरुपो विभवः कदा कस्य भविष्यति ॥६॥
एकस्मिन्नप्यतिक्रांते दिने दानविवर्जिते । दस्युभिर्मुषतश्वैव दिवारात्रौ च शोचति ॥७॥
यस्य त्रिवर्गशून्यानि दिनान्यायांति यांति च । सलोहकारभस्त्रेव श्वसन्नपि च जीवति ॥८॥
यैर्न दत्तं च हुतं न तीर्थे मरणं कृतम् । हिरण्यमन्नमुदकं ब्राह्मणोभ्यो न चार्पितम् ॥९॥
दीना निरशना रुक्षाः कपालाङ्कितपाणयः । ते दृश्यंते महाराज जायमानाः पुनः पुनः ॥१०॥
आयासशतलब्धस्य प्राणेभ्योपि गरीयसः । गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥११॥
नोपभागैः क्षयं यांति न प्रदानैः समृद्धयः । पर्वार्जितानामन्यत्र सुकृतामां षरिक्षयात् ॥१२॥
अदृष्टपरपत्वोपि पात्रेभ्यो विसृजेद्धनम् । यस्मान्मृतस्य तन्नस्ति तस्मात्सांशायिकं वरम् ॥१३॥
दानानि बहुरुपाणि कथयामि तवानघ । व्यासवाल्मीकिमन्वादैः कथितानि पुरा मम ॥१४॥
किञ्चिद्व्रतं यत्क्रियते पूज्यते च त्रिलोचनः । दीयते यच्च विप्रेभ्य एतज्जन्मतरोः फलम् ॥१५॥
युधिष्ठिर उवाच ॥
ब्राह्मणप्रीणनार्थाय केशवस्य शिवस्य च । यानि दानानि देयानि तान्याचक्ष्व यदूत्तम ॥१६॥
येन चैव विधानेन दानं पुण्यसुखावहम् । ऐहिकामुष्मिकावाप्तिं करोति न हि हन्यते ॥१७॥
श्रीकृष्ण उवाच ॥
त्रीण्याहुरतिदानानि गावः पृथ्वीसरस्वती । आसप्तमं पुनंत्येते दोहवाहनवेदनैः ॥१८॥
गोदानमादौ वक्ष्यामि पूर्वोक्तक्रमयोगतः । येन चैवाविधानेन अन्यूनाधिकबिस्तरम् ॥१९॥
युधिष्ठिर उवाच ।
देयाः किंलक्षणा गावः काश्व राजन्विवर्जिताः । कीदृशाय प्रदातव्या न देयाः कीदृशाय वै ॥२०॥
श्रीकृष्ण उवाच ॥
तरुणी रुपसंपन्ना सुशीला च पयस्विनी । न्यायर्जिता सवत्सा च प्रदेया श्रोत्रियस्य गौः ॥२१॥
वृद्धा सरोगा हीनांगी वंध्या दुष्टा मृतप्रजा । दूरस्थाऽन्यायलब्धा च देया गौर्न कथंचन ॥२२॥
सा दत्तैव हरेत्पापं श्रोत्रियायाहिताग्रये । अतिथिप्रियाय दांताय धेनं दद्मद्रुणाधिके ॥२३॥
अकुलीनाय मूर्खाय लुब्धाय पिशुनाय च हव्यकव्यव्यपेताय न देया गौः कथंचन ॥२४॥
श्रीकृष्ण उवाच ॥
पुण्यं दिनमथासाद्य स्नात्वा तर्प्य पितृंस्थता । घृतक्षाराभिषेकं च कृत्वा विष्णोः शिवस्य च ॥२५॥
समर्च्य यथान्यायं पुष्पादिभिरनुक्रमात् । उदङ्मुखीं प्राङ्मुखीं वा गृष्टिं कृत्वा पयस्विनीम् ॥२६॥
सवत्सां वस्त्रसंवीतां सितयज्ञोपवीतिनीम् । स्वर्णशृंगीं रौप्यखुरां कांस्यदोहनकान्वितान् ॥२७॥
शक्तितो दक्षिणायुक्तां ब्राह्मणाय निवेदयेत् । पुच्छे कृष्णाजिनं देयं गां पुच्छे करिणं करे ॥२८॥
अश्वं सदा सुकर्णे वा दासीं शिरसि दापयेत् । गावो समाग्रतः संतु गावो मे संतु पृष्ठतः ॥२९॥
गावो मे हृदये संतु गवां मध्ये वसाम्यहम् । प्रदक्षिणां ततः कृत्वा धेनुं द्विजवराय ताम् ॥३०॥
इमां च प्रतिगृह्रीष्व धेनुर्दत्ता मया तव । एवमुच्चार्य तं विप्रं देवेशं परिकल्पयेत् ॥३१॥
अनुव्रजेच्च गच्छंतं पदान्यष्टौ नराधिप । अनेन विधिना धेनुं यो विप्राय प्रयच्छति ॥३२॥
सर्वकामसमृद्धात्मा स्वर्गलोकं स गच्छति । सप्तपूर्वान्सप्तपरानात्मानं चैव मानवः ॥३३॥
सप्तजन्मकृतात्पापान्मोचयत्यवनीपते । पदे पदेऽश्वमेधस्य गोशतस्य च मानवः ॥३४॥
फलमाप्नोति राजेंन्द्र दक्षायैवं जगौ हरिः । सर्वकामप्रदासा स्यात्सर्वकालेषु पार्थिव ॥३५॥
भवत्यसौ पापहरा यावदिम्द्राश्वतुर्दश । सर्वेषा मेव पापानां कृतानामपि जानता ॥३६॥
प्रायश्चित्तमिदं प्रोक्तामनुतापोपबृंहितम् । सर्वेषामेव दानानामेकजन्मानुगं फलम् ॥३७॥
ब्राह्मणैः क्षत्रियैर्वेश्यैः शूद्रैश्वान्यैश्व मानवैः । लोकाः कामगमाः प्राप्ता दत्वैतद्विधिना नृप ॥३८॥
गोभ्योधिकं जगति नापरमस्ति किञ्चिद्दानं पवित्रमिति शास्त्रविदो वदंति । तत्संपदः सुरसदश्व समीहमानैर्देयाः सदैव विधिना द्विजपुङ्गवाय ॥३९॥ [ ६७२५ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे प्रत्यक्षधेनुदानव्रतविधिवर्णनं नामैकपंचाशदुत्तरशततमोऽध्यायः ॥१५१॥