युधिष्ठिर उवाच ॥
स्वभर्व्रा सह संबद्धमहास्त्रेहा यथा भवेत् । कुलस्त्रीणां तदाचक्ष्व व्रत मम सुरोत्तम ॥१॥
श्रीकृष्ण उवाच ॥ यमुनायास्तटे पूर्वं मथुरास्ते पुरी शुभा । तस्यां शव्रु्न्घनान्माभूद्राजा रामप्रतिष्ठितः ॥२॥
तस्य भार्या कीर्तिमाला नान्मासीत्प्रथिता भुवि । तया प्रणम्य। भगवान्वसिष्ठो मुनिपुङ्गवः ॥३॥
पृष्टः सुखं मुनिश्रेष्ठ कथं समुपजायते । ब्रूहि मेऽतुलसंबन्धकारणं व्रतमुत्तमम् ॥४॥
एवमुक्तस्तया ज्ञानी वसिष्ठाः कीर्तिमालया । ध्यात्वा मुहूर्तमचख्यौ कोकिलाव्रतमुत्तमम ॥५॥
श्रीवसिष्ठ उवाच ॥ आषाढ्पूर्णिमायां तु सन्ध्याकाले ह्युपस्थिते । संकल्पयेन्मासमेकं श्रावणे श्वःप्रभृत्यहम् ॥६॥
स्नानं करिष्ये नियता ब्रह्मर्यस्थिता सती । भोक्ष्यामि नक्तं भूशय्य करिष्ये प्राणिनां दयाम् ॥७॥
इति संकल्प्य पुरुषो नारी वा ब्राह्मणान्तिके । प्राप्यानुज्ञां ततः प्तातः सर्वसामग्रिसंयुतः ॥८॥
पुरुषः प्रतिपत्कालाद्दन्तधावपूर्वकम् । नद्यां गत्वा तथा वाप्यां । तडागे गिरिनिर्झरे ॥९॥
स्त्रानं कुर्याद्व्रती पार्थ सुगन्धामलकैस्तिलैः । दिनाष्टकं तथा पश्वात्सर्वौषध्याः पुनः पृथक् ॥१०॥
वचयाष्टौ पुनः पिष्टवा शिरोरुहविमर्दनम् । स्त्रात्वा ध्यात्वा रविं चैव वन्दयित्वा पितृनथ ॥११॥
तर्पयित्वा तिलपिष्टैः कोकिलां पक्षिरुपिणीम् । कलकण्ठीं शुभैः पुष्पैः पूजयेच्चम्पकोद्भवैः ॥१२॥
पव्रर्वा धूपनैवेद्यदीपालक्तकचन्दनैः । तिलतन्दुलदूर्वाग्रैः पूजयित्वा क्षमापयेत् ॥१३॥
नित्यं तिलव्रती भक्त्या मन्व्रेणानेन पाण्डव । तिलसहे तिलसौख्ये तिलवर्णे तिलप्रिये ॥१४॥
सौभाग्यं द्रव्यपुव्रांश्व देहि मे कोकिले नमः । इत्युच्चाये ततः पश्वाद्नृहमभ्येत्य संयतः ॥१५॥
कृत्वाहारं स्वपेत्पार्थ यावन्मासः समाप्यते । मासान्ते ताम्रपाव्यां तु कोकिलां तिलपिष्टजाम् ॥१६॥
रत्ननेव्रां स्वर्णपक्षां ब्राह्मणाय निवेदयेत् । वस्त्रैर्घनेर्गुडैर्युक्तां श्रावण्यां पूर्व एव वा ॥१७॥
श्वश्रूश्वशुरवर्गे वा दैवज्ञे वा पुरोहिते । व्यासे वा संप्रदातव्या व्रतिभिः शुभकाम्यया ॥१८॥
एवं या क्रुरुए नारी काकिलाव्रतमादरात् । सप्तजन्मानि सौभ्याग्यं सा प्रान्पोति सुविश्तरम् ॥१९॥
निःसापत्न्यं पतिं भव्यं सस्त्रहं प्राप्य भूतले । मृता गौरीपुरं याति विमानेनार्कवर्चसा ॥२०॥
श्रीकृष्ण उवाच ॥ एतद्व्रतं वसिष्ठेन मुनिना कथितं पुरा । तया चानुष्ठितं पार्थ समस्तं कीर्तिमालया ॥२१॥
तस्याश्व सर्वं संपन्न वसिष्ठवचनादिह । पुव्रसौभाग्यसंमानं शव्रन्घस्य प्रसादजम् ॥२२॥
एवं याऽन्यापि कौन्तेय कोकिलाव्रतमादरात् । करिष्यति ध्रुवं तस्याः सौभाग्यं च भविष्यति ॥२३॥
ये कोकिलां कलरवां कलकण्ठपीठां यच्छन्ति साज्यतिलपिष्टमयीं द्विजेभ्यः। ते नन्दनादिषु वनेषु विह्रत्य कामं मर्त्ये समेत्य मधुरध्वनयो भवन्ति ॥२४॥ [ ७३५ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कोकिलाव्रतं नामैकादशोऽध्यायः ॥११॥