श्रीकृष्ण उवाच ॥
आत्मप्रतिकृतिर्नाम यथोक्तं कस्यचित्पुरा । तत्तेऽहं संप्रवक्ष्यामि दानं मानविवर्धनम् ॥१॥
दानकालः सदा तस्य मुनिभिः परिकीर्तितः । पुण्यैः पुण्यदिनं पार्थ प्राप्यते जीवितैर्न च ॥२॥
लोहजो प्रकृतिं भव्यां कारयित्वात्मनो नृप । अभीष्टवाहनगतामिष्टालंकारसंयुताम् ॥३॥
अभीष्टलोकसहितां सर्वोपस्करसंयुताम् । ततः पट्टपटीवस्त्रैश्छदितां रत्नभूषिताम् ॥४॥
कुंकुमेनानुलिभांगा कर्पूरागरुवासिताम । स्त्री चेद्ददाति शयने शयितां कारयेत्स्वयम् ॥५॥
यद्यदिष्टतमं किंचित्तत्सर्व पार्श्वतो न्यसेत । उपकारकरं स्त्रीणांस्वशरीरे च यद्भवेत ॥६॥
तत्सर्व स्थापयेत्पार्श्वे स्वयं सचिंत्य चेतासि । एतत्सर्व मेलयित्वा स्वे स्वे स्थाने निधाय च ॥७॥
पूजयित्वा लोकपालान्ग्रहान्देवीं विनायकम् । ततः शुल्कांबरः स्त्रात्वा गृहीतकुसुमांजलिः ॥८॥
इममुच्चारयेन्मंत्रं विप्रस्य पुरतो बुधः । आत्मनः प्रतिमा चेयं सर्वोपकरणैर्युता ॥९॥
सर्वरत्नसमायुक्ता तव विप्र निवेदिता । आत्मा शंभुः शिवः शौरिः शक्रः सुरगणैर्वृतः ॥१०॥
तस्मादात्मप्रदानेन ममात्मा सुप्रसीदतु । इत्युच्चार्य ततो दद्याद्ब्राह्मणाय युधिष्ठिर ॥११॥
ब्राह्मणश्वापि गृह्रीयात्कोदादिति च कीर्तयन । वतः पदक्षिणी कृत्य प्रणिपत्य विसर्जयेत् ॥१२॥
विधिनानेन राजेंद्र दानमेतात्प्रयच्छति । यः पुमान पुमानथवा नारी शृणु यत्फलमाप्नुयात् ॥१३॥
साग्रं वर्षशत दिव्य्म स्वर्गलोके सुरैर्वृतः । अभीष्टफलदानेन ह्यभीष्टफलभाग्भवेत् ॥१४॥
यत्रैवोत्पद्यते जंनुः प्राप्ते कर्मक्षये पुनः । तत्रैव सर्वकामानां फलभाग्भवते नृपः ॥१५॥
इष्टबंधुजनैः सार्द्ध न वियोगं कदाचन । प्राप्नोति पुरुषो राजन्स्वर्गे चानंत्यमश्नुते ॥१६॥
यश्वात्मनः प्रतिकृतिं वरवाहनस्थां हैमीं विधाय धनधान्यसमाकुलां च । सोपस्करां द्विक्षवराय ददाति भक्त्या चंद्रार्कव्त्प्त दिवि भाति हि राजराज ॥१७॥ [ ७४४१ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे आत्मप्रतिकृतिदानविधिवर्णनं नाम पंचशीत्युत्तरशततमोऽध्यायः ॥१८५॥