श्रीकृष्ण उवाच ॥
अथातः संप्रवक्ष्यामि शर्कराचलमुत्तमम् । यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यंति सर्वदा ॥१॥
अष्टाभिः शर्क्राभारैरुत्तमः स्यान्महाचलः । चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः ॥२॥
भारेणैर्द्धभारेण कुर्याद्यश्वाल्पवित्तवान् । विष्कंभपर्वतान्कुर्यात्तुरीयांशेन मानवः ॥३॥
धान्यपर्वतवसर्वमासाद्य रससंयुतम् । मेरोरुपरितस्तद्वत्स्थाप्य हैमतरुत्रयम ॥४॥
मंदारः पारिजातश्व तृतीयः कपपादपः । एतदृक्षत्रयं मूर्ध्निसर्वेष्वपि निधापयेत् ॥५॥
हरिचंदनसंतानौपूर्वपश्चिमभागयोः । निवेश्यौ सर्वशैलेषु विशेषार्च्छकराचले ॥६॥
मंदरे कामदेवं तु कदंबस्य तले न्यसेत् । जंबूतवृक्षतले कार्यो गरुन्मान्गंधमादने ॥७॥
प्राङ्मुखो हेममूर्तिश्व हंसः स्याद्विपुलाचले । हैमी श्रेयोर्थिभिः कार्या सुरभिर्दक्षिणामुखी ॥८॥
धान्यपर्वतवत्सर्वमावाहनमखादिकम् । कृत्वाथ गुरवे दद्यान्मध्यमं पर्वतीत्तमम् ॥९॥
ऋत्विग्भ्यश्वतुरः शैलनिमान्मंत्रानुदीरयेत् । सौभाग्यमृतसारोऽयं परमः शर्करायुतः ॥१०॥
यस्मादानंदकारीत्वं भव शैलेंद्र सर्वदा । अमृतं पिबतां ये तु निष्पेतुर्भुवि शीकराः ॥११॥
देवानां तत्समुत्थोऽसि पाहि नः शर्कराचल । मनोभवधनुर्मध्यादुद्धूता शर्करा यतः ॥१२॥
तन्मयोऽसि महाशैल पाहि संसारसागरात् । यो दद्याच्छर्कराशैलमनेन विधिना नरः ॥१३॥
सर्वपापविनिर्मुक्तः सयाति शिवमंदिरम् । चंद्रादिसार्चिसंकाशमधिरुहयानुजीविभिः ॥१४॥
सहैव यानमतिष्ठेत्स तु विष्णु पदे दिवि । ततः कल्पशतांते तु सप्तद्वीपाधिपो भवेत् ॥१५॥
आयुरारोग्यसंपन्नो यावज्जन्मायुतत्रयम् । भोजनं शक्तितो दद्यात्सर्वशैलेष्वमत्सरः । स्वयं वा क्षारलवणमश्नीयात्तदनुज्ञया ॥१६॥
पर्वतोपस्करं सर्व प्रापयेद्ब्राह्मणालयम् । आसीत्पुरा ब्रह्मकल्पे धर्ममूर्तिर्नराधिपः ॥१७॥
सुहृच्छक्रस्य निहता येन दैत्याः सहस्त्रशः । सोमसूर्यादयो यस्य तेजसा विगतप्रभाः ॥१८॥
भवंति शतशो येन राजानोऽपि पराजिताः । यथेच्छारुपधारी मनुष्योऽप्यपवारितः ॥१९॥
तस्य भानुमती नाम भार्या त्रैलोक्यसुंदरी । लक्ष्मीरिव च रुपेण निर्जितामरसुंदरी ॥२०॥
राज्ञस्तस्याग्रमहिषी प्रांणेभ्योऽपि गरीयसी । दशनारीसहस्त्राणां मध्ये श्रीरिव राजते ॥२१॥
वर्ष कोटिसह स्त्रेण तथा काचित्प्रजायते । स कदा चित्स्थानगतं पप्रच्छ स्वं पुरोहितम् ॥२२॥
विस्मयविष्ठहृदयो वसिष्ठमृषिसत्तमम् । भगवन्केनधर्मेणलक्ष्मीरनुत्तमा ॥२३॥
कस्माच्चविपुलंतेजोमच्छतेजोमच्छरीसदोत्तमम् ॥२४॥
वसिष्ठ उवाच ॥ पुरा लीलावती नाम वेश्या शिवपरायणा । तया दत्तश्वतुर्दश्यां गुरवे लवणाचलः ॥२५॥
हेमवृक्षामरैः सार्द्ध यथावद्विधिपूर्वकः। शूद्रः सुवर्णकारस्तु नान्ना शौंडो भवत्तदा ॥२६॥
भृत्यो लीलावती गेहे तेन हैमा विनिर्मिताः तरवोऽमरमुख्याश्व श्रद्धयुक्तेन पार्थिव ॥२७॥
अतिरुपेण संपन्नान्घटयित्वा ततो हृदि । धर्मकार्यमिति ज्ञात्वा नागृहीत कंथचन ॥२८॥
उज्ज्वालितास्तु तत्प्रत्न्या सौवर्णामरपादपाः । लीलावती गृहे रात्रौ परिचर्या च पार्थिव ॥२९॥
कृतं ताभ्यां प्रहर्षेण द्विजशुश्रूषणादिकम् । सा तु लीलावती वेश्या कालेन महता नृप ॥३०॥
सर्वपापविनिर्मुक्ता जगाम शिवमंदिरम् । योऽसौ सुवर्णकाश्व दरिद्रोऽप्यति सत्ववान् ॥३१॥
न मूल्यमादाद्वेश्यातः स भवानिह सांप्रतम् । सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः ॥३२॥
यया सुवर्णरचितास्तरवो हेमदेवताः । सम्यगुज्ज्वलिताः पत्नी सेयं भानुमती तव ॥३३॥
उज्ज्वालनादुज्जलरुपमस्याः सुजातमस्मिन्भुवनाधिपत्यम् । यस्मात्कृतं तत्परिकर्म रात्रावनुद्धताभ्यां लवणाचलस्य ॥३४॥
तस्माच्च लोकेष्वपराजितस्त्वमारोग्यसौ भाग्ययताच लक्ष्मीः । तस्मात्वमप्यत्र विधानपूर्व धान्याचलादीन्दशधा कुरुष्व ॥३५॥
तथेति संपूज्य च धर्ममूर्तिव वशिष्टस्य ददौ स सर्वान् । धान्याचलादीन्क्रमशः पुरारेर्लोकं जगामामरपूज्यमानः ॥३६॥
यश्वाधनः पश्यति द्वीयमानं मेरोः प्रदानमिह धर्मपरो मनुष्यः । शृणोति भक्त्या परयाऽप्रमादी विकल्मषः सोऽपि दिवं प्रयाति ॥३७॥
दुःस्वप्नं प्रशममुपैति पठ्यमाने शैलेंद्रे भवभयभेदने नराणाम् । यः कुर्यात्किमुनृपपुंगवेहसम्यक्छांतात्माहरिहपुरमेतिजंतुः ॥३८॥ [ ७९३२ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शर्कराचलदानविधिवर्णनंनामचतुरधिकद्विशतमोऽध्यायः ॥२०४॥