श्रीकृष्ण उवाच ॥
कार्तिक्यामथवा माध्यामयमेव युधिष्ठिर ॥१॥
चैत्र्यामथतृतीयायां वैशाख्या द्वादशेऽह्रीवा । खंडनील शंखपादं सपौंड्रं धौतपुष्पकं ॥२॥
गौभिश्वतुर्भिः सहितं सृजेच्चैव विर्धि श्रृणु । यदुवाच पुरा गर्गो गोकुलेऽनघ पांडव ॥३॥
तत्तेहं च प्रवक्ष्यामि विधिंगर्गप्रचोदितम् । मातरं स्थापयित्वाग्रे पूजयेत्कुसुमाक्षतैः ॥४॥
मातृश्राद्धं ततः कुर्यात्सदाभ्युदयकारकम् । अकालमूलं कलरामश्वत्थदलशोभितम् ॥५॥
तत्र विद्वाज्जपित्वा तु स्थापयेद्रुद्रदेवतां । सुसमिद्धं ततः कृत्वा वह्रिमंत्रपुरःसरम् ॥६॥
अथैनं जुहुयात्षड्रभिः पृथगाहुतिंसंज्ञितैः । पुष्टिमंत्रैस्ततः पश्वाद्धुत्वा वह्रिं यथा विधि ॥७॥
एकवर्ण द्विवर्ण वारोहितं श्वेतमेव वा । जीवद्वत्सपयस्विन्याः पुत्रं सर्वागसुंदरम् ॥८॥
चतस्त्रोवत्सतर्यश्व ताभिः सार्धमलंकृतम् । तासां जपेद्विप्रः पतिं वो बलिनं शुभम् ॥९॥
सभितास्तेन सहिसाः क्रीडध्वं दृष्टमानसाः । ततो वामेत्रिशूलं च दक्षिणे चक्रमालिखेत् ॥१०॥
अंकितं शंखचक्राभ्यां वर्षितं कुसुमादिना । पुष्पमालाकृतग्रीवं सितवस्त्रैश्व च्छादितम् ॥११॥
विमुंचेद्वत्सका भिश्व नीलाभिर्बलिन वृषम् । देवालये गोकुले वा नदीना संगमेऽथवा ॥१२॥
इत्युक्तं गर्गमुनिना विधानं वृषमोक्षण । स्वेच्छविह्रारिणं दृप्तं गर्जतं सुंदरं गवाम् ॥१३॥
ककुद्मिनं पर्ति धन्या ये विमुञ्चाते गोवृषम् । फलं चतस्य वक्ष्यामि ब्रुवतो मे निबोध तत् ॥१४॥
वृषोत्सर्गेपुनात्येवदशातीतान्दशापरान् । यत्किंचित्पृशते तोयं समुत्तीर्य जलान्महीम् ॥१५॥
वुषोत्सृष्टं पितृणां तु तदक्षयमुदा हृतम् । यैश्वयैश्व स्पृशोत्तोयं लांगूलादिभिरंततः ॥१६॥
सर्व तदक्षयं तस्य पितृणां नात्र संशयः । शृङ्गैःखुरैर्वायद्भूमिमुल्लिखत्यनिशंवृषः ॥१७॥
मधुकुल्याः पितुस्यस्य अक्षयास्ता भवंति वै । सहस्त्रतलमात्रेण तडागे न यथाश्रुति ॥१८॥
पितृणां या भवेत्तृप्तिस्तां वृषस्त्वतिरिच्यते । यो ददाति तिलैमिंश्रांस्तिलान्वा श्राद्धकर्मणि ॥१९॥
मधु वा नीलखंडं वा अक्षयं सर्वमेव तत् । पष्टव्या बहबः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥२०॥
यजेत वाश्वमेधेन नीलं वा वृषमुत्सुजेत् । न करोति वृषोत्सर्ग सुतीर्थे वा जलाञ्जलिम् ॥२१॥
न प्रयच्छति यः पुत्रः पितृरुच्चार एव सः ॥२२॥
यद्भूमिसालिखति शृङ्गखुरैः प्रह्रष्टो यद्वा करोति प्रतिमल्लवृषान्निरीक्ष्य । वृषस्य चैतस्य विधानकर्तःसंतोषमावहति शक्रसभागतस्य ॥२३॥ [ ५६८१ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिर संवादे वृषोत्सर्गविधिवर्णनं नामैकत्रिंशदुत्तरशततमोऽध्यायः ॥१३१॥