श्रीकृष्ण उवाच ॥
शर्करासप्तमीं वक्ष्ये सर्वकल्मषनाशिनीम् । आयुरारोग्यमैश्वर्यं ययानन्तं प्रजायते ॥१॥
माधवस्य सिते पक्षे सप्तम्यां श्रद्धयान्वितः । प्रातः स्त्रात्वा तिलैः शुक्लैः शुक्लमाल्यानृलेपनैः ॥२॥
स्थण्डिले पद्ममालिप्य कुङ्कुमेन सकर्णिकम् । तस्मिन्नमः सविव्रेति गन्धपुष्पं निवेदयेत् ॥३॥
स्थापयेदुदकुम्भं च शर्करापाव्रसंयुतम् । रक्तवस्त्रैः स्वलङ्कृत्य शुक्लमाल्यानुलेपनैः ॥४॥
सुवर्णाश्वसमायुक्तं मन्व्रेणानेन पूजयेत् । विश्वेदेवमयो यस्माद्वेदवादीति पठन्यते ॥५॥
त्वमेवामृतसर्वस्व्मतः प्राहि सनातन । सौरसूक्तं जयंस्तिष्ठेत्पुराणश्रवणेन वा ॥६॥
अहोराव्रे गते पश्वादष्टम्यां कृतनैत्यकः । सर्वं च वेदविदुषे ब्राह्यणायोपपादयेत् ॥७॥
भोजयेच्छक्तितो विप्राञ्छर्कराघृतपायसैः । भुञ्जीयादतैललवणं स्वयमप्यथ वाग्यव्रः ॥८॥
अनेन विधिना सर्वं मासि मासि समाचरेत् । वस्तरान्ते पुनर्दद्याद्ब्राह्मणाय समाहितः ॥९॥
शयनं वस्त्रसंवीतं शर्कराकलशान्वितम् । सर्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम् ॥१०॥
गृहं च शक्तितो दद्यात्समस्तोपस्करान्चितम् । सहस्त्रेणापि निष्काणां कृत्वा दद्याच्छतेन वा ॥११॥
दशभिर्द्वाव्रिभिर्निष्कैस्तदर्धेनापि भक्तितः । सुवर्णाश्वः प्रदातव्यः पूर्ववन्मन्व्रवाचनम् ॥१२॥
वित्तशाठन्यं न कुर्वीत कुर्वन्दोवान्समश्र्नुते । अमृतं पिबतो वक्व्रात्सूर्यस्यामृतबिन्दवः ॥१३॥
निश्वेतुरेतदुत्थाय शालिमुद्नेक्षवः स्मृताः । शर्करा च परं तस्मादिक्षुरसोद्भवा मता ॥१४॥
इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः । शर्करासप्तमी चैषा वाजिमेधफलप्रदा ॥१५॥
सर्वे ह्युपशमं यानि पुनः संततिवर्द्धिनी । यः कुर्यात्परया भक्त्या स परं ब्रह्म गच्छति ॥१६॥
कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम् ॥१७॥
इदमनध शृणोति यः स्मरेद्वा परिपठतीह सुरेश्वरस्थ लोके । मतिमपि च ददाति यो जनानाममरवधूजनकिन्नरैः स पूज्यः ॥१८॥ [ २०१९ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शर्करासप्तमीव्रतवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥४९॥