श्रीकृष्ण उवाच ॥
पार्थपार्थिववृन्दानां मुखपङ्कजसद्रवे । शृणुष्वावहितो वच्मि तवाशादशमी व्रतम् ॥१॥
नलनामाभवत्पूर्वं निषधेषु मषीपते । स भ्रावा निहितो राज्ये पुष्करेणेति नमः श्रुतम् ॥२॥
अक्षैर्द्युतेन राजेन्द्र निर्ययौ भार्यया सह । वनं प्रतिभयं शून्यं झिल्लीकगणनादितम् ॥३॥
सगत्वा प्रत्यहोराव्रं जलमव्रिण वर्तयन् । ददर्श वनमध्यस्थाञ्छकुनीन्काञ्चनच्छवीन् ॥४॥
ग्रहीतुमिच्छस्तान्राजन्समाच्छाद्य स्ववाससा । समपेतुः खगास्तूर्णं गृहीत्वा वसनं शुभम् ॥५॥
आससाद सभां काञ्चिद्भतवासाः सुदुःखितः । दमयन्तीं सभां प्राप्य निद्रयापह्रतां सदा ॥६॥
दुःखादुत्सृज्य गतवऽन्भाग्यतः प्रारधनेश्वरः । गते तु नैषधे भैमी प्रबुद्धे वाञ्चितानना ॥७॥
अपश्यन्तीनलं वीरं वीर भीमसुता वने । इनश्वेतश्व बभ्राम हाहेति रुदते मुहुः ॥८॥
दुःखशोकसमाक्रान्ता बलदर्शनलालसा । आससाद दिनैः कैश्वित्सा चैद्यपुरमञ्जसा ॥९॥
उन्मत्तवत्परिवृता शिशुभिः कौतुकाकुलैः । सा द्दष्टा चेदिराजस्य जनन्या जनवेष्टिता ॥१०॥
चन्द्रलेखेव पतिता भूमौ भासितदिङमुखा आरोप्य । सा स्वभवन पृष्टा का त्वं वरानने ॥११॥
उवाच भैमी सव्रीडं सैरन्ध्रीं मां निबोधत । न धावयेयं चरणौ नोच्छिष्ट भक्षयाम्यहम् ॥१२॥
यदि प्रार्थयते कश्विद्दण्डन्यस्ते सांप्रतं भवेत् । प्रतिज्ञयानया देवि तिष्ठेयं तव वेश्यनि ॥१३॥
एवमस्त्वनवद्याङ्गि राजमाताप्युवाच ताम् । एवंविधा तद्भवने कञ्चित्कालमनिन्दिता ॥१४॥
उवास वसनार्द्धेन प्रवृ तान्ते किल द्विजः । आनयामास मुदितो दमयन्तीं गृहं पितुः ॥१५॥
माव्रा पिव्रा समायुक्ता सुतैर्भ्रातृभिरेव च । दमयन्ती तथाप्यास्ते दुःखं नैषधवर्जिता ॥१६॥
प्रोवाच विमनाहूय व्रतं दानमथापि वा । कथयध्वं यथा मे स्यादिष्टेन सह सङ्गमः ॥१७॥
तव्रेतिहासकुशलो विप्रः प्रोवाच बुद्धिमान् । भद्रे त्वमाशादशमीं कुरुष्वेप्सितसिद्धिदाम् ॥१८॥
चकार सर्वं तन्वङ्गी यत्पुराणविदा तदा । ख्यातमाख्यानविदुषा दमनेन पुरोधसा ॥१९॥
व्रतस्यास्य प्रभावेन दमयन्त्या नरोत्तम । संजातः सुखदोऽत्यर्थं भर्व्रा सह समागमः ॥२०॥
युधिष्ठिर उवाच ॥ कथमाशादशम्येषा गोविन्द क्रियते कदा । सर्वमेतत्समाचक्ष्व सर्वज्ञोऽसि ह यादव ॥२१॥
श्रीकृष्ण उवाच ॥ राज्याशयो राजपुव्रः कृष्यर्थं तु कृषीवलः । भार्यार्थं तु बणिक्पुव्रः पुव्रार्थं गुर्विणी तथा ॥२२॥
धर्मार्थकामसंसिद्धन्यै लोकः कन्या वरार्थिनी । यष्टुकातो द्विजवरो रागी रोगापनुत्तये ॥२३॥
चिरप्रवासिते कान्ते कालेन घृतिपण्डिता । एतेष्वन्येषु कर्तव्यमाशाव्रतमिदं सदा ॥२४॥
यदा यस्य भवेदार्तं कार्यते हि तदा व्रतम् । शुक्लपक्षे दशम्यां तु स्त्रात्वा संपूज्य दवताः ॥२५॥
नक्तं तदाशाः संपूज्याः पुष्पालक्तकचन्दनैः । गृहाङ्गणे लेखयित्वा यवैः पिष्टातकेन वा ॥२६॥
दत्त्वा घृताक्तं नैवद्य पुनः कार्यं निबेदयेत् । आशाश्वाशाः सदा सन्तु विद्यन्तां च मनोरथाः ॥२७॥
भवतीनां प्रसादेन सदा कल्याणमस्तिति । एवं संपूज्य भुञ्जीत दत्त्वा विषाय दक्षिणाम् ॥२८॥
अनेन क्रमयोगेन मासि मासि समाचरेत् । याव्रनोरथः पूर्वस्ततः पश्वात्समुद्यमात् ॥२९॥
मासि पूर्णे च षण्मासे वर्षे वर्षेद्वये गते । सौवर्णाः कारयेदाशा सैप्यपिष्टातकेनाबा ॥३०॥
ज्ञातिबन्धुजनैः सार्द्धं स्त्रातः सभ्यगलङ्कृतः । पूजयेन्मव्रसंदर्भैरेभिर्ध्यात्वा गृहाङ्गणे ॥३१॥
तव संनिहितः शक्रः सुरासुरनमस्कृतः । पूर्वा चन्द्रण सहिता ऐन्द्रीदिरदेवते नमः ॥३२॥
अग्नेः परिग्रहाद्वार्ये त्वमाग्नेयीति पठन्यसे । तेजोमयी परा शक्तिराग्नेयी वरदा भव ॥३३॥
देवराजं समासाद्य लोकः संयमयत्यसौ ॥ तेन संयमनीयाति याम्ये कामप्रदा भव ॥३४॥
खड्ग सहातिविकृता नैर्कतिस्त्रमुपाभृता । तेन नैऋतनाग्नी त्वं कृरुवास्पघवा सदा ॥३५॥
त्वय्यास्ते भव्रनाधारवरुणो यादसां पतिः । इष्टकामार्थसिद्धन्यर्थं वारुणि प्रभवा भव्र ॥३६॥
अधिश्रितासि यस्मात्त्वं वायुना जगदायुन । वायव्ये त्वमतः शान्तिं नित्यं यच्छ नमो नमः ॥३७॥
कौबेरो वशिसौभ्या च प्रख्याता त्वमथोत्तरा । ऐशानी जगदीशेब शंभुना त्वमलङ्कृता । अतस्त्यं शिव्रसान्निध्यं देवि देहि शिव्रे नमः ॥३८॥
सर्पाष्टककुलेन त्वं सेवितासि तथाप्यधः । नागाङ्गनाभिः सहिता हिता नः सर्वदा भव ॥३९॥
सप्तलोकैः परिगता सर्वदा त्वं शिव्रा एतः । सनकाद्यैः परिवृता ब्राह्मी जिह्रा नया कुरु ॥४०॥
नक्षव्राणि च सर्वाणि ग्रहास्तारा ग्रहास्तथा । नक्षव्रमातरो ये च भूतप्रेतविनायकाः ॥४१॥
सर्वे ममेष्टसिद्धन्यर्थे भवन्तु प्रणताः सदा । एभिर्मन्व्रैः समण्यर्च्य पुष्पधूपादिना ततः ॥४२॥
वासोभिरभिसस्थाप्य फलानि विनिवेदयेत् । तत्तूर्यध्वनिघोषेण गीतमङ्गलनिःस्वनैः ॥४३॥
नृत्यन्तीभिर्व स्त्रीभिस्तां राव्रिमतिवाहयेत् । कुङ्कुमक्षोदतीव्रेण दानमानादिभिः सुखम् ॥४४॥
प्रभाते वेदविदुषे सर्वं तत्प्रतिपादयेत् । अनन विधिना सर्वं क्षमाप्य प्रणिपत्य च ॥४५॥
भुञ्जीत मिव्रमहितः सुहृद्वन्धुजनरपि । य एवं कुरुते पार्थ दशमीव्रतमादरात् ॥४६॥
स सर्वकाममान्पोति मनसाभीप्सितं नरः । स्त्रीभिर्विशेषतः कार्यं व्रतमेतद्युधिष्ठिर ॥४७॥
लघुचित्ता यता नार्यः सदा कामपरावणाः । धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥४८॥
कथितं ते महाराज मया व्रतभनुत्तमम् ॥४९॥
ये मानवा मनुजपुङ्ग्व कामकामाः संपूजयन्ति दशमीपु सदा दशाशाः । तेषां विशेषनिहता ह्रदये प्रकाममाशाः फलन्त्यलमलं बहुनोदितेन ॥५०॥ [ २६०० ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद आशादशमीव्रतं नाम चतुष्षष्टितमोऽध्यायः ॥६४॥