युधिष्ठिर उवाच ॥
पुनर्मे ब्रूहि देवेश त्वद्भक्त्या भावितामनः । कथ्वमानमिहेच्छामि शुभधसंपदं महत ॥१॥
यव्राण्वपि नरैर्द्दत्तं जप्तं वा सुमहद्भवेत ॥२॥
श्रीकृष्ण उवाच । शृणु पांण्डव ते वच्मिरहस्यं देवनिर्मितम् । यन्मया कस्यचिन्नोक्तं सुप्रियस्यापि भारत ॥३॥
वैशाखमासस्यतुयातृतीयानवस्यसौकार्तिकसुक्लपक्षे । नभस्यमासाय तु कृष्णपक्षे व्रयोदशीं पञ्चदशीं च माघे ॥४॥
वैशाखस्त्रतृतीया तु समा कृतयुगेन तु । नवमी कार्तिकयो तु व्रेतायुगसमावुभौ ॥५॥
व्रयोदशी नभस्ये तु दापरेण समा गता । माधे पञ्चदशी राजन्कलिकालदिरुच्यते ॥६॥
एताश्वतम्रो राजेन्द्र युगानां प्रभवाद्यथा । युगादयश्व कथ्यंते तेनैताः सर्वसूरिभिः ॥७॥
उपवासस्तपोदानं जप होमकियास्तथा । यद्यत्तु क्रियते किंचित्सर्वं कोटिगुणं भवेत् ॥८॥
वैशाखस्य तृतीयायां श्रीसमेतं जगद्नरुम् । नारायणे पूजयेथाः पुष्पधूपविलेपनैः ॥९॥
वस्त्रालंकारसंभारैनैंवेद्यौर्विविधैस्तथा । ततस्तस्याग्रतोधेनुर्लवणस्याढकेन तु ॥१०॥
कार्या कुरुकुलश्रेष्ट चतुर्भागेण वत्सकम् । अविचर्मोपरिस्थाप्य कल्पयित्वा विधानतः ॥११॥
शास्त्रोक्तकमयोगेन ब्राह्मणायोपपादयेत् । श्रीधरः श्रीपतिः श्रीमाञ्छ्रीशः संप्रीयतामिति ॥१२॥
अनेन विधिना दत्वा धेनुं विप्राय भारत । गोसहस्त्रं दशगुणं प्रान्पोतीह न संशयः ॥१३॥
तथैव कार्तिके मासि नवम्यां नक्तभुङनरः । स्त्रात्वा नदीतडागेषु देवखातेषु वा पुनः ॥१४॥
उमासहायं वरदं नीलकंठमथार्चयेत् । पुष्पधूपादिनैवेद्यैरनिन्द्यैः शंकरं शिवम् ॥१५॥
धेनुं तिलमथीं दद्यात्पुरणोक्तविधानतः । अष्टमूर्तिनींलकंठः प्रीयतामिति चिंतयेत् ॥१६॥
यदव्र प्राप्यते पुण्यं पार्थ तत्केन वर्ण्यते । दत्वा तिलमर्यी धेनुं शिवलोकमवान्पुयात् ॥१७॥
व्रयोदशी नभसि या कृष्णमस्यां समर्चयेत् । पितृन्पायसदानेन मधुना च घृतेन तु ॥१८॥
भांजयेद्राह्मणान्भक्त्या वेदबेदाङ्गपारगान् । पितृनुद्दिश्य दातव्या सवत्सा कां यदोहनी ॥१९॥
प्रत्यक्षा गौर्महाराज तरुणी सुपयस्विनी । पिता पितामहश्वैव तथैव प्रपितामहः ॥२०॥
प्रीयतां गोप्रदानेन इति द्त्वा विसर्जयेत् । कृतेनानेन राजेन्द्र यत्पुण्यं प्राप्यते नृभिः ॥२१॥
तत्केन वर्णितुं याति वर्षकोटिशतैरपि । पुव्रान्पौव्रान्प्रपौव्रांश्व धनं च महदीप्सितम् ॥२२॥
इह चान्पोति पुरुषः परव्र च शुभांगतिम् । पश्वदश्यां च माघस्य पूजयित्वा पितामहम् ॥२३॥
गायव्या सहितं देबं वेदवेदाङ्गभुषितम् । नवनीतमयीं धेनुं फलैर्नानाविधैर्युताम् ॥२४॥
सहिरण्यां सवत्सां च ब्राह्मणाय निवेदयेत् । कीर्तयेत्प्रीयतामव्र पद्मयोनिः पितामहः ॥२५॥
यत्स्वर्गे यच्च पाताले यच्च मर्त्ये सुदुर्ल्लमम् । तदवान्पोत्यसंदिग्धं पद्मयोनिप्रसादतः ॥२६॥
यानि चान्यानि दानानि दत्तानि सुबहून्यपि । युगादिषु महाराज अक्षयानि भवंति हि ॥२७॥
अल्पमल्पं हि यःकश्वित्प्रदद्यान्निर्द्धनोपि सन् । तदक्षयं भवेत्सर्वं युगादिषु न संशयः ॥२८॥
वितानुसारं स्वं ज्ञात्वा वित्तवात्पार्थिवोऽपि वा । अनुसारेण वित्तस्य असाध्येन समा धिना ॥२९॥
भूहिरण्यं गृहं वासः शयनान्यासनानिच । छव्रोपानहयुग्मानि प्रदेयानि द्विजातिषु ॥३०॥
एवं दत्त्वा यथाशक्त्या भोजयित्वा द्विजानपि । पश्वाद्भुञ्जीत सुमना वाग्यतः स्वजनैः सह ॥३१॥
यन्किञ्चिन्मानसं पापं कायिकं वाचिकं तथा । तत्सर्वं नाशमायाति युगादितिथिपुजनात् ॥३२॥
उद्नीयमानो गन्धर्वैः स्तॄयमानः सुरासुरैः । तत्सर्वं नाशमायाति युगादितिथिपूजनात् ॥३३॥
यद्दीयते किमपि कोटिगुणं तदाहुः स्नानं जपो नियममक्षयमेव सर्वम् । स्यादक्षयासु युगपूर्वतिथीषु राजन्व्यासादयो मुनिवराः समुदाहरंति ॥३४॥ [ ४२६६ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिस्संवादे युगादितिथिव्रतमाहात्म्यवर्णनं नामैकाधिकशततमोऽध्यायः ॥१०१॥