श्रीकृष्ण उवाच ॥
अथातः संप्रवक्ष्यामि तव पांडुकुलोद्वह । पुण्यं हेमरथं नाम महापातकना शनम् ॥१॥
पुण्येऽह्री विलकथितं स्वनुलिप्ते गृहांगणे । कृष्णाजिनतिलान्कृत्वा कांचनं स्थापयेद्रथन ॥२॥
चतुरस्त्रं महाभाग चतुश्वक्रं सकूबरम । ब्रह्माणमग्रतः कृत्वा गृहीतप्रग्रहं शुभम ॥३॥
इंद्रनीलेन कुंभेन ध्वजरुपेण संयुतम । लोकपालाष्टकोपेतं पद्मरागदलान्वितम् ॥४॥
चत्वारः पूर्णकलशा धान्यायष्टादशैव तु । कौशेयवस्त्रसंवीतमुपरिष्टाद्वितानकम् मध्ये तु फलसंयुक्तं पुरुषेण समन्वितम । योगयुक्तः पुमान्कार्यस्तं च तत्राधिवासयेत ॥६॥
एवं विधं पूजयित्वा माल्यगंधानुलेपनैः । चक्ररक्षावुभौ तस्य कार्यौ विश्वकुमारकौ कौ ॥७॥
पुण्यं कालं ततः प्राप्य स्त्रातः संपूज्य देवताः । त्रिःप्रदक्षिणमावृत्य गृहीतकुतुमांजलिः ॥८॥
शुल्कमाल्यांबरधर इमं मंत्रमुदीरयेत् ॥९॥ नमो नमः पापविना शयनाय विश्वात्मने देवतुरंगमाय । धाम्रामधीशाय भवाभवाय रथस्य दानान्मम देहि शांतिम् ॥१०॥
व वष्टकादित्यमरुद्नणानां त्वनेद धाता परमं निधानम् । यतस्ततो मे हृदयं प्रयातु धर्मैकतानत्वमघौघनाशात् ॥११॥
इति तुरगरथप्रदानमेतद्भवभयसूदनमत्र यः करोति । स कलुषपटलैर्विमुक्तदेहः परममुपैति पदं पिनाकपाणे ॥१२॥
देदीप्यमानवपुषा च जितप्रभावमाक्रम्य मंडलखंडलचंड भानः । सिद्धांगनानयनयुग्मानिपीयमानवक्रांबुजोंऽबुज भवेन चिरं सहास्ते ॥१३॥
इति पठति शृणोति वा य एतत्कनकतुरंगरथप्रदानमस्मिन् । न स नरकपरं व्रजेत्कदाचिन्नरकरिप्रोर्भवनं प्रयाति भूयः ॥१४॥ [ ७४६९ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हिरण्याश्वरथदानविधिवर्णनं नाम सप्ताशीत्युत्तरशततमोऽध्यायः ॥१८७॥