युधिष्ठिर उवाच ॥
इहापि योगमासाद्य भर्तृबन्धुजनैः सह । वंद नारी नरश्रेष्ठ व्रजेद्यन शिवालयम् ॥१॥
विधवा च परे लोके भूयोऽपि न वियुज्यते । सुखसंदोहसौभाग्ययुक्ता भवति भामिनी ॥२॥
श्रीकृष्ण उवाच ॥ उमयाचरितं यत्नाद्भववाग्ललितामृतम् । लब्ध्वा हिमवतो जन्म दक्षकोपाद्वियुक्तया ॥३॥
महासौभाग्यसंदोहं द्दष्ट्र्वा देव्या महात्मना । अरुन्धत्या वसिष्ठेन पृष्टेन कथितं शृणु ॥४॥
मासि मार्गशिरे प्राप्ते चन्द्रवृद्धौ शुचिस्मिता । द्वितीयायां समासाद्य नक्तं भ्रुञ्जीत पायसम् ॥५॥
आचम्य च शुचिर्भूत्वा दण्डवच्छंकरं नमेत् । मुदान्विता नमस्कृत्य विज्ञाप्य परमेश्वरम् ॥६॥
औदुम्चरमृजुं गृह्य भक्षयेद्दन्तधावनम् । उत्तराशागतं साग्रं सत्वचं निर्व्रणं शुभम् द्वितीयायां ॥७॥
परे वाह्रि गौरीं शम्भु च पूजयत् । शालिपिष्टमये कृत्वा रूपे स्त्रीपुसयोः शुभ ॥८॥
पाव्र संस्थाप्य संपूज्य जागर निशि कल्पयेत् । विधिवत्पूजयित्वा तु शंकर कीर्तयन्स्वपत् ॥९॥
प्रभासे ते गृहीत्वा तु आचार्याय निवेदयेत् । भोजयेन्भृष्टभन्नाद्यं शिवभक्त्या द्विजोत्तमान् ॥१०॥
दाम्पत्यानि च ततैव शक्त्या तान्यपि भोजयेत् । प्रतिमास प्रकुर्वीत विधिना तेन संयता ॥११॥
कार्तिकान्ते ततो मास्रि मार्गशीर्षे समुद्यमेत् । नामानि च प्रवक्ष्यामि प्रतिमासं क्रमाच्छृणु ॥१२॥
पूजाजाप्यनिमित्तं च सिद्धयर्थं चेति तस्य च । एवं पौषे तु संप्राप्ते गिरिशं पावतीं तथा ॥१३॥
समभ्यर्च्य चतुर्थ्यां तु पञ्चगव्यं पिबेत्सुधीः । एनत्पारणमुद्दिष्टं मार्गादौ मार्गगोचरम् ॥१४॥
न चान्यत्पञ्चगव्यादि पावनं परमं स्मृतम् । भवं चैव भवानीं च मासि माघे प्रपूजयेत् ॥१५॥
फाल्गुने तु महादेवमुमया सहितं मतम् । ललिताम शंकरं देवं चैव्रे संपूजयेत्ततः ॥१६॥
स्थाणूं वैशाखमासे तु लोलनेव्रायुतं यजेत् । ज्येष्ठे वीरेश्वरं देवभेकवीरासमन्वितम् ॥१७॥
आषाढे पशुनाथं च शक्त्या सार्द्धं व्रिलोचनम् । श्रीकण्ठं श्रावणे देवं सुतान्वितमथार्चयेत् ॥१८॥
भीमं भाद्रपदे मासि दुर्गया सहितं यजेत् । ईशानं कार्तिके मासि शिवादेवीयुतं यजेत् ॥१९॥
जप्यध्यानार्चनायैव नामान्येताभि सुव्रत । स्मृतानि विधिना राजन्व्रतसिद्धि र्भवेद्ध्रुवम् ॥२०॥
प्रतिमासं तु पुष्याणि यानि पूजासु योजयेत् । तानि क्रमात्प्रवक्ष्यामि सद्यःप्रीतिकराणि वै ॥२१॥
आदौ नीलोत्पलं योज्यं तदभावेऽपराण्यपि । पविव्राणि सुगन्धीनि योजयेद्भक्तितोऽर्चने ॥२२॥
करवीरं बिल्वपव्रं किंशुक कुब्जमल्लिका । पाट्लाब्जकदम्बं च तगरं द्रोणमालती ॥२३॥
एतान्युक्तक्रमेणैव मासेषु द्वादशेष्वपि । भक्त्या योज्यानि राजेन्द्र शिवयोस्तुष्टिहेतवे ॥२४॥
वत्सरान्ते वितानं च धूपोत्क्षेपं सघण्टिकम् । ध्वजं दीपं वस्त्रयुग शङ्कराय निवेदयेत् ॥२५॥
स्त्रापयित्वा च लिप्त्वा च सौवर्नं पङ्कजम् । पूपयुग्मं च पुरतः शालिपिष्टमयं न्यसेत् ॥२६॥
नैवेद्यं शक्तितो दत्त्वा नत्वा च विधिवच्छिवम् । कृर्यान्नीराजनं शम्भोस्ततो गच्छेत्स्वकं गृहम् ॥२७॥
तव्र गत्वा व्रिकोणञ्च चतुरस्त्रं च कारयेत् । व्रिकोणे ब्राह्मणी भोज्या चतुरखे द्विजोत्तमाः ॥२८॥
व्रतिनो भोजयेत्पश्वादद्वादशैव द्विजोत्तमान् । मिथुनानि च तावन्ति शक्त्या भक्त्या च पाण्डव ॥२९॥
उमामहेश्वरं हैमं कारयित्वा सुशोभनम् । मौक्तिकानि चतुःषष्टिस्तावन्तोऽपि प्रवालकाः ॥३०॥
तावन्ति पुष्णरागाणि तास्त्रपाव्रोपरि न्यसेत् । व्रस्त्रेण वेष्टयित्वा च गन्धैर्धूपैस्तथार्चयेत् ॥३१॥
एतत्संभारसंयुक्तमाचार्याय निवेदयेत् । व्रतिनां ब्राह्मणानां च दम्पतीनां च भारत ॥३२॥
दत्त्वा हिरण्यवासांसि प्रणिपत्य क्षमापयेत् । चत्वारिंशत्तथाष्टौ च कुम्भांश्र्छव्रमुपानहौ ॥३३॥
सहिरण्याक्षतान्सर्वान्दद्यात्पुष्पोदकान्वितान् । दीनान्धदुःखितानां च तद्दिने वानिवारितम् ॥३४॥
कल्पंपदन्नदानं चालोचयञ्छक्तिमात्मनः । न्यूनाधिकं च कर्तव्यं स्वाव परिमाणतः ॥३५॥
संपूरयेत्कल्पनया वित्तशाठन्यं न कारयेत् । अवियोगकरं चैतद्रूपसौभाग्यवित्तदम् । आयुःपुव्रप्रदं स्वर्ग्यं शिवलोकप्रदायकम् ॥३६॥
सम्यक्पुराणपतितं व्रतचयंमेतत्तत्त्वं चराचरगुरोर्ह्रदयङमायाः । पूजां विधाय विधिवन्न वियोगमेति साध्वी स्वभर्तृसुतचन्धुजनैर्धनैश्व ॥३७॥ [ ११२५ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि अवियोगतृतीयाव्रतं नाम द्वाव्रिंशतितमोऽध्यायः ॥२२॥