युधिष्टिर उवाच ॥
अंबुपूर्णतडागेषु महत्तोयाशयेषु च । कस्यार्ध्यं संप्रयच्छंति कृष्णैताः कुलयोषितः ॥१॥
श्रीकृष्ण उवाच ॥ मासि भाद्रपदे प्राप्ते शुक्ले भूततिथौ नृप । तडागपाल्या दातव्यं वरुणायार्घ्यमुत्तमम् ॥२॥
ब्राह्मणैः क्षव्रियैर्वैश्यैः शूद्रैः स्त्रीभिस्तथैव च । तस्मिन्दिने भक्तिनम्रैर्दद्यादर्घं युधिष्ठिर ॥३॥
पुष्पैः फलैस्तथावस्त्रैर्दीपालक्तकचन्दनैः । अनग्निपाकसिद्धान्नैस्तिलतंडुलमिश्रकैः ॥४॥
खर्जूरैर्नालिकेरैश्व बीजपूर्णारकैस्तथा । द्राक्षादाडिमपूगैश्व व्रपुसैश्वापि पूजयेत् ॥५॥
आलिख्य मण्डले देवं वरुणं वारुणीयुतम । मंव्रेणानेन राजयेन्द्र पृजयेद्भक्तिभावतः ॥६॥
वरुणाय नमस्तुभ्यं नमस्ते यादसांपते । अपांपते नमस्तेऽस्तु रसानां पतये नमः ॥७॥
मा क्लेदं मा च दौर्गंध्यं विरस्यं मा मुखेऽस्तु मे । वरुणो वारूणीभर्ता वरदोऽस्तु सदा मम स्वाहा ॥८॥
एवं यः पूजयेद्भक्त्या वरुणं वरुणालयम् । मध्याह्ले सरसि स्त्रात्वा नन्गिपाकी व्रती नृप ॥९॥
चातुर्वर्णाथ वै नारी व्रतेनानेन पांडव । नैवेद्यं ब्राह्मणे देयं यनैवेद्ये प्रकल्पितम् ॥१०॥
एवं यः कुरुते पार्थ पालीव्रतमनुत्तमम् । तत्क्षणात्सर्वपापेभ्यो मुच्यते नाव्र सशयः ॥११॥
संरुद्धशुद्धसलिलातिबलाम विशालां पालीमुपेत्य बहुभिस्तरुभिः कृतालीम् । ये पूजयंति वरुणं सहितं समुद्रैस्तेषां गृहे भवति भूमिरलब्धवेगा ॥१२॥ [ ३८३८ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पालीव्रतवर्णनं नामैकनवतितमोऽध्यायः॥९१॥