युधिष्ठिर उवाच ॥
उपवासव्रतानां तु वैकल्यं यन्महासते । दानधर्मे कृतं यस्य विपाको वद याद्दशः ॥१॥
श्रीकृष्ण उवाच । यज्ञानामुपवासानां व्रतानां च नरेश्वर । वैकल्यात्फलवैकल्यं याद्दशं तच्छ्रणुष्व मे ॥२॥
उपवासे खंडयुक्तानर्थं वै प्रान्पुवन्ति ते भ्रष्टैश्वर्या निर्द्धनाश्व वसन्ति पुरुषाः पुनः ॥३॥
रूपं तथोत्तरं प्राप्य व्रतवैकल्यदोषतः । काणाः कुब्जाश्व षण्ढाश्व भवन्त्यन्धाश्व मानवाः ॥४॥
उपवासी नरः पत्नीं नारी प्राप्य तथा पतिम् । वियोगं व्रतवैकल्यं दुर्भगत्वमवान्पुयात् ॥५॥
ये द्रव्ये सत्यदातारस्तथान्ने सत्यनन्मदाः । कुले वसन्ति दुःशीला दुष्कुला शीलनिश्वये ॥६॥
वस्त्रानुलेपनैर्हीना भूषणैश्वातिरूपिणः । विरूपरूपाश्व तथा प्रसाधकगुणान्विताः ॥७॥
ते सर्वे व्रतवैकल्यात्फलवैकल्यमागताः । तस्मात्तदव्रतवैकल्यं यज्ञवैकल्यमेव च ॥८॥
उपवासे न कर्तव्यं वैकल्याद्विकलं फलम् । युधिष्टिर उवाच ॥ कथञ्चिद्यदि वैकल्यमुपवासादिके भवेत् ॥९॥
किं तव्र वद कर्तव्यमच्छिद्रं येन जायते । श्रीकृष्ण उवाच ॥ अखण्डद्वादशी होपा समस्तेष्वेव कर्मसु ॥१०॥
वैकल्यं प्रशमं याति शृणुष्व गदतो मम । मार्गशीर्षे सिते पक्षे द्वादश्यां नियतः शुचिः ॥११॥
कृतोपवासो देवेशं समभ्यर्च्यं जनार्दनम् । स्त्रातो नारायणं ब्रूयाद्भुञ्ज नारायणं तथा ॥१२॥
गच्छन्नारायणं देवं स्वपन्नारायणं पुनः । पञ्चगव्यजलस्त्रातो विशुद्धात्मा जितेन्दियः ॥१३॥
यवव्रीहिमयं पाव्रं दत्त्वा विप्राय भक्तितः । इदमुच्चाररयेत्पश्वाद्देवस्य पुरतो हरेः ॥१४॥
सप्तजन्मनि यक्तिञ्चिन्मया खण्डव्रतं कृतम् । भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥१५॥
यथाखण्डं जगत्सर्वं त्वमेव पुरुषोत्तम । तथाखिलान्यखण्डानि व्रातानि मम सन्तु वै ॥१६॥
चतुर्भिरपि मासैस्तु पारणं प्रथमं स्मृतम् । प्रीणनं च हरेः कुर्यात्पारितः पारणे ततः ॥१७॥
चैव्रादिषु च मासेषु चतुर्गुण्यं तु पारणम् । तव्रापि सक्तुपाव्राणि दद्याच्छ्रद्धासमन्वितः ॥१८॥
श्रावणादिषु मासेषु कार्तिकान्तेषु पारणम् । तव्रापि घृतपाव्राणि दद्याद्विप्राय दक्षिणाः ॥१९॥
सौवर्णं रौप्यं ताम्रं च मृन्मयं पाव्रमिष्यते । स्वशक्त्यपेक्षया राजन्पालाशं वापि कारयेत् ॥२०॥
एवं संवत्सरस्यान्ते ब्राह्मणान्स जितेन्द्रियः । आमन्व्य द्वादशान्विप्रान्भोजयेद्घृतपायसैः ॥२१॥
बस्त्राभरणदानैश्व प्रणिपत्य क्षमापयेत् । उपदेष्टारमप्यव्र पूजयेद्विधिवद्नुरुम् ॥२२॥
पवं सम्यग्यथान्याय्यसखण्डद्वादशीं नरः । समुपोष्य अखण्डस्य ब्रतस्य फलमश्नुते ॥२३॥
सप्तजन्मसु वैकल्यं यद्ब्रतस्व क्वचित्कृतम् । करोत्यविकलं सर्वमखण्डद्वादशी तु तत् ॥२४॥
तस्मादेषा प्रयत्नेन नरैः स्त्रीभिश्व सुब्रत । अखण्डद्वादशी सम्यगुपोष्या फछकाङक्षया ॥२५॥
ये द्वादशीब्रतमस्वण्डमिति प्रसिद्धं मार्गोत्तमाङ्गमधिकृत्य कृतेन येन । खण्डब्रतानि पुरुषेह सुकुतानि यानि संपुर्णतां समुषयान्ति हरेः प्रसादात् ॥२६॥ [ ३२७२ ]
इति श्रीभविष्ये महापुरान उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादेऽखण्डद्वादशीव्रतवर्णनं नामैकोनाशीतितमोऽध्यायः ॥७९॥