श्रीकृष्ण उवाच ॥
महिषीदानमाहात्म्यं कथयामि युधिष्ठिर । पुण्यं पापविनाशं च आयुष्यं सर्वकामदम् ॥१॥
चन्द्रसूर्यग्रहे पुण्ये क र्तिक्यामयने तथा । २ क्लपक्षे चतुर्दश्यां सूर्यसंक्रांतिवासरे ॥२॥
यदा वा जायते चित्तं वित्तं च कुरुनंदन । तदैव देया महिषी संसारभयभीरुणा ॥३॥
सुपयोधरशोभाढ्या सुशृंगी सुखुरा तथा । प्रथमप्रसूता तरुणी सुशीला दोषवर्जिता ॥४॥
सुवर्णशृङ्गतिलका घंटाभरणभूषिता । रक्तवस्त्रावृता रम्या ताम्रदोहनकान्विता ॥५॥
पिण्याकपिटिकोपेता सहिरण्या च शक्तितः । सप्तधान्ययुता देया ब्राह्मणे वेदपारगे ॥६॥
पुराणपाठके तद्वज्जांतिःशास्त्रविदे तथा । देया न वेदरहिते न च कुर्व्रतिने क्लचित् ॥७॥
द्रव्यैरेभिः समायुक्तां पुण्येऽह्री विधिपूर्वकम् । दद्यान्मंत्रेण राजेंन्द्र पुसणपठितेन तु ॥८॥
इन्द्रादिलोकपालानां या राजमहिषी शुभा । महिषीदानमाहात्म्यात्सास्तु मे सर्व कामदा ॥९॥
धर्मराजस्य साहाय्ये यस्याः पुत्रः प्रतिष्ठितः । महिषासुरस्य जननी या सास्तु वरदा मम ॥१०॥
इति दानमंत्रः । दद्यात्प्रदक्षिणीकृत्य ब्राह्मणे तां पयस्विनीम् । प्रतिग्रहः स्मृतस्तत्याः पृष्ठदेशे स्वयंभुवा ॥११॥
एवं दत्त्वा विधानेन ब्राह्मणस्य गूहं नयेत् । वस्त्रैराभरणैः पूज्य भक्त्या च कुरुनंदन ॥१२॥
संपादिता मया तुभ्यं संतुष्टो मे भव द्विज । अनेन विधिना दत्त्वा महिषीं द्विजपुङ्गवे ॥१३॥
सर्वान्कामानवाप्नोति इहलोके परत्र च । या सा ददाति महिषीं सा राजमहीषी भवेत् ॥१४॥
महाराजः पुमान्राजन्व्यासस्य वचनं यथा । यज्ञयाजी भवेद्विप्रः क्षत्रियो विजयी भवेत् ॥१५॥
भवेद्वैश्यरतु धनवाञ्छूद्रः सर्वार्थसंयुतः ।तस्मान्नरेण दातव्या महिषी बिभवे सति ॥१६॥
पुत्रपौत्रगपौत्रार्थमात्मनः शुभमिच्छता । दशधेनुसमां राजन्महिषीं नारदोब्रवीत् ॥१७॥
विंशतिगोसमां व्यासः सर्वदानोत्तमं ब्रवीत् । सगरेण ककुत्स्थेन धुंधुमारेण गाधिना ॥१८॥
दत्ताः संपूज्य विप्रेभ्यो महिष्यः सर्वकामदाः । महिषीदानमाहात्म्यं यः शृणोति सदा नरः ॥१९॥
स सर्वपापनिर्मुक्तः शिवलोके महीयते ॥२०॥
दग्धाधिकां हि महिषी जलमेघवर्णी संपुष्टपट्टकवतीम जघनाभिरामाम् । दत्त्वा सुवर्णातिलकां द्विजपुङ्गवाय लोकद्वयं विजयते किभु तत्र चित्रम् ॥२१॥ [ ७१०७ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महिषीदानव्रतविधिवर्णनं नाम द्विषष्टयुत्तरशततमोऽध्यायः ॥१६२॥