श्रीकृष्ण उवाच ॥
कृष्णपक्षे तु पौषस्य संप्राप्तं द्वादशीव्रतम् । पौषादिपारणं मासैः षड्रभिर्ज्येष्ठांन्तिकं स्मृतम् ॥१॥
प्रथमं पुण्डरीकाक्षं नाम कृष्णस्य गीयते । द्वितीये माधवाख्यं तु विश्वरूपं तु फाल्गुने ॥२॥
पुरुषोत्तमाख्यं तु ततः पञ्चमेऽच्युतसंज्ञकम् । षप्ठे जयेति देवेश गुह्यं नाम प्रकीर्तितम् ॥३॥
पूर्वोक्तेषु च मासेषु स्नानप्राशनयोस्तिलाः । आषाढादिषु मासेषु पञ्चगव्यमुदाह्र्तम् ॥४॥
स्नानं च प्राशंन चैव पञ्चगव्यं सदेष्यते । पूजयेत्पुण्डरीकाक्षं तैस्तेरेव च नामभिः ॥५॥
प्रतिमांस च देवेश कृत्वा पूजां यथाविधि । विप्राय दक्षिणां दद्याच्छ्रद्दधानश्व भक्तितः ॥६॥
पारणं चैव देवेश प्रीणनं भक्तिपूर्वकम् । कुर्वीत भक्त्या गोविन्द सद्भावेनार्चनं यतः ॥७॥
नक्तं भूञ्जीत सततं तैलक्षारविवर्जितम् । एकादश्यासुपोष्यैवं द्वादश्यामथवा दिने ॥८॥
एवं संवत्सरस्यान्ते यदभिप्रेतमात्मनः । धनं च सुहिरण्यं च धान्यं भाजनमासनम् ॥९॥
शय्यां वा ब्राह्मणे दद्यात्केशवः प्रतिगृह्यताम् । एतामुपोष्य विधिना विष्णुप्रीतौ च तत्परः ॥१०॥
सर्वान्कामानवान्पोति यद्यदिच्छति चेतसा । ततो लोकेषु विख्य़ातं संप्राप्तं द्वादशीति वै ॥११॥
कृताभिलषिता द्दष्टा प्रारब्धा धर्मतत्परैः । पूरयेदखिलान्कामान्संस्मृता वा दिने दिने ॥१२॥
संप्राप्तिकामुपवसन्ति समीहितार्था ये मानवा मनुजपुङ्गव विष्णुभक्ताः । तेषां संमीहितफलानि ददाति शश्वद्वासः सुरेशगवने भगवत्प्रसादात् ॥१३॥ [ ३२३२ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संप्राप्तिद्वादशीव्रतं नाम सप्तसमतितमोऽध्यायः ॥७७॥