युधिष्ठिर उवाच ॥
भगवन्सर्वभूतेश सर्वलोकनमस्कृत । अनुग्रहाय लोकानां कथयस्प मासपरम् ॥१॥
निष्पापो जायते येन आयुषा यशसा श्रिवा । तन्मे कथय देवेश दान व्रतमथापि वा ॥२॥
श्रीकृष्ण उवाच ॥
श्रूणु राजन्प्रवक्ष्यामि तव लोकहितप्सया । येनोषायेन जायते सभागया मानवा भुवि ॥३॥
न व्रतैर्नपवासैश्व न तीर्थमनैरपि । महापथादिमरणैर्न यज्ञैर्न श्रुतेन च ॥४॥
प्राप्यते मम लोकोऽस्य दुष्याप्रास्त्रिदशैरपि । पार्थ स्त्रेहान्महाभाग प्रवक्ष्यामि हितं तव ॥५॥
वक्ष्ये कल्पलतादानं शोभनं विधिपूर्वकम् । सर्व पूर्वविधानं च तत्र तन्त्रे प्रकल्पयेत् ॥६॥
दिक्पालेभ्यो बलिं तत्र क्षिपेद्वै विधिपूर्वकम् । आघारावाज्यभागौ तु पूर्व हुत्वा विचक्षणः ॥७॥
ततो ग्रहमस्त्रं कुर्याद्धोमं व्याहृतिभिस्ततः । अयुतेनैव होमस्य सनाप्तिरिह कथ्यते ॥८॥
ततः पर्वममीपे तु स्त्रातः शुल्कांबरः शुचिः । पुष्पधूपैरथाभ्यर्च्य वासोभिः सफलाक्षतैः । ततः प्रदक्षिणी कृत्य मंत्रानेतानुदेरयेत् ॥९॥
नमो नमः पापविनाशिनीभ्यो ब्रह्मांडलोकेश्वरपालनीभ्यः । अःशाशताधिक्यफलप्रदाभ्यो दिग्भ्यस्तथा कल्पलतावधूभ्य ॥१०॥
या यस्य शक्तिः परमा प्रदिष्टा वेदे पुराणे सुरसत्तमस्य । तां पूजयामीह परेण सान्ना सा में शुभं यच्छतु तां नतोऽस्मि ॥११॥
एवमुच्चार्य ताः सर्वा ब्राह्मणेभ्यो निवेदयेत् । दशाशाः परया भक्त्या तास्ताः संकल्प्य चेतसि ॥१२॥
ततः क्षमापयोद्विपान्प्रणिपत्य सदक्षिणान् । अनेन विधिना यस्तु दानमेतत्प्रयच्छति ॥१३॥
तस्य पुण्यफलं राजन्कथ्यमानं निबोध मे । इह लोके सविजयी धनवान्पुत्रवाम्भवेत् ॥१४॥
मृतो लोकाधिपपुरं प्रतिमन्वंतरं वसेत् । महाशक्तिदृतः पश्वादेत्य राजन्रसातलम् ॥१५॥
जितसर्वमहीपालश्वकवर्ती भवेद्भुवि । या च नारी महाराज दान मेतत्प्रथच्छति ॥१६॥
सा चक्रवर्तिनं पुत्रं सूते शक्तिसमन्वितम् । यश्व पश्येद्दीयमानं दत्तं यश्वानुमोदते ॥१७॥
शृणोति वाच्यमानं च सोपि प्रेत्यविमुच्यते ॥१८॥
या शक्रवह्रियमनैऋतपाशहस्ता वातेंदुराजशिवकेशवशंभुशक्तयः । ता वै प्रपूज्य दश कल्पलता द्विजेभ्यो देहि त्रिलोकविजये यदि तेऽस्तिबुद्धि ॥१९॥ [ ७७८८ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कल्पलतादानविधिवर्णनं नामैकोनाशीत्युत्तरशततमोऽध्यायः ॥१७९॥