श्रीकृष्ण उवाच ॥
पुरा प्रियव्रतो राजा पुत्रः स्वायंभुवस्य तु । पालयामास वसुधां प्रजापति रिवापरः ॥१॥
त्रिंशद्वर्षसहस्त्राणि पालयित्वा महीमिमाम् । सप्तद्वीपान्विभज्यासौ पुत्रेभ्यः प्रददौ बिभुः ॥२॥
राज्ये निक्षिप्य तनयान्सप्तद्वीपेषु सप्तसु । विषयानुपसंहृत्य जगाम तपसे वनम् ॥३॥
तपोवनगतं श्रुत्वा राजानं परमद्युतिम् । समाजमुर्महात्मान ऋषयस्तं दिदृक्षवः ॥४॥
तानागतानृषीन्दृष्ट्वातपोनिर्द्धूतकल्मषान् । पूजयामास मेधावी विषिष्टेन कर्मणा ॥५॥
पाद्यार्घ्याचमनीयेन प्रियप्रश्नोत्तरेण च । अथ तेषूपैष्टेषु ब्राह्मणेषु महात्मसु ॥६॥
आजगाम महातेजाः पुलस्त्यो ब्रह्मणः सुतः । दीप्यमानो माहातेजा द्वितीय इवभास्करः ॥७॥
तं दृष्ट्रवा मुनयः सर्वे स च राजा महारथः । उत्तस्थुर्विस्मिताः सर्वे प्रोत्फुल्लनयनास्ततः ॥८॥
कृत्वा तु संविदं तेन यथाविधि विधानतः । विष्टरं च ददुस्तस्मै पाद्यार्घ्यचमनादिकम् ॥९॥
ततस्तु मुनयः सर्वे समासीना यथासुखम् । चक्रुः कथा मुदा युक्ता वेदोक्ता विविधाश्रयाः ॥१०॥
ततः कथांते कस्मिंश्विन्मुनयस्ते सराजकाः । पप्रच्छुर्बह्मतनयं लोकानां हितकाम्यया ॥११॥
ऋषय ऊचुः ॥ भगवन्केन दानेन व्रतेन नियमेन वा । प्राप्यते सद्भतिः पुंभिः स्त्रीभिश्व मुनिसत्तम ॥१२॥
एतदिच्छामहे श्रोतुं राजा चायं यतव्रतः । पुलस्त्य उवाच ॥ शृणुध्वं मुनयः सर्वे रहस्यं पापनाशनम् ॥१३॥
उत्तमं सर्वदानानां समवायं बदानि वः । यद्दत्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः ॥१४॥
कृतघ्नः कूटसाक्षी च मुच्यते पातकान्नरः । सद्यो दिव्यतनुश्वैव जायते स्त्रीतथैव च ॥१५॥
कृच्छ्राचान्द्रायणाद्यैश्व तुलापुरुषसंज्ञितैः । व्रतैश्व पाचयेद्दहमाकांक्षन्ब्रह्मणः पदम् ॥१६॥
कृच्छ्रचांद्रायनादीनि व्रतानि मुनिसत्तमाः । ब्राह्मणानां वनस्थानां भिक्षो रंडाजनस्य च ॥१७॥
कायक्लेशन सिध्यंति गृहस्थेषु तानि वै । महाधनाश्व ये लोका राजानो रत्नभागिनः ॥१८॥
न तेषां कृच्छ्रसाध्योऽपि क्कचिद्धर्मः प्रशस्यते । यद्देतद्रविणं नाम प्राणाश्वैते बहिश्वराः ॥१९॥
तस्माद्वहिश्वरैः प्राणै रात्मा योज्यः सदा बुधैः । द्रव्याणामुत्तमं लोके कांचनं सार्वकामिकम् ॥२०॥
अपत्यं सुरमुख्यस्य ज्येष्ठं चैव बिभावसोः । तेन स्तर्य अ आत्मानं तोलयेत्प्रयतो बुधः ॥२१॥
विधूय सर्व पावनिसद्यो दिव्यतनुर्भवेत् । एतत्पुलस्त्यमुनिना ऋषीणां पार्थिवस्य व ॥२२॥
समाख्यातं नृपश्रेष्ठ तेभ्यश्व तन्मयाश्रुतम् । युधिष्ठिर उवाच । तुलापुरुषदानस्यविधानं परमेश्वरः ॥२३॥
कथयस्व महाभाग मम भक्तानुकंपया । श्रीकृष्ण उवाच । श्रृणुष्वावहितो राजन्विदानं गदतो मम ॥२४॥
तुलापुरुषसंज्ञस्य दान्स्तेह नृपोत्तम । व्यतीपातेऽयने चैव कार्तिक्प्रां विषुवे तथा ॥२५॥
चंद्रसूर्षग्रहे यद्वा माघ्यां वा नृपसत्तम । जन्मर्क्षे ग्रहपीडामु तथा दुःस्वप्नदर्शने ॥२६॥
यदा वा जायते विक्ते तदा देयमिदं भवेत् । अनित्यं जीवितं यस्माद्वपुश्वातीव चंचलं ॥२७॥
केशेषु च गृहीत सन्मृत्युना धर्ममाचरेत् । तस्माद्यदैव जाथेत श्रद्धा दानं प्रति प्रभो ॥२८॥
दानकालः स्यात्कातरणहिमतं मम् । तीर्थे वायतने गोष्ठेष्वथवा भवनांगणे ॥२९॥
मंडपं कारयेद्विद्वांश्वतुर्भद्रानमं बुधः । आर्द्रशाखान्वितं दिव्यं प्रागुदक्प्रवणं दृढम् ॥३०॥
षोडषारत्निसात्रं च पताकामिरलंकृतम् । तन्मध्ये कारयेद्वेदिहस्तमात्रोच्छ्रितां शुभाम् ॥३१॥
चतुस्त्रां समंताच्चसप्तहस्तां सुशोमदाम् । तस्या मध्ये तुलां दिव्यां स्थापयेद्विंधिपूर्वकम् ॥३२॥
हस्तद्वयं निखनेच्चतुर्हरताच्छ्रितां बुधः । स्तंभद्वयं महाराज स्थापयेत्सुदृढं नवम् ॥३३॥
चंदनखः खदिरो बिल्वः शाकश्वैर्वेगुदस्तथा । तिंदुको देवदारुस्व्हश्रीपर्णश्वाष्टमः स्मृतः ॥३४॥
इत्यष्टौवृक्षजातीयाः स्तंभास्ते परिकीर्तिताः । अन्यश्वापि भवेद्वृक्षः सारज्ञो यज्ञिकस्तथा ॥३५॥
सुनिश्वलं ततः कृत्वा तिर्यक्काष्ठमथोपरि । न्यसेतद्वुक्ष जार्तायंचतुर्हस्तंप्रमाणतः ॥३६॥
समानजातिं तु तुलां तन्मध्ये योजयेदृढम् । षण्णबन्येगुलादिव्यासमग्रालोहपाशिका ॥३७॥
कृष्णलोहमयौ तस्यां चापि प्रकल्पयेत् । तुलापुरुषसंज्ञस्तु मध्ये कार्यः पुमान्भवेत् ॥३८॥
एवंविधां तुलां कृत्वा नानारत्नैर्विभूषिताम् । चंदनेनुलिप्तां गां वस्त्रालंकारविग्रहम् ॥३९॥
स्तंभौ च वस्त्रसंयुक्तौ पुष्पमालावलंबिनौ । चंदनेनानुलुप्तांमो नानास्त्नैरलंकृतौ ॥४०॥
कुंडानि चात्र चत्वारि योनियुक्तानि कारयेत् । हस्तमात्रप्रमाणानि मेखलात्रयवंति च ॥४१॥
पूर्वोत्तरे हस्तमिता वेदिः कार्या सुशोभिना । लोकपालग्रहाणां च पूजा तत्र विधीयते ॥४२॥
अर्चार्चनं च तत्रैव विरंच्यच्युतयोर्नुप । शंकरस्य भवेत्कार्य माल्यवस्त्रफलाक्षतैः ॥४३॥
तोरणानि च कार्याणि क्षीरवृक्षोद्भवानि च । चतुर्द्वारेषु संस्थाप्याः कुंभाः स्त्रब्लल्लवाननाः ॥४४॥
पंचरत्नसमायुक्ताः सप्तधान्योपरि स्थिताः । ऋग्वेदपाठकौ द्वौ च पूर्वकुंडे नियोजयेत् ॥४५॥
यजुर्वेदविदौ याम्ये पश्चिमे सामवेदिनौ । अथर्वणावुत्तरतो नवमो धर्मदेशकः ॥४६॥
अत्रैव केचिदिच्छंति ऋषयः षोडशर्विजः । ताम्रपात्रद्वयं देयमेकैकस्य तथासनम् ॥४७॥
होमद्रव्याणि सर्वाणि तिलाज्यं समिधस्तथा । स्त्रुवाः स्त्रुचश्व शस्त्राणि विष्टरः कुसुमानि च ॥४८॥
लोकपालाः सुवर्णास्तु पताकाः परितः शुभाः । महध्वजं च बध्नीयात्पंचवर्ण वितानकम् ॥४९॥
एतत्सर्वे समाहृत्य पुण्येऽहनि विचक्षणः । बर्द्धकिर्ब्राह्मणैः सार्द्ध सर्वशिल्पविशारदः ॥५०॥
संपूर्ण यजमानाय दर्शयेद्यमंडपम् । यजमानस्ततः प्राज्ञः शुल्काबरधरः शुचिः ॥५१॥
शंखतूर्यनिनादेन वेदध्वनिरवेण च । प्रक्षिपेल्लोकपानामोमिर्मत्रैः शुभैर्बलिम् ॥५२॥
एंह्यहि सर्वामरसिद्धसाध्यैरभिष्टुतो वज्रधरामरेश । संवीज्यमानोप्तरसां गणेनः रक्षाध्वरं नो भगवन्नमस्ते ॥५३॥
ॐइंद्राय नमः ॥ एह्येहि सर्वामरहव्यवाह मुनिप्रवीरैराभिहृष्टमानसः । तेजोवता लोकगणेन सार्ध ममाध्वरं रक्ष कवे नमस्ते ॥५४॥
ॐअग्रये नमः ॥ एह्येहि यैवस्त्रतधर्मराज सर्वामरैरर्चितादिव्यमूर्ते । शुभाशुभकृत्यं कृतामधीश रक्षध्वरं मे भगवन्नमस्ते ॥५५॥
ॐयमाय नमः ॥ एह्येहि रक्षोगणनायकस्वं विशालवेतालपिशाचसंधैः । ममाध्वरं पाहि पिशाचनाथ लोकेश्वरस्त्वं भगवन्नमस्ते ॥५६॥
ॐनिऋतये नमः ॥ एह्येहि यादोगणवरिधीनां गणेन पर्जन्यसहाप्सरोनिः । विद्याधरेम्द्रामरणीयमान पाहि त्वम मान्भगवन्नमस्ते ॥५७॥
ॐवरुणायनमः ॥ एह्रेहि यज्ञे मम रक्षणाय मृगाधिरुढः सह सिद्धसंघैः । प्राणाधिपः कालकवेःसहायो गृहाण पूजां भगवन्नमस्ते ॥५८॥
ॐवायवे नमः ॥ एह्येहि यज्ञेश्वर यज्ञरक्षां विधस्त्व नक्षत्रगणेन सार्द्धम । सर्वौपधीभिः पित्रिभि सहैव गृहाण पूजां भगवन्नमस्ते ॥५९॥
ॐसोमाय नमः । एह्येहि विश्वेश्वर विश्वमूर्ते त्रिशूलखट्वांगधरेण सार्द्धम् । लोकेन भूतेश्वर यज्ञसिद्धयै गृहाण पूजां भगवन्नमस्ते ॥६०॥
ॐईशानाय नमः ॥ एह्येहि पातालधरः धरेंद्रे नागांगनाकिन्नरगीयमान । यक्षोरगेंद्रामरलोकसाकमनंत रक्षाध्वमस्मदीयम् ॥६१॥
ॐअनंताय नमः ॥ एह्येहि विश्वाधिपते भुनींद्रलोकेश सार्द्ध पितृदेवताभिः । विशाध्वरांतः सततं शिवाय पितामहस्त्वं सततं नमस्ते ॥६२॥
ॐब्रह्मणे नमः । त्रैलोक्ये यानि भूतानि स्थावराणे चराणि च । ब्रह्मविष्णुशिवैः सार्द्ध रक्षां कुर्वतुतानि मे ॥६३॥
देवदानवगंधर्वा यक्षराक्षसपन्नगाः । ऋषयो मनवो गावो देवमातर एव च ॥६४॥
सर्वेममाध्वरे रक्षां प्रकुर्वतु मुदान्विताः इत्यावाह्य सुरान्दद्यादृत्विग्भ्यः कंठभूषणम् ॥६५॥
कुंडलानि च हैमानि सूत्राणि कटकानि च । तथां गुलिपवित्राणि वासांसि कुसुमानिच ॥६६॥
द्विगुणं गुरवे दद्याद्भूषणाच्छादनादिकम् । आधाराबाज्यभागौ तु पूर्व हुत्वा विचक्षणः ॥६७॥
प्रणवादित्वनाम्रा च स्वाहांतो होम उच्यते । होमः सुराणां कर्तव्यो ये चैवात्र प्रतिष्ठिताः ॥६८॥
ग्रहाणां लोकपालानां शिवकेशवयोस्तथा । वनस्पीतभ्यो ब्रह्मणे होमः कार्यो यथेच्छया ॥६९॥
ततो मंगलशब्देन स्थापितां वेदमंगलैः । त्रिःप्रदक्षिणामावृत्य गृहीतकुसुमांजालिः ॥७०॥
शुल्कमाल्यांबरो भूत्वा तां तुलामभिमंत्रयेत् । नमस्ते सर्वदेवानां शक्तिस्त्वं सत्यमास्थिता ॥७१॥
साक्षिभूता जगद्धात्रि निर्मिता विश्वयोनिमा । एकतः सर्वसत्यानि तथानृतशतानि च ॥७२॥
धर्माधर्मभृतां मध्ये स्थापितासि जगद्धिते । त्वं तुले सर्वभूतानां प्रमाणमिह कीर्तिता ॥७३॥
मा तोलयंती संसारादुद्धरात्रनमोस्तु ते । योसौ तत्त्वाधिपोदेवः पुरुषः पंचविंशकः ॥७४॥
स एकोऽधिष्ठितो देवि त्वयि तस्मान्नमो नमः । नमो नमस्ते गोविंद तुलापुरुषंसंज्ञक ॥७५॥
त्वं हरे तारयस्त्वास्मानस्मात्तंसारसागरात् । पुण्यकालमथासाद्य कृत्वैवमधिवासनम् ॥७६॥
प्रणम्य परयाभक्त्या तां तुलामारुहेद्बुधः । सखड्गचर्मकव्रची सर्वाभरणमूषितः ॥७७॥
धर्मराजमथादाय हैमसूर्येण संयुतम् । कराभ्यां बद्धमुष्टिभ्वामास्ते पश्यन्हरेर्मुखम् ॥७८॥
वामे यमं तथा गृह्य दक्षिणं रवितथा । ततोऽपरे तुलाभागे न्यसेयुर्द्विजपुंगवाः । साम्यादभ्यधिकं यावत्कांचनं चातिनिर्मलम् ॥७९॥
पुष्टिकामस्तुं कुर्वीत भूमिसंस्थं नरेश्वर । क्षणमात्रं ततः स्थित्वा पुनरेतददीरयेत् ॥८०॥
नमस्ते सर्वभूतानां साक्षिभूते सनातने । पितामहेन देवित्वं निर्मिता परमेष्ठिता ॥८१॥
त्वयोद्धृतं जगत्सर्व सहस्थावरजगमम् । सवेभूतान्मभूतस्थे नमस्ते विश्वधारिणि ॥८२॥
ततोऽवतीर्य गुरवे सर्वमर्द्ध निवेदयेत् । ऋत्विरम्योपरमर्द्धच दद्यादुदकपूर्वकम् ॥८३॥
प्राप्य तेषामनुज्ञां वा तथान्ये भ्योऽपि दापयेत् । दीनानाथविशिष्टादीन्पूजयेद्ब्राह्मणैः सह ॥८४॥
न चिरं धारयेद्भेहे हेमसंप्रोक्षितं बुधः । तिष्ठद्भयावहं यस्मात्कष्टव्याधिकरं भवेत् ॥८५॥
शीध्रं परस्वीकरणाच्छिरीयं प्राप्नोत्यनुत्तमान् । अनेनैव विधानेनं केचिद्रौप्यमयं तथा ॥८६॥
कर्पूरेण तथेच्छंति केचिद्ब्राह्मणपुंगवाः । तथा सिततृतीयायां नार्यः सौभाग्यवर्धिताः ॥८७॥
कुंकुमेन प्रयच्छंति लवणेन गुडेन च । तत्र मंत्रा न होमो वा एवमेव प्रदापयेत् ॥८८॥
विधिनानेन यो दद्याद्दानमेतत्समहितः । तस्य पुण्यफले राजञ्छुणूष्व मदतो मम ॥८९॥
विमानवरमास्थाय नारी वा पुरुषोऽपि वा । अप्सरोगणंसकीर्ण गधर्वनगरोपमम् ॥९०॥
नानावृक्षाकुलंरम्यंनानागंधाधिवासितम् । अनेकरत्नविद्धागं मुक्तादामावलं बितम् ॥९१॥
शयनासनसकीर्ण पताकाभिरलंकुतम् । घंटाशतरवोद्युष्टं चामरव्यजनान्वितम् ॥९२॥
सर्वर्तुसुखदं रम्यं सर्वदुःखविवर्जितम् । इत्थं विमानमारुह्य गच्छेत्सूर्यसले कताम् ॥९३॥
रमित्वा तत्र राजेंद्र कल्पमेकं निरामयः । विष्णुलोके तथा कल्पं शिवलोके तथैवच ॥९४॥
विश्वेषां चैव देवानां देवराजपुरो तथा । पुरे च धर्मराजस्य वरुणस्य तथैव च ॥९५॥
धनदस्य पुरे स्थित्वा कल्पकोटिशतं नरः पुनर्मानुषमभ्येत्य राजा भवति धार्मिकः ॥९६॥
यज्वा दानपतिर्धीमाञ्छत्रुपक्षक्षयंकरः । यश्वेतच्छृणुयाद्भक्त्या महादानानुकीर्तनम् ॥९७॥
सोऽपि मुच्येत पापेन त्रिविधेन न संशयः ॥९८॥
ब्रह्मेशकेशवपरोऽस्ति न पूजनीयो नैवाश्वमेधसदृशः क्रतुरस्ति कश्वित् । गंगासमः त्रिभुवनेऽपि न तीर्थमस्ति दानं तुलापुरुषतुल्यमिहास्ति नान्यत् [ ७६११ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तुलापुरुषदानविधिवर्णनं नाम पंचराप्तत्यत्तरशततमोऽध्यायः ॥१७५॥