युधिष्ठिर उवाच ॥
स्मरयामि ह्रषिकेश यन्नोक्तं भवता क्वचित । तत्साविव्रीव्रतं ब्रूहि ममोपरि दयां कुरु ॥१॥
श्रीकृष्ण उवाच ॥ कथयामि कुलस्त्रीणां महाव्याग युधिष्ठिर । यथाचीर्णं व्रतवरं साविव्या राजकन्यया ॥२॥
आसीस्नद्नेषु धर्मात्ना सर्वभूतहितेरसः । पार्थिवोश्वपतिनीम पौरजानपदप्रियः ॥३॥
क्षमावांश्व क्षितिपतिः सत्यवांश्व जितेन्द्रियः । स सभार्यो व्रतसिदं चचार नृपतिः स्वयम् ॥४॥
साविव्रीव्रतसिद्धं तत्सर्वकामप्रदायकम् । तस्य तुष्टाभवद्राजन्साविव्री ब्रह्मणः प्रिया ॥५॥
भूर्भुवःस्वरितीत्येषा साक्षान्मूर्तिमती स्थिता । कमंडलुधरा देवी प्रसन्नवदनेक्षणा ॥६॥
उवाच दुहिता ह्येका तव्र राजन्भविष्यति । इत्येबमुक्त्वा साविव्री जगामादर्शनं पुत्तः ॥७॥
कालेन सा तथा राजन्दुहिता देवरूपिणी । सविव्र्या प्रीतया दत्ता साविव्या जप्तया तदा ॥८॥
साविव्रीत्येव नामास्याश्वकुर्विप्रास्तथा पिता । सा गृहवती सश्रीर्व्यवर्द्धत नृपात्मजा ॥९॥
साविव्री सुकुमाराङ्गी यौवनस्था बहूव ह । तां सुमध्यां पृशुश्रोणीं प्रतिमां काञ्चनीमिव ॥१०॥
प्राप्तेव देवकन्येति द्दष्टवा तामितरे जनाः । सा तु पद्मपलाशाक्षी प्रज्वलंतीव तेजसा ॥११॥
चचार सा च साविव्रीव्रतं थद्भृगुणोदितम् । अथोपोष्य शिरः स्त्रात्वा देवतामभिगम्य सा ॥१२॥
हुत्वाग्निं विधिवद्विप्रान्वाचयित्वेदुपर्वणि । तेभ्यः मुमनसः शेषाः प्रतिगृहा नृपात्मजा ॥१३॥
साध्वीपतिव्रताभ्येत्पदेवश्रीस्विरूपिणी । सोभिवाब्रपितुः पादौ कोराणवैनिवेद्यच ॥१४॥
कृतांजलिर्वरारोहानृपतेः पार्श्वतः स्थिता । नां दृष्टवा यौवनं प्राप्तां स्वच्छातां देवरूपिणीम् ॥१५॥
उवाच राजा संमंव्र्य स्मृत्यर्थं सह मंव्रिभिः । न स्मृतस्तु वरः कश्विद्योग्यस्तस्ये तथापि ह ॥१६॥
विचारवित्वा पश्यामि वरस्तुल्योअ न कश्वन । देवादीनां यथा वाच्यो नभवेयं तथा कुरु ॥१७॥
बुद्धन्यमानो मया पुव्रि धर्मशास्त्रेषु यच्छुतम । पितुर्गृहे तु या कन्या रजः पश्यत्यसंस्कृता ॥१८॥
ब्रह्महत्यापितुस्तव्र सा कन्या वृपली स्मृता । अतोर्थं प्रेषपामीति कुरु पुव्रि स्वयंवरम् ॥१९॥
वृद्धैरमात्यैः सहिताशीव्रंगच्छविचारतः । एवमस्त्विति साविव्री प्रोक्ता तस्माद्विनिर्ययौ ॥२०॥
तपोवनानि रम्याणि राजर्षीणां जगाम सा । मान्यानामव्र वृद्धानां कृत्वा पादभिषेचनम् ॥२१॥
ततोभिगम्य तीर्थानि सर्वाण्येवाश्रयाणि च । आजगामपुनर्वेश्म साविव्रो सह मैव्रिभिः ॥२२॥
तव्रापश्यतै देवषिं नारदं पुरतः पितुः । आसीनमासन विप्र प्रणम्यस्मितभाषिपी ॥२३॥
कथयामास तत्सर्वं यथावृत्तं वनेऽभवत् । साविव्युवाच ॥ आसीत्साल्वेषु षर्मात्मा क्षव्रियः पृथिवापतिः ॥२४॥
द्युमत्सेन इति ख्यातो दैवदत्तो बभूव सः । नारद उवाच । अहो बत महात्कृष्टं साविव्यानृपते कृतम ॥२५॥
बाल्यभावाद्यदनया गुणवान्सत्यवान्नृपः। सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ॥२६॥
उपेतोऽस्तिगुणैः सर्वैर्द्मुमत्सेनसुतोबली । एको दोषोऽस्ति नान्यऽस्य सोऽद्यप्रभृतिसत्यवाक् ॥२७॥
संवत्सरेण हीनायुर्देहत्यागं करिष्यति । नारदस्य वचः श्रुत्वा दुहितां प्राह पाथिंवः ॥२८॥
पुव्रि साविव्रि गच्छ त्वमत्यं वरय सत्पतिम् । संवत्सरेण सोऽल्पायुर्देहत्यागं करिष्यति ॥२९॥
साविव्युवाच ॥ सकृज्जल्पंति राजानः सकृज्जल्पंति पंडिताः । सकृत्प्रदीयते कन्या व्रीण्येतानि सकृत्सकृत् ॥३०॥
दीर्घायुरथवाल्पायुः सगुणो विर्गुणोऽपि वा । सकृद्वतो मया भती न द्वितीयं वृणोम्यहम् ॥३१॥
मनसा निश्वयं कृवा ततो वाचा भिधीयते । क्रियते कर्मणा पश्वात्प्रमाणं मे मनः सदा ॥३२॥
नारद उवाच ॥ यद्येतदिष्टं दुहिस्ततः शीघ्रं विधीयताम् । अविन्घमग्रे साविव्याः प्रादाने दुहितुस्तव ॥३३॥
एवभुक्त्वा समुत्पत्य नारदस्त्रिदिवं गतः । राजा च दुहितुः सर्वं वैवाहिकमथाकरोत् ॥३४॥
शुभे मुहूर्ते पाश्वस्थैव्रीह्मणैर्वेदपारगैः । साविव्यपि वरं लब्ध्वा भर्तारं मनसेप्सितम् ॥३५॥
मुमुदेऽतीव तन्वंगी स्वर्गं प्राप्येव पुण्यकृत् । एवं तव्राश्रमे तेषां वसतां प्रीतिपूर्वकम् ॥३६॥
कालस्तपस्यतांकश्विदतिचक्राम भारत । साविव्र्यास्तप्यमानायास्तिष्ठंत्याश्व दिवानिशम् ॥३७॥
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते । ततः काले बहुतिथे व्यतिक्रांते कदाचन ॥३८॥
स प्राप्तकालो म्रियेत इति संचिंत्य भामिनी । प्रोष्टपदे सिते पक्षे द्वादश्यां रजनीमुखे ॥३९॥
गणयंत्याश्वसाविव्या नारदोक्तं वचोहृदि । व्रतं व्रिराव्रमुद्दिश्य दिवाराव्रं विनाभवत् ॥४०॥
ततस्त्रिराव्रं निर्वर्त्य स्त्रात्वा संतर्प्य देवताः । चतुर्थेऽहनिमर्तव्यामितिसंचिंत्यभामिनी ॥४१॥
श्वश्रूश्वशुरयोः पादौ ववंदे चारुहासिनी । अथ प्रतस्थे परशुं गृहीत्वा सत्यवान्वनम् ॥४२॥
साविव्यपि हि पप्रच्छ नत्वा श्वश्रूपदानि सा । श्वशुराववदतां च न गंतव्यं त्वयानघे ॥४४॥
बाले त्वं परमं भीरुः कथं गच्छसि काननम् । भूयोभावेन सा प्रोचे व्रष्टव्यं काननं मया ॥४५॥
गच्छेति तां तदोचाते श्वशुरौ चारुहासिनीम् । ततो गृहीत्वा तरसा फलपुष्पसमित्कुशान् ॥४६॥
यथाशुक्ष्काणिवादायकाष्ठभारमकल्पयत । अथपाठन्यतः काष्ठं जाता शिरसि वेदना ॥४७॥
व्यथा मां बाधते बाले स्वप्तुमिच्छाभि सुंदरि । विश्वमस्व महाबाहो साविव्री प्राह दुःखिता ॥४८॥
पश्वादयगमिष्यामि स्वाश्रसं श्रमनाशानम् । यावदुत्संगके कृत्वा शिर आस्ते महीतले ॥४९॥
तावद्ददर्श साविव्री पुरुषं कृष्णपिंगलम् । किरिटिनं पीतवस्त्रं साक्षात्सूर्यमिवोदितम् ॥५०॥
तमुवाचाथ साविव्री प्रणम्य मधुपिंगलम् । कस्त्वं देवोऽथवा दैत्योमां धर्षयितुमागतः ॥५१॥
न चाहं केनचिच्छक्या स्वधर्मादवरोपितुम् । स्प्रष्टुं बा पुरुषश्रेष्ठ दीप्तामग्निशिखामिव ॥५२॥
यम उवाच ॥ यमः संयमनश्वास्मि सर्वलोकभयंकरः । क्षीणायुरेष ते भर्ता तं नयामि पतिव्रते ॥५३॥
न शक्यः किंकरैर्नेतुमतोऽहं स्वयमागतः । एवमुक्त्वा सत्ववतः शरीरात्याशसंचयैः ॥५४॥
अंगुष्ठमाव्रं पुरुषं निश्वकर्ष यमो बलात् । अथ श्रांतां तामुवाच यमस्तदा ॥५६॥
निर्वर्त गच्छ साविव्रि स्वगृहे त्वमिहागता । पष मार्गो विशालाक्षि न केनाप्यनुगम्यते ॥५७॥
साविव्र्युवाच ॥ न श्रमो न च मे ग्लानिः कदाचिदपि जायते । भर्तारमनुगच्छंति यास्तासां न श्रमादयः ॥५८॥
सतां गतिर्नान्या स्त्रीणां भर्ता सदा गतिः । वेदो वर्णाश्रमाणां च शिष्याणां च गतिर्गुरुः ॥५९॥
सर्वेषामेव जंतूनां स्थानमस्ति महीतलम् । भर्तारएवमनुजस्त्रीणां नान्यः समाश्रयः ॥६०॥
एवमन्यैश्व विविधैर्वाक्यैर्द्धर्मार्थसंहितैः । तुतोष सूर्यतनयः साविव्रीं चेदमव्रवीत् ॥६१॥
तुष्टोऽस्मि तव भद्रम ते वरं वरय भामिनि । साविव्र्यपि वरान्वव्रे विनयावनतानना ॥६२॥
चक्षुःप्राप्तिस्तथा राज्यं श्वशुरस्य महात्मनः । पितुःपुव्रशतंचैवपुव्राणांशतमात्मनः ॥६३॥
जीवितं च तथाभर्तुधर्मसिद्धिर्श्वशाश्वती । धर्मराजो वरान्दत्त्व प्रेषयामास तां ततः ॥६४॥
अथ भर्तारमासाद्य साविव्री ह्रष्टमानसा । जगाम साश्रमपदं सह भर्व्रा निराकुला ॥६५॥
भाद्रस्य पौर्णमास्यां तु यथाचीर्णं ब्रतंत्विदम् । माहात्म्यमस्य नृपते कथितं सकलं मया ॥६६॥
युधिष्ठिर उवाच ॥ कीद्दशं तद्द्तं देव साविव्र्या यदनुष्ठितम् । तस्मिन्भाद्रपदे मासि सिद्धान्नं तस्य कीद्दशम् ॥६७॥
का देवता व्रते तस्मिन्ब्रूहि मां प्रति हे प्रभो । सविस्तरं ह्रषीकेश ब्रूहि धर्मं सनातनम् ॥६८॥
श्रीकृष्ण उवाच । श्रूयतां पांडवश्रेष्ठ साविव्रीव्रतमादरात् । कथयामि कथं चीर्णं तथा सत्या युधिष्ठिर ॥६९॥
व्रयोदश्यां भाद्रपदे दंतधावनपूर्वकम् । व्रिराव्रनियमः कार्य उपवासस्य भारत ॥७०॥
अशक्त्या तु व्रयोदश्या नक्तं कुयांज्जितेन्द्रियः। अयाचितं चतुर्दश्यामुपवासेन पूर्णिमा ॥७१॥
नित्यं स्त्रात्वा महानद्यां तडागे चाथ निर्झरे । विशेषः पूर्णमास्यां तु स्त्रानं सर्षपमृज्जलैः ॥७२॥
गृहीत्वा तिलकान्षाव्रे प्रस्थमाव्रं युधिष्टिर । अथवा धान्यमादाय यवशालितिलादिकम् ॥७३॥
ततो वंशमये पाव्रे वस्त्रयुग्मेन वेष्टयेत् । साविव्रीप्रतिमां कृत्वा सर्वावयवशोभनाम् ॥७४॥
सौवणीं मृन्मयीं वापि स्वशक्त्या रौप्यनिर्मिताम् । रक्तवस्त्रयुगं दद्यात्साविव्यै ब्रह्मणे तथा ॥७५॥
साविव्रीं ब्रह्मणा सार्द्धमेवं भक्त्या प्रपूजयेत् । गंघैः सुगंधपुष्पैश्व घृपनैवेद्यदीपकैः ॥७६॥
पूर्णैः कोशातकैर्भक्ष्यैः कूष्मांडैः कर्कटीफलैः । नालिकेरैश्व खर्जूरैः कपित्थैर्दाडिमीफलैः ॥७७॥
जंबूजंबीरनारंगैः कर्कटैः पनसैस्तथा । जीरकैः कटुतुंबीभिः गुडेन लवणेन च ॥७८॥
विरूढैः सप्तधान्यैश्व वंशपाव्रे प्रकल्पितैः । राजोपचारभूतैश्व शुभैः कुंकुमकेसरैः ॥७९॥
अवतारवतीत्येवं साविव्री ब्रह्मणः प्रिया । तामर्चयेत मंव्रेण साविव्रीं ब्राह्मणः स्वयम् ॥८०॥
इतरेषां पुराणोक्तमंव्रोऽव्र समुदाह्रतः । ॐ कारपूर्वके देवि वीणापुस्तकधारिणी ॥८१॥
वेदमातर्नमस्तुभ्यमवैधव्यं प्रयच्छ मे । एवं संपूज्य विधिवज्जागरं कारयेत्ततः ॥८२॥
गीतवादिव्रशब्देन ह्यष्टतारीकदंबकैः । नृत्यहासैर्नयेद्राव्रिं पृष्ठतश्व कथानकैः ॥८३॥
साविव्याख्यानकं वापि वाचयेद द्विजसत्तमम् । यावत्प्रभातसमयं गीत्याभावरसैः समम् ॥८४॥
ततः प्रभाते विमल उषःकाले ह्युपस्थिते । ब्राह्मणे वेदविदुषि साविव्रीं विनिवेदयेत् ॥८५॥
यथा साविव्रकल्पज्ञे साविव्र्याख्यानवाचके । दैवज्ञ उंच्छवृत्तौ च दरिद्रेचाग्निहोव्रिणे ॥८६॥
मंस्त्रेणानेन कौंतेय प्रणम्य विधिपूर्वकम् । दर्भाक्षततिलैर्भिश्रा पूर्वाशाभिमुखास्थिता ॥८७॥
सुधी विप्रवरो विप्र ॐ कारस्वास्तिपूर्वके । साविवीयं मया दत्ता सहिरण्या महासती ॥८८॥
ब्रह्मणः प्रीणनार्थाय ब्राह्मणप्रतिगृह्यताम् । एवं दत्त्वा द्विजेंद्राय साविव्रीं तां युधिष्टिर ॥८९॥
नैवेद्यादि च तत्सर्वं तत्सर्वं ब्राह्मणः स्वगृहं नयेत् । स्वयं द्शपदं गच्छेत्स्ववेश्म पुनराविशेत् ॥९०॥
तव्र भुक्त्वा हविष्यान्नं ब्राह्मणैर्बांवैः सह । विसर्जयेत्ततो विप्रान्साविव्री प्रीयतामिति ॥९१॥
पंचदश्यां तथा ज्येष्ठे वटके च महासती । व्रिराव्रोपोषिता नारी विधिनानेन पूजयेत् ॥९२॥
सार्द्धं सत्यवता साध्वी फलनैवेद्यदीपकैः । पट्टालंबनं कृत्वा काष्ठभारं गुधिष्ठिर ॥९३॥
राव्रौ जागरणं कृत्वा न्नृत्यगीतपुरस्सरैः । प्रभाते विधिना पूर्वं पूर्वोक्तेन नरोत्तमः ॥९४॥
तत्सर्वं ब्राह्मणे दद्यात्प्रणियत्य क्षमापयेत् । एतत्तु ते व्रतमिदं कथितं विधिवन्मया ॥९५॥
याश्वरिष्यं तिलोकेस्मिन्पुव्रपौव्रामन्विताः । भुक्त्वा भोगांश्विरं भूमौ यात्यन्ति ब्रह्मणः पदम् ॥९६॥
एतत्पुण्यं पापहरं धन्यं दुःस्वन्पनाशनम् । जपतां शृण्वतांचैवसाविस्त्रीव्रतमादरात् ॥९७॥
स्मृत्यर्थवेदजननीं सहशंभुजायां संपुजयेदिह व्रिराव्रकृतोपवासा । साविव्रिवत्पितृकृलं च तथा स्वभर्तुरुद्धारयेच्च विभुनक्ति चिरं सुखानि ॥९८॥ [ ४३६४ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वटसाविस्त्रीव्रतं नाम व्द्यधिकशततमोऽध्यायः ॥१०२॥