युधिष्ठिर उवाच ॥
प्रसूयमाना दातव्या धेनुर्बाह्मणपुङ्गवे । विधिना केन धर्मज्ञ दाने तस्याश्व किं फलम् ॥१॥
श्रीकृष्ण उवाच ॥
प्रसूयमानातिपुण्यैः प्राप्यते गौर्नृपोत्तम । प्राप्नुवंति नराः केचित्पुण्यसंभारविस्तराः ॥२॥
यावत्पादौ योनिगतौ शिरश्वैव प्रदृश्यते । तावद्नौ पृथिवी ज्ञेया यावद्नर्भ न मुंचति ॥३॥
गौर्यावद्विमुखी चैव यदा भवति भारत । तदासौ पृथिवी ज्ञेया सशैलवनकानना ॥४॥
दत्वोभयमखीं राजःयत्पुण्यं प्राप्यते नृभिः । न तद्वर्णयितुं याति मुखेनैकेन केनचित् ॥५॥
किमिष्टैर्बहुभिर्यज्ञैर्दानैर्तत्तैश्व सत्तम । प्रसूयमानां गामेकां देहि किं बहुना तव ॥६॥
एकैव पाति नरकात्सुखमेकैव कारयेत् । एकापि द्विमुखी दत्ता गौर्गौर्भवति भारत ॥७॥
स्वर्णशृंगीं रौप्यखुरां मुक्तालाङ्गूलभूषिता । कांस्योपदोहनां राजन्नलंकृत्य द्विजोत्तमे ॥८॥
प्रसूयमानां गां दत्वा महापुण्यफलं लभेत् । यावंति धेनुरेमाणि वत्सरयापि नराधिप ॥९॥
तावद्वर्षशस्त्राणि रवर्गलोके महीयते । पितृन्पितामहांश्वैव तथैव प्रपितामहान् ॥१०॥
समुद्धरत्यसंदिर्ग्ध नरकाद्भूरिदक्षिणः । वृतक्षीरवहा नद्यो दधिपाथसकर्दमाः ॥११॥
तत्र ते यांति यत्रास्ति द्रुमश्वेप्सितकामदः । यो ददाति सुवर्णेन बहुना सह भाविनीम् ॥१२॥
गोलोकः सुलभस्तस्व ब्रह्मलोकश्व पार्थिव । न देया दुर्बला राजन्धेनुर्नैवाल्पदक्षिणा ॥१३॥
काम्योऽयं विधिरुद्दिष्टः फलदो विधिना कृतः ॥१४॥
स्त्रियश्व तं चंद्रसमानवक्राः प्रतप्तजांबूनदतुल्यवर्णाः । महानितंबारस्तनुवृत्तमध्याः सेवंत्यत्यजस्त्रं नलिनाभनेत्राः ॥१५॥ [ ६९४२ ]
इति श्रीभविष्येमहापुराणउत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे उभयमुखीगोदानव्रतविधिवर्णक्तं नामाष्टपंचाशदुत्तरशततमोऽध्यायः ॥१५८॥