युधिष्ठिर उवाच ॥
शुक्लपक्षतृतीयास्तु बहवः समुदाह्रताः । आनन्तर्पव्रतं ब्रुहि तृतीयोभयसंयुतम् ॥१॥
हिताय सर्वभुतानां ललनानां विशेषतः । नामप्राशननैवेद्यैर्मासि मासि पृथवपृथक ॥२॥
श्रीकृष्ण उवाच ॥ ब्रह्मविष्णु महोशाद्यैर्यथोक्तं सुरसत्तमैः । अपूर्वं सर्वमन्व्राणामानन्तर्यव्रतं शूणु ॥३॥
आदौ मार्गशिरे मासि व्रतमेतत्समाचरेत् । नक्त कुर्याद् द्वितीयायां तृतीपायामुपोषितः ॥४॥
उमां देवीं समभ्यच्य पुष्पगन्धादिभिः क्रमात् शर्करापुव्रिकां शक्त्या प्रणिपत्य निवेदयेत् ॥५॥
प्राशयित्वा दधि राव्रौ स्वपेद्विगतमत्सरः । प्रभाते विधिवद्भक्त्या मिथुनं भोजयेत्सुधीः ॥६॥
अश्वमेधमवान्पोति समग्रं नाव्र संशयः । तथा कृष्णतृतीयायां सोपवासो जितेन्द्रियः ॥७॥
जपेत्कात्यायनीं नाम नालिकेरं निवेदयेत् । क्षीरं प्राश्य स्वपेद्राव्रौ कामक्रोधविवर्जितः ॥८॥
दाम्पत्यं सुभगं भोज्यं भोमेधफलमाप्रुयात् । पौषस्यादितृतीयायां सोपवासो जितेन्द्रियः ॥९॥
गौरीं नाम तु संपूज्य लड्डुकान्विनिवेदयेत् । घृत प्राश्य स्वपेद्राव्रौ त्यक्त्वा काम तदग्रतः ॥१०॥
प्रभाते मिथुनं भोज्यं नरमेधफलं भवेत् । एवं कृष्णतृतीयायां पार्वतीमिति पूजयेत् ॥११॥
निवेद्यान्न च शष्कुल्यो गोमयं प्राशयेन्निशि । दाम्पत्यं भोज्यमश्वमेधफलं लमेत् ॥१२॥
माधस्य शुक्लपक्षे तु तुतीयायामुपाषितः । सुरनायिकां च संपूज्य खण्डबिल्वं निवेदयेत् ॥१३॥
ततः कुशोदकं प्राश्य स्वपेद्भमौ जितेन्द्रिपः। प्रभाते मधुरान्नेन मिथुनं भोज्य भक्तितः ॥१४॥
क्षमाप्यान्ते नमस्कृत्य इति स्वर्णफलं लभेत् । पुनरेतत्ततो माघे कृष्णपक्षे शुचिव्रतः ॥१५॥
आर्यां नाग्ना प्रपूज्याथ खाद्यकानि निवेदयेत् । मधु प्राश्य स्वपेद्राव्रौ कामक्रोधविवर्जितः ॥१६॥
मिथुनं भोजयित्वा तु वाजपेयफलं लभेत् । एवं वै फाल्गुने मासि सोपवासां शुचिव्रतः ॥१७॥
भद्रीं नाम प्रपूज्याथ कासारं विनिवेदयेत् । शर्करां प्राशयित्वाथ स्वपेद्राव्रौ विमत्सरः ॥१८॥
प्रभाते मिथुनं भोज्यं सौव्रामणिफलं लभेत् । पुनः कृष्णतृतीयायां फाल्गुनस्यैव भारत ॥१९॥
विशालाक्षीं समब्यर्च्य पूरिका विनिवेदयेत् । सोदकांस्तष्डुलान्दत्त्वा स्वपेद्भूमौ मनस्विनी ॥२०॥
भोजयेन्मिथुनं प्रातरग्निष्टोमफलं लभेत् । चैव्रस्यादितृतीयायां शुचिर्भूता जितोन्द्रिया ॥२१॥
श्रिंय देवीं यजेद्भक्त्या वटकानि निवेदयेत् । बिल्वपव्रं ततः प्राश्य स्वपेद्धन्यानपरायणा ॥२२॥
प्रातरुत्थाय मद्भक्त्या मिथुनं पूजयेत्सुधीः । प्रणिपत्य क्षमाप्यैवं राजसूयफलं भवेत् ॥२३॥
पुनः कृष्णतृतीयायां चैव्रे सम्यगुणोषिता । कालीं नाम समभ्यर्च्य पिष्टं प्राश्य स्वपेन्निशि ॥२४॥
पूपकानि निवेद्याथ कूर्याद्राव्रौ प्रजागरम् । मिथुनानि च संभोज्य अतिराव्रफलं भवेत् ॥२५॥
एवं वैशाखमासे तु सोपवासो जितोन्द्रियः । पूजयेच्चणिकां देवीं मधुकानि निवेदयेत् ॥२६॥
श्रीखण्डं चन्द्नं लिप्त्वा स्वपेद्देव्यग्रतो भुवि । भोजयित्वा च दाम्पत्यं चान्द्रायणफलं लभेत् ॥२७॥
तथा कृष्णतृतीययां सोपवासो विमत्सरः । पूजयेत्कालराव्रिं तु गन्धपुष्पैः सदीपकैः ॥२८॥
सुराज्यं पावकं दत्त्वा तिलान्भुञ्जन्स्वपेन्निशि । प्रभाते मिथुनं भोज्यमतिकृच्छ्र्फलं लभेत् ॥२९॥
ज्येष्ठे सिततृतीयायां ह्युपवासकृतां बरः । शुभां देवीं समभ्यर्च्य आस्त्राणि विनिवेदयेत् ॥३०॥
संप्राश्यामलकं राव्रौ गौरीं ध्यात्वा सुखं स्वपेत् । ततः प्रातः समुत्थाय दाम्पत्यं रुपशालिनम् ॥३१॥
भोजयित्वा विधानेन तीर्थयाव्राफलं लभेत् । पुनः कृष्णतृतीयायां सोपवासा सुवासिनी ॥३२॥
स्कन्दमातेति संपूज्य इडायै विनिवेदयेत । प्राशयेत्पञ्चगव्यञ्च स्वपेद्देव्यग्रतस्ततः ॥३३॥
प्रभाते मिथुनं भोज्यं कन्यादानफलं लभेत् । आषाढमासे संप्राप्त पूजयेच्च यशोधनम् ॥३४॥
करञ्जकं च नैवेद्य गोशृङ्गम्मः पिबेन्निशि । प्रभाते मिथुनं भोज्यं कान्यादानफलं लभेत् ॥३५॥
तथा कृष्णतृतीयायां कूष्माण्डीं शक्तितो यजेत् । सक्तूत्गुडाज्यसंयुक्तान्पुरतो विनिवेदयेत् ॥३६॥
कुशोद्कं च संप्राश्य स्वपेद्राव्रौ जितेन्द्रिया । प्रभाते मिथुनं भोज्यं गोप्तहस्त्रफलं लभेत् ॥३७॥
श्रावणे सोपवासा च चण्ढां घण्टां प्रपूजयेत् । कुल्माषास्तव्र नैवेद्यं विबेत्पुष्पोदकं पुनः ॥३८॥
प्रभाते शक्तितो दद्याद्भोजनं मिथुनस्य तु । प्रान्पोत्यभयदानस्य फलं नैवाव्र संशयः ॥३९॥
तद्वत्कृष्णतृतीयायां रुद्राणीं नामभिर्यजेत् । सिद्धपिण्हानि दिव्यानि नैवेद्यं दापयेत्तथा ॥४०॥
पिण्याकं प्राशयित्वा तु स्वपे्द्राव्रौ विमत्सरा । सपूज्य द्विजदाम्पत्यमिष्टापूर्तफलं लभेत् ॥४१॥
भाद्रे शुक्लतृतीयायां पूजयेत हिमाद्रिजाम् । गोधूमान्नं निवद्यैव प्राशयेच्चन्दनं सितम् ॥४२॥
गन्धोदकं ततः प्राश्य सखीभिः सहिता स्वपेत् । प्रभाते भिथुनं भोज्यं मार्गपालीशतं लभेत् ॥४३॥
तद्वत्कृष्णतृतीयायां दुर्गां देवीं समर्चयेत् । दद्यात्पिष्टफलान्दिव्यान्गुडाज्यपपूरितान् ॥४४॥
प्राशयित्वा तु गोमूव्रं स्वपेच्छान्तेन चेतसा । प्रातस्तु मिथुनान्भोज्य सदा सव्रफलं लभेत् ॥४५॥
मासि चाश्वयुजे भक्त्या देवीं नारायणीं यजेत् ॥४७॥
सोपवासा खण्डपूपान्नैवेद्यं परिकल्पयेत् ॥४६॥
प्राशयेच्चन्दनं रक्तं स्वपेच्च गतमत्सरा । प्रभाते भोज्य दम्पत्यमग्निहोव्रफलं लभेत् ॥४७॥
तथा कृष्णतृतीयायां स्व्रस्ति नाम प्रपूजयेत् । शाल्योदनं गुडोपेतं नैवेद्य निर्वपेत्ततः ॥४८॥
कुसुम्भबीजार्न्सप्राश्य त्यक्त्वा कामं स्वपेन्निशि । संभोज्य मिथुनं प्रातर्गवाह्रिकफलं लभेत् ॥४९॥
कार्तिकस्य तृतीयायां स्वाहानास्त्रीं प्रपूजयेत् । क्षीरं खण्डघृतोपेतं नैवेद्यं दापयेच्च ताम् ॥५०॥
स्वपेद्राव्रौ जितक्रोधा प्राश्य कुङ्कुमकेशरान् । प्रभाते मिथुनं भोज्यमेकभक्तफलं लभेत् ॥५१॥
तथा कृष्णतृतीयायां स्वधानान्नीं प्रपूजयेत् । मुद्रौदनं निवेद्याथ घृतं प्राश्य स्वपेन्निशि ॥५२॥
प्रातः संभोज्य मिथुनं नक्तव्रतफलं लभेत् । एवं संवत्सरं कृत्वा मुक्तपापा शुचिर्भवेत् ॥५३॥
शुक्लपक्षे तृतीयायां सोपवासा निरामया । विज्ञाय च द्रुतं भक्त्या उमां शास्त्रार्थबोधकः ॥५४॥
मण्डलं च ततो लिख्य नवनाभं वरप्रदम् । सौवर्णं कारयेद्देवमुमया सहितं प्रभुम् ॥५५॥
ताभ्यां नेव्रेषु दातव्यं मौक्तिकं नीलमेव च । प्रवालमोष्ठयोर्दद्यात्कर्णयो रत्नकुण्डले ॥५६॥
उपवीतं तु देव्रस्य देव्या हारं तथोरसि । रक्तवस्त्रधरां देवीं सितवस्त्रं महेश्वरम् ॥५७॥
जलेन स्नापयित्वा तु पुष्पैर्धूपैरथार्चयेत् । मण्डल पूजयित्वा च होमं कुर्यात्ततो गुरुः ॥५८॥
ततोऽपराजितां नाम देवीं तव्रैव पूजयेत् । मृत्स्त्रां सप्राशयित्वा च राव्रौ कुर्यात्मजागरम् ॥५९॥
गीतवाद्योत्सवैर्हृद्यैर्वीणामड्रलपाठकैः । राव्रिमेवं जपेद्भक्त्या यावदुद्रच्छते रविः ॥६०॥
तूलीगण्डकसंयुक्ते पर्यङ्केत्यन्तशोभिते । उद्धृत्य मण्ड्लाद्देव पर्यङ्कोपरि विन्यसेत् । ॥६१॥
वितानध्वजमालालिकिङ्किणीदर्पणान्वितम् । पुष्पमण्डपिकाच्छन्नं धूपगुरगुलुवासितम् ॥६२॥
तस्याग्रे भोजयेद्भक्त्या स्वशक्त्या मिथुनानि च । प्रीणयेद्भक्ष्यभोज्यैश्व पक्कान्नैर्मधुरैः शुभैः ॥६३॥
ततो द्त्त्वाऽक्शतान्हस्ते ताम्बूलं विनिवेदयेत् । प्रीयतां मे उमाकान्तः पार्वत्या सहितः शिवः ॥६४॥
उच्छिष्टं शोधयित्वा तु पुनः प्रोक्ष्य समन्ततः । रक्तवर्णां सुशीलां च सुरूपां सुपयस्विनीम् ॥६५॥
शृङ्गभ्यां दत्तकनकां राजतखुरसंयुताम् । कांस्यदोहनकोपेतां रक्तवस्त्रावगुण्ठिताम् ॥६६॥
घण्टाभरणशोभाढन्यां देवदेव्यग्रसंस्थिताम् । पादुकोपानहच्छव्रभोज्यभाजनसंयुताम् ॥६७॥
व्रिधा प्रदक्षिणीकृत्य गुरौ सर्वं निवेदयेत् । उमामहेश्वरं दवमवियोगं सुरर्चितम् ॥६८॥
अव्यवच्छेदभूतं च सुप्रीतं तदिहास्तु मे । प्रणम्य शिरसा भूमौ क्षमस्वेति गुरुं बदेत् ॥६९॥
एवं समाप्यते देव्या आनन्तर्यव्रतोत्तमम् यः प्रकुर्यात्पुमान्स्त्री वा तस्य पुण्यफलं शृणु ॥७०॥
गन्धर्वयक्षलोकांश्व विद्याधरमहोरगान् । ऋषिसिद्धामरं ब्राह्मं विष्णुलोकं सनातनम् ॥७१॥
भुक्त्त्वा भोगानशेषांश्व एकविंशत्कुलान्वितः । रत्नयाने समारूडो गुह्याप्सरससंवृतः ॥७२॥
देवविद्याधरेर्यक्षैर्वृ याति शिवालयम् । तव्र भुक्त्वा महाभोगान्स भुङक्ते शिववद्धहून् ॥७३॥
भुक्त्वा भोगान्यदा भूतः कदाचित्तपसः क्षयात् । पृथिव्यां तु समागम्य भवेत्सकलभूमिपः ॥७४॥
स्त्रीवा समाचरेद्या तु महादेवी तु जायते । आनन्तर्यव्यवच्छिन्नान्भोगान्दवी उमा यथा ॥७५॥
वैलोक्यपतिरुद्रेण सा भुङ्रक्ते सहिता तथा । मनुर्देव्या यथा मह्या शच्या शक्रो यथा सुखम् ॥७६॥
नैरन्लर्यं यथासौख्यं सा भुङ्रक्ते पतिना सह । मुनेररुन्धती यद्वद्विष्णोर्लक्ष्मीर्हृदि स्थिता ॥७७॥
तथा तयोर्महत्सौख्यं नैरन्तर्यंहि जायते । साविव्री ब्रह्मणो यद्वद्रङ्रा तोयनिधेर्यथा ॥७८॥
अव्यवच्छिन्नयोः प्रीतिस्तथा जन्मनि जन्मनि । अथ जन्मन्यहोऽन्यस्मिन्व्रमेतत्कृतं भवेत् ॥७९॥
तेनैव पतिना सार्द्धं न वियोगमुपैति सा । योजनायुनसाहस्त्रे सुरूपा मण्डल भवेत् ॥८०॥
अर्घाढया सुभाग साध्वी पुव्रपौव्रैरलङ्रकृता । एतत्ते निखिल प्रोक्तमानन्तर्यव्रत मया ॥८१॥
भक्ताय सुविनीताय कथितव्य न चान्यथा ॥८२॥
एषा विशेषविहिताभिहिता तृतीया यानन्तरीत्यविधवाभिरुदीरितोच्चैः । एतामुपोष्य विधिवत्प्रतिपक्षयोगान्नैवान्तरं सुतसुह्रत्स्वजनैरुपैति ॥८३॥ [ १४८४ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽनन्तरतृतीयाव्रतवर्णनं नामैकोनव्रिंशत्तमोऽध्यायः ॥२९॥