श्रीकृष्ण उवाच ॥
सांप्रतं संप्रवक्ष्यामि हिरण्यश्वविधिं परम् । यस्य प्रदानात्पुरुषः । शाश्वतं फलमश्नुते ॥१॥
पुण्यं दिनमथासाद्य पात्रं वापि गुणाधिकम् । शक्तितस्त्रिपलादूर्ध्वमाशताच्च नरोत्तम ॥२॥
खलीनालंकृतमुखे कारयेद्धेमवाजिनम् । व्यूढारस्कोन्नतस्कंधं दृढजानुसवालाधिम् ॥३॥
स्थापयेद्वेदिमध्ये तु कृष्णा जिनतिलोपरि । कौशेयवस्त्रसंवीतं कुंकुमेन विलेपितम् ॥४॥
संपूज्य कुसुभैः श्वेतैश्वणकान्विगिवेद्य च । ततः पर्बसमीपे तु गृहीतकुसुमांजलिः ॥५॥
इममुच्चारयेन्मंन्त्र पुराणोक्त यतव्रतः । नमस्ते सर्व देवेश वेदाहरणलंपट ॥६॥
वाजिरुपेण मामस्मात्पाहि संसारसागरात् । त्वमेव सप्तधा भूत्वा छंदोरुपेण भास्करम् ॥७॥
यस्माद्धारयसे लोकानतः पाहि सनातन । एवमुच्चार्य तं राजन्विप्राय प्रतिपादयेत् ॥८॥
प्रदक्षिणं ततः कृत्वा प्रणिपत्य विसर्जयेत् । अनेन विधिना राजन्हिरण्याश्वमलंकृतम् ॥९॥
दत्त्वा पापक्षयाद्धानोर्लोकमाप्नोति शाश्वतम् । तस्मिन्नहनि भुंजीत तैलक्षारविवर्जितम् ॥१०॥
पुराणश्रवणं तद्वत्कारयेद्धोजनादनु ॥११॥
इत्थं हिरण्याश्वविधिं करोति यः सुपुण्यमासाद्य दिनं नरेंद्र । विमुक्तपापः स पुरं मुरारेः प्राप्नोति सिद्धेरभिपूजित यत् ॥१२॥
इति पठति य इत्थं हैमवाजिप्रदानं सकलकलुषमुक्तः सोऽश्वयुक्तेन भूप । कनकमयविमानेनार्कलोकं प्रयातित्रिदशपतिवधूभिः पूज्यते हर्म्यभोगैः ॥१३॥
यो वा शृणोति पुरुषोऽप्यथवा स्मरेद्वा हैमाश्वदानमभिनंदति दीयमान त् । सोऽपि प्रयाति हृतकल्मषशुद्धदेहः स्थानं पुरंदरमहेश्वर लोकजुष्टम ॥१४॥ [ ७४५५ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हिरण्याश्वदानविधिवर्णनं नाम षडशीत्युत्तरशततमोऽध्यायः ॥१८६॥