श्रीकृष्ण उवाच ॥
आश्वयुवछुक्लपक्षस्य प्रथमेऽह्रि दिनोदये । अशोकं पूजयेद्वृक्षं प्ररूषशुभपल्लवम् ॥१॥
बिरूढैः सप्तधान्यैश्व गुणकैर्मोदकैः शुभैः। फलैः कालोद्भवैर्दिव्यैर्नालिकेरैः सदाडिमैः ॥२॥
पुष्पधूपादिना तद्वत्पूजयेत्तद्दिनेऽनघ । अशोकं पाण्डवश्रेष्ठ शोकं नान्पोति कुव्रचित् ॥३॥
पितृभ्रातृपतिश्वश्रूश्वशुराणां तमेव च । अशोक शोकशमनो भव सर्वव्र नः कुले ॥४॥
इत्युच्चार्य ततो दद्यादर्घ्यं श्रद्वासमान्वितम् । पताकाभिरलङ्कत्य प्रच्छाद्य शुभवाससा ॥५॥
दमयन्ती यथा स्वाहा यथा वेदवती सती । तथा शोकव्रतादस्माज्जायते पतिवल्लभा ॥६॥
वने व्रजन्त्या सद्धर्मः सीतया संप्रदर्शितः । द्दष्ट्रवाऽशोकं वने पार्थ पल्लबालङ्कताम्वरम् ॥७॥
कृत्वा समीपे भर्तारं देवरंच तिलाक्षतैः । दीपालङ्कृतनैवेद्यधूपसूषफलार्चनैः ॥८॥
अर्चयित्वा ह्यर्थितोऽसौ रक्ताशोको युधिष्ठिर । मैथिल्या प्राञ्जलिर्भूत्वा शूण्वतो राघवस्य च ॥९॥
चिरं जीवतु मे वृद्धः श्वशुरः कोशलेश्वरः। भर्तामे देवराश्वैव जीवन्तु । भरतादयः ॥१०॥
कौसल्यामपि जीवन्तीं पश्येयमिति मैथिली । ययाचे तं महाभागा द्रुमं सत्योण्याचनम् ॥११॥
प्रदक्षिणमुप वत्य ततस्ते प्रययुः पुनः। एवमन्यापि या नारी पूजयेद्भुवि तं नगम् ॥१२॥
तिलतन्दुलसंमिश्रैर्यबगोधूमसर्षपैः । क्षमाप्य वन्दयेन्मूलं पादपं रक्तपल्लवम् ॥१३॥
मन्व्रेणानेव्र कौन्तेय प्रनम्य स्त्री पतिव्रता । महावृक्ष महाशाख मकरध्वजमन्दिर ॥१४॥
प्रार्थये त्यां महाभाग वनोपवनभूषण । एवमाभाष्य ने वृक्षं दत्त्वा विप्राय दक्षिणास् ॥१५॥
सखीभिः सहिता साध्वी ततः स्वभवनं व्रजेत् ॥१६॥
याः शोकनाशनमशोकतरूं तरूण्यः संपूजयन्ति कुसुमाक्षतधूपदीपैः । ताः प्राप्य सौख्यमतुलं भुवि भर्तृजातं गौरीपदे प्रमुदिताः पुनराप्नुवन्ति ॥१७॥ [ ७०१ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽशोकव्रतवर्णनं नाम नवमोऽध्यायः ॥९॥