युधिष्ठिर उवाच ॥
किमुद्वेगाद्बवेत्कृत्यमलक्ष्मीः केन हन्यते । मृतव्रत्सादिकार्येषु दुःखप्ने च किमिण्यते ॥१॥
श्रीकृष्ण उवाच ॥ पुरा कृतानि पापानि फलन्त्यव्र युधिष्ठिर । रोगदौर्गत्यरूपेण तथैवेष्टविघातनैः ॥२॥
तद्विघाताय वक्ष्यामि सदाकल्याणसप्तमीम् । सप्तमीस्त्रपनं नाम व्याधिपीडाविनाशनम् ॥३॥
बालानां मरणं यव्र क्षीरपानं प्रशस्यस्ते । तद्वदवृद्धानुराणां च यौवने वापि वर्तताम् ॥४॥
शान्तये तव्र वक्ष्यामि मृतवत्सादिके च यत् । एतदेवादुताद्वेगचिन्ताविभ्रमकारणम् ॥५॥
वराहकल्ये संप्राप्ते मनोर्वैवस्वतेऽन्तरे । कृते युगे महाराज हैहयो रूपवर्धनः ॥६॥
आसीन्नृपोत्तमः पूर्वे कृतवीर्यः प्रतापवान् । सप्तद्वीपमखिलं पालयामास भूतलम् ॥७॥
यावद्वर्षसहस्त्राणि सप्तसप्त्तिर्भारत । जातमाव्रं च तस्याथ शुभं पुव्रशतं किल ॥८॥
यवनस्य तु शापेन विनाशमगमत्पुरा । कृतवीर्यः समाराध्य सहस्त्रांशुं दिवाकरम् ॥९॥
उपवासव्रतैर्दिव्यैर्वेदसूक्तैश्व भारत । दर्शयामास चात्मानं कृतवीर्यस्य भानुमत् ॥१०॥
कृतवीर्येण वै पृष्टः प्रोवाचेदं बृहस्पतिः । अतिक्लेशेन महता पुव्रस्तव नराधिप ॥११॥
भविष्यति चिरंजीवी किन्तु कम्लषनाशनम् । सप्तमीस्त्रपनं बाप्यां कुरु पापविनष्टये ॥१२॥
यातस्य मृतवत्सायाः सप्तमे मासि भूपते । ग्रहताराबलं लब्ध्व्रा कृत्वा ब्राह्मणवाचनम् ॥१३॥
बालस्य जन्मनक्षव्रं वर्जयेत्तां तिथिं बुधः । सद्वृद्धातुराणां तु कृतं स्यादिति तेषु च ॥१४॥
गोमयेनोपलिप्तायां भूमावेकाग्रचित्तवान् । तन्दुलै रक्तशालेयैर्वरुणाक्षीरसंयुतम् ॥१५॥
निर्वत्सूर्यं मुद्नैस्तु मानृभ्योपि विधानतः । कीर्तयेत्सूर्यदैवत्यं सप्तार्चिषि घृताहुतीः ॥१६॥
जुहुयाब्रुद्रसूक्तेन तद्वद्रुद्राय भारत । होतव्याः समिधश्वाव्र तव्र वार्कपलाशजाः ॥१७॥
यवकृष्णतिलैर्होमः कर्तव्योऽष्टशतं पुनः । हुत्वा स्त्रानं च कर्तव्यं मध्ये गाङ्गेन धीमता ॥१८॥
विप्रेन वेदविदुषा विधिवद्दर्भपाणिना । स्थापयित्वा चतुःकोणे चतुःकुम्भान्प्रशोभनान ॥१९॥
पञ्चमं च पुनर्मध्ये साक्षतं च विभूषितम् । स्थापयेद्दर्पणाक्रान्तं सप्तर्षिणाभिमन्व्रितः ॥२०॥
सौरेण तीर्थतोयेन पूर्णचन्द्रमलान्वितान् । सर्वान्सर्वौषधियुतान्पञ्चभङ्गजलान्वितान् ॥२१॥
पञ्चरत्नफलैर्युक्ताञ्छाखाभिरपि वेष्टितान् । गजाश्वरथ्याराजद्वार्वल्मीकाद्ध्रदगोकुलात् ॥२२॥
सुशुद्धां मृदमानीय सर्वेष्वेव विनिक्षिपेत् । चतुर्ष्वपि च कुम्भेषु रत्नगर्भेषु मध्यमम् ॥२३॥
गृहीत्वा ब्राह्मणं चाव्र सौरान्मन्व्रानुदीरयेत् । नारीभिः सप्तसंख्याभी रथाङ्गाङ्गाभिरव्र च ॥२४॥
भोजिताभिर्यथाशक्त्या माल्यवस्त्रविभूषणैः । सविप्राभिश्व कर्तव्यं मृतवत्साभिषेचनम् ॥२५॥
दीर्घायुरस्तु बालोऽयं जीवपुव्रा च भाविनी । आदित्यश्वन्द्रमाः सर्वं ग्रहनक्षव्रमण्डलम् ॥२६॥
शक्रः सलोकपालो वै ब्रह्मा विष्णुर्महेश्वरः । एते चान्ये च वै देवाः सदा पान्तु कुमारकम् ॥२७॥
मास्निर्मांसहुतभुङमा च बालग्रहाः क्कचित् । पीडां कुर्वन्तु बालस्य मा मानृजनकस्य वै ॥२८॥
ततः शुक्लाम्बरधराः कुमारं पतिसंयुताः । सप्तकं पूजयेद्भक्त्या पुष्पैर्गन्धैः फलैः शुभैः ॥२९॥
काञ्चनीं च ततः कृत्वा तिलपाव्रोपरि स्थिताम् । प्रतिमां धर्मराजस्य गुरवे विनिवेदयेत् ॥३०॥
वस्त्रकाञ्चनरत्नौघैर्मक्ष्यैः सघृतपायसैः । पूजयेदब्राह्मणांस्तद्वद्वित्तशाठन्यं विवर्जयेत ॥३१॥
भुक्त्वा च गुरुणा येयमुच्चार्या मन्व्रसन्ततिः । दीर्घायुरस्तुबालोऽयं यावद्वर्षशतं सुखी ॥३२॥
यत्किञ्चिदस्य दुरितं तत्क्षिप्तं वडवामुखे । ब्रह्मा रुद्रो विष्णुः स्कन्दो वायुः शक्तो हुताशनः ॥३३॥
रक्षन्तु सर्वे दुष्टेभ्यो वरदा यान्तु सर्वदा । एवमादीनि चान्यानि वदतः पूजयेद्गुरुन् ॥३४॥
शक्तितः कपिलां दत्त्वा प्रणिपत्य विसर्जयेत् । चरुं च पुव्रसहिता प्रणम्य रविशंकरौ ॥३५॥
हुतशेषं तदानीयादादित्याय नमोऽस्तु ते । इदमेवाद्भुतं योगमद्भतेषु च शस्यते ॥३६॥
कर्तुर्जन्मनि सुखदं देवान्त्संपूजयेत्तदा । शान्त्यर्थं शुक्लसप्तभ्यामेतत्कुर्वन्न सीदति ॥३७॥
पुण्यं पविव्रमायुष्यं सप्तमीस्त्रपनं रविः । कथयित्वा नरश्रेष्ठ तव्रैवान्तरधीयत ॥३८॥
स चानेन विधानेन कार्तवीर्योऽर्जुनो नृप । संवत्सराणामयुतं शशास पृथिवीमिमाम् । आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुताशानात् ॥३९॥
शंकराज्ज्ञानमिच्छेनु गतिमिच्छेज्जनार्दनात् ॥४०॥
एतन्महापातकनाशनं स्यादप्यक्षयं वेदविदः पठन्ति । शृणोति यश्वैनमनन्यचेतास्तस्यापि सिद्धिं मुनयो वदन्ति ॥४१॥ [ २०८५ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे स्त्रपनसप्तमीव्रतवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥५२॥