श्रीकृष्ण उवाच ॥
रथयात्राविधानं ते कथयामि युधिष्ठिर । स्थिरो भूत्वा निबोधेदं त्वं हिमूर्तविदांवरः ॥१॥
चैत्रे त्रिनेत्रसंभूतमलयाख्यमहागिरौ । प्रवहत्पवनध्वानप्रेर्खोलितलताचये ॥२॥
एतस्मिन्नेव काले तु भ्रममाणॊ यदृच्छया । नारदः शारदाकांताच्छिवलोके समाययौ ॥३॥
दृष्टवापूर्व शिवं शांतं सुरेशैः सर्वतो वृतम् । प्रणम्योपाविशद्विप्रः पुरतः केशवेशयोः ॥४॥
तमुपासीनमालक्ष्य भगवान्भगनेत्रहा । पप्रच्छादितमनाः कुतश्वागम्यते पुनः ॥५॥
श्रीनारदउवाच ॥
शिव कमं च तं विद्धि दग्धं मा विबुद्धोत्तम । वसंतो नाम कोऽप्येष कामस्य दयितः सखा ॥६॥
मलयानिलयुक्तेन तेन विश्वं वशीकृतम् । सहकारकरीन्द्रस्थं कृत्वां कोकिलडिंडिमम् ॥७॥
घोषयामास विजयं मन्मथस्य पुरे पुरे शशांकशेखरः कोऽयं कोयं शंखगदाधरः ॥८॥
कायं च डिम्बो वा ब्रह्मा कामस्त्रिजगतां प्रभुः । प्रायः क्रीडारतिर्लोका वसंतवचनात्पुनः ॥९॥
ऊर्ध्वबाहुस्तु नर्नर्ति तालदत्तपदक्रमः । व्यवसायं न गच्छंति ये संहृत्य वनांतरम् ॥१०॥
गायंतश्व परीहृष्टास्ते चाप्यायांति यांति च । गोप्यसीमांतरगताः क्षेत्रस्थानस्यरक्षिणः ॥११॥
गायंति तृत्यंति हसंति स्मरतारकाः । करस्य ताडनेऽत्यर्थ मुरजोधुर्धुरायते ॥१२॥
विटं पश्यंति कुलटाः प्रारब्धोचितपण्डिताः । सुमनांसि सुसंगीतनृत्यवाद्यसुवादितम् ॥१३॥
एवमेतत्रिलोकेऽस्मिन्निति व्यवसितो जनः । ललल्लम्वस्तनीं दृष्ठवा जरायोषापि नृत्यति ॥१४॥
वसंतस्य प्रभावोऽयं कोऽप्यपूर्वो विजृंभते । सरांस्यद्भुतपद्मानि प्रफुल्लाः पुष्पवाटिकाः ॥१५॥
वृक्षाः पक्षिशताकीर्णा सुरागंघमुखा नरा । विकंपवसना बालाः पवनस्त्रिगुणात्मकः ॥१६॥
सत्यं जगत्रये नास्ति वसंतेन समो महान् । अवजल्पमुखाबाला वृद्धास्तु विकलेंद्रियः ॥१७॥
उभावपि प्रतप्येते पश्येदं कामचेष्टितम् । पक्षिणां पक्षनिक्षेपैर्नद्यस्तुंगतरंगकैः ॥१८॥
पाद्पाः पल्लवशतैनृत्यते च प्रहर्षिणः । एतच्छ्रुत्वा तु वचनं नारदस्येन्दुशेखरः ॥१९॥
कौतुकाकुलितः शीघ्रमारुरोह रथं स्वकम् । रथेन काञ्चनांगेन पतत्रिवरकेतनः ॥२०॥
प्रययौ पुण्डरीकाक्षः शंखचक्रगदाधरः । पारावतप्रतीकाशं चतुर्वेदमयं रथम् ॥२१॥
आस्थाय प्रययौ हृष्टौ ब्रह्मा ब्राह्मणसंस्तुतः । मुनि भिश्वाप्सरोभिश्व यक्षरक्षोमहोरगैः ॥२२॥
वृतो रथेन प्रययौ भास्करो वारितस्करः । शैलजोरुपताकेन रथेनादित्यवर्चासा ॥२३॥
कात्यायनी प्रच्लिता पञ्चत्क्रेण केतुना । लंबोदरः करशतगृही तकनकोत्पलः ॥२४॥
प्रयातः स्वरथारुढः कृतकर्ण कुलाकुलः । एवं देवः परिवृतो भगवान्गोवृषध्वजः ॥२५॥
रथारुढैरमूढामर्त्यलोकमवातरत् । यावत्पश्याते देवेशस्तावत्सर्व तदक्षरम् ॥२६॥
नारदेन यथैवोक्तस्तावत्सर्व तदक्षरम् । नारदेन यथैवोक्तं जगदानन्दनिर्भरम् ॥२७॥
देवैः सार्द्ध पशुपतिर्यावत्पश्यति विस्मितः । तावत्तस्यैव हि गणैः प्रारब्धमस मंजसम् ॥२८॥
गायांति केचित्सोत्कंठ लुंठंत्यन्ये प्रहर्षिताः । वादयंत्यपरे तुष्टा जहसुः केचिदुल्वणम् ॥२९॥
वादयंत्यन्यथावाद्यं गायंत्यन्योन्यथागणः । अन्योऽन्यथा प्रनृत्यंति चित्रं चैत्रस्य चेष्टितम् ॥३०॥
नीलोत्पलाभननैर्विलसत्प्रांततारकैः । क्रीडारतिभिरारब्धमालापैश्वसुरैरपि ॥३१॥
सुराणां क्षोभमालाक्ष्य भगवान्गोवृषध्वजः । चिन्तयामाससुमहान्कार्ययोगोह्युपस्थितः ॥३२॥
अनर्थमुत्थितं तद्वत्तद्विघाताययोजनाः । नयंतेयेऽतिमर्खत्वादापदोऽमिभवंति तान् ॥३३॥
वसंतः रवामिभक्तत्वान्मान्यपुष्पाकरं यदा । उन्मादाढ्यजनो रक्ष्यः कार्य कार्यद्वयं मम ॥३४॥
संचिंत्यैवं समानाय्य वसंतं प्राह शंकरः । तमानीतो मासमेकं स्थातव्यं भवता त्विह ॥३५॥
सितपक्षः सहायोऽयं सर्वभूतसखप्रदः । भवत्यतिमहानंदो विशेषेण दिवौकसाम् ॥३६॥
यो यथारथमारुढः समायातः समीशितुः । वर्षे वर्षे स तेनैव संस्थानेनागमिष्यति ॥३७॥
कारयिष्यन्ति ये मर्त्या रथयात्रामहोत्सवम् । ते दिव्यभोगेभोक्तारो भविष्यंति निरामयाः ॥३८॥
एवमाभाष्य मगवान्वसंत च ततः सुरैः । संस्तुतोऽथ नतश्वापि स्वस्थानमगमत्ततः ॥३९॥
युधिष्ठिर उवाच ॥ रथः किमात्मकः कार्यः कार्या यात्रा कथं भवेत् । आरोपपयेत्कथं देवान्रथं वदजगत्पते ॥४०॥
श्रीकृष्ण उवाच ॥
सुविचिन्नं चित्रतनुं श्रेष्ठकाष्ठमयं रथम् । सुदृढाक्षं सुचक्ररथकूवरम् ॥४१॥
अथवा वंशविहितं नेत्रपट्टपटावृतम् । तारकाशतचित्रांशं पुष्पमालाविभूषितम् ॥४२॥
सितगोयुगसंयुक्तं पञ्चबाणपताकिनम् । छत्रचामरशोभाढ्यंस्थापयेद्भवनाङ्गणे ॥४३॥
वैश्चदेवं ततः कुर्याद्ग्रहज्ञविधानतः । चतुश्वरणकैर्मत्रैर्विप्रशान्तिकपौष्टिकैः ॥४४॥
आरोपयेद्रथेदेवं मूलमंत्रेण मंत्रवित । वेदोक्तैरथ पौराणैर्गधधूपाधिवासिते ॥४५॥
रथे तिष्ठन्नयति वाजिनः पुरो यत्र यत्र कामयते सुसारथिः । अभीषूणां महिमानं पनायते मनः पश्वादनुयच्छन्ति रश्मयः ॥४६॥
शंखदुदुभिनिर्घोषेः काहलानां च निःस्वनैः । हस्तदीपैः प्रज्वालितैस्तालकोलाजलेन च ॥४७॥
दोषासुखेन रमितं प्रेषणीयपुरःसरम् । महतोत्सवभारेण भ्रामयेत्परितो रथम् ॥४८॥
तांबूलानि रथेदद्यात्पुष्पमालायुतानि च । रथं वोढुं प्रदद्यात्तु प्रेक्षकेभ्योऽप्यपरितम् ॥४९॥
यस्य यस्य गृहेऽभ्येति प्रेरितो रथिता रुथः । तस्य तस्य भवेत्पूज्यः पुष्पधूपाक्षतादिभिः ॥५०॥
इतरोऽपि भवेत्पूज्यः संप्राप्ते गृहिणां गृहे । किं पुनर्जगतां भर्ता सर्वलोकमहेश्वरः ॥५१॥
कदाचिदक्षभङ्गः स्याधद्वजभंगोऽथवा भवेत् । भज्येत वायुगमध्येनहनंत्रुटयतेयदि ॥५२॥
ब्राह्मणांस्तत्र संपूज्य होमः कार्यो विजानता । तिलैराज्येन पयसा येन संपद्यते सुखम ॥५३॥
प्रेरणीप्रेक्षणी यैश्व भ्रामयित्वारथोत्तमम् । स्थापयेन्नगरस्यांतस्तत्र कुर्यान्महोत्सवम् ॥५४॥
दोलाग्राहैश्वक्रडोलाभ्रडैमरकैस्तथा । विद्याधरीणां चरितामि तराभिः प्रकाश्यते ॥५५॥
एवं यः कुरुते पार्थ रथोत्सवं सुखप्रदम् । तथैव पूजयेत्पार्थ उपवासपरो नरः ॥५६॥
सर्वव्याधिविहीनश्व सुखीस्याच्छरदां शतम् । यः कारयित्वासौवर्ण रौप्यं वारथमुत्तमस् ॥५७॥
वर्णकैश्वित्रितं दिव्यं दारुजं वा सुशोभनम् । स्वहस्तरचितं यश्व भास्कराय निवेदयेत ॥५८॥
स मर्त्यलोके सुचिरात्सुखानि च समश्रुते । पूर्वोक्तविधिना भानुं भ्रामयित्वा रथेस्थितम् ॥५९॥
स्थापयेत्सर्वभागे तु गेयवाद्यपुरःसरम् । दक्षिणे तु दिशोभागे द्वितीयेऽह्री नयेद्रथम् ॥६०॥
तत्रापि जागरं कुर्याद्वाद्यगीतसुमंगलैः । अपरायां तृतीयेऽह्री स्थापयेद्रथमुत्तमम् ॥६१॥
प्रेक्षणीयविनोदेन तां रात्रिमतिवाहयेत् । स्थापयेदुत्तरस्यां तु चतुर्थे दिवसे रथम् ॥६२॥
महायात्रां प्रकुर्वीत तत्राप्यद्भुतचेष्टितम् । पंचमे दिवसे प्राप्ते नगरातस्थितं रविम् ॥६३॥
पूजयित्वा विधानेन षष्ठेऽह्री भवनं नयेत् । रथयात्राप्रसंगेन कथिता रहसप्तमी ॥६४॥
सर्वपापहरा पुण्यकिञ्चिदन्यनिबोधमे । गौरी पूज्या तृतीयायां चतुर्थ्या विघ्ननायकम् ॥६५॥
पञ्चम्यां पंकजकरां पूजयेद्वा सरस्वतीम् । षष्ठयां शक्तिधरं स्कन्दं सप्तम्यां तु दिवाकरम् ॥६६॥
अष्टम्यां स चतुर्दश्यां संपूज्य शशिशेखरम् । नवम्यां पूजयेचण्डी चामुण्डां मुण्डमालिनीम् ॥६७॥
दशम्यामृषयः शांताः व्यासपुरस्सराः । एकादश्यां चक्रपाणिं द्वादश्यां वा समर्चयेत् ॥६८॥
त्रयोदश्यां त्रिनेत्रोत्थवह्रिना शांतविग्रहम् । साधारणी तु सर्वेषां पौणमासी तिथिः स्मृता ॥६९॥
आंदोलके दमनके रथयात्रासु चैव हि । व्युत्क्रमेणापि कर्तय्वा तिथीनां कार्यगौरवात् ॥७०॥
यात्रा चेयं चित्तस्वास्थ्यकरी परा ॥७१॥
सम्यवसुधाधवलिते भवने सुराणामंतसुवस्त्रमणिमौक्तिकदानचित्रे । तांबूलकक्रौकवारविलासिनीभिर्यात्रा विधायु भवतीह स भारतेशः ॥७२॥ [ ५८६५ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंबादे दमनकांदोलकरथयात्रामहोत्सवर्णनं नामवतुस्त्रिंशदुत्तरशततमोऽध्यायः ॥१३४॥