श्रीकृष्ण उवाच ॥
तिथिदानमिदानीं ते कथयामि युधिष्ठिर । सर्वपापप्रशमनं सर्वविघ्नविनाशनम् ॥१॥
मानसं वाचिकं चापि कर्मजं यदघं भवेत् । सर्व प्रशममायाति दानेनानेन पाण्डव ॥२॥
श्रावणे कार्तिके चैत्रे वैशाखे फाल्गुने तथा। सितपक्षात्प्रभृत्येव दातव्यं पुण्यवर्द्धनम् ॥३॥
वित्तं श्रद्धासहायश्व पात्रप्राप्तिस्तथैव च । दानकालःसदैवेह कथितस्तवदर्शिभिः ॥४॥
तीर्थेदेवालये गोष्ठे गृहे वा नियतात्मवान् । यदृदातिनरश्रऽस्तनंन्याय कल्पते ॥५॥
प्रतिपत्सू द्विजान्पूजयन्पूजयित्वा प्रजापतिम् । सौवर्णमरविन्द च का यित्त्वाहु पत्रकम् ॥६॥
कृत्वा चौदुन्वरे पात्रे सुगन्धघृतपूरिते । पुष्पैर्धूपैः पूजयित्वा विप्राय प्रतिपादयेत् ॥७॥
अनेन विधिना दत्वा कमलंकमलालयम् । ईप्सिताल्लँभते कामान्निष्कामो ब्रह्मसात्म्यतान् ॥८॥
वह्रिं पूज्य द्विपीयायां भूर्भुवः स्वरिति क्रमात । तिलाज्ये नशतंहुत्वा दत्त्वा पूर्णाहुतिं ततः ॥९॥
वैश्वानरं तु सौवर्ण स्थापयेत्ताम्रभाजनं । गुडडाज्यपूरिते राजंस्योयपूर्णघतोपरि ॥१०॥
पूजयित्वा वस्त्रमाल्यैर्भक्ष्यभोज्यैरनेकधा । ततस्तं ब्राह्मणं दद्याद्वह्रीर्मे प्रीयतामिति ॥११॥
यावज्जीवकृतात्पापान्मुच्यते नात्र संशयः । मृतो वह्रिपुरं याति प्राहेदं नारदो मुनिः ॥१२॥
तृतीयायां महाराज राधां स्वर्णनयीं शुभाम् । स्थापवित्वा ताम्रपात्रे लवणोपरि विन्यसेत् ॥१३॥
जीरकं कटुकं चैव गुड पार्श्वेषु दापयेत् । रक्तवस्त्रयुगच्छन्नां कुंकुमेन विभूषिताम् ॥१४॥
पुष्पधूपैः सनैवेद्यैः पूजयित्वा द्विजातये । दत्वा यत्फलमाप्नोतिपार्थतके न वर्ण्यते ॥१५॥
प्रासादा यत्र सौवर्णाः नद्यः पायसकर्दमाः गंधर्वाप्सरसो यत्र तत्र ते यांति मानवाः ॥१६॥
स्वर्गादिहैत्य संसारे सुरुपः सुभगो भवत् । दाता भोक्ता बहुधनः पुत्रपौत्रसमन्वितः ॥१७॥
नारी वा तदुणैर्युक्ता भवतीह न संशयः । चतुर्थ्या वारणं हैमं पलादूद्धर्व सुशोभनम् ॥१८॥
कारयित्वांकुशयुतं तिलद्रोणोपरि न्यसेत् । वस्त्रैः पुष्पैः पूजयित्वा नैवेद्यं विनिवेद्य च ॥१९॥
ततस्तु ब्राह्मणे दद्याद्नणेशः प्रीयतामिति । कार्यारंभेषु सर्वेषु तस्यविघ्रांन जायते ॥२०॥
वारणाः सप्त जन्मानि भवंति मदविह्रलाः । वारणेन्द्रसमारुढस्त्रैलोक्यविजयी भवेत् ॥२१॥
पंचम्यां पन्नगं चैव स्वर्णैनैकेन कारयेत् । क्षीराज्यपात्रमध्यस्थं पूजयित्वां प्रदापयेत् ॥२२॥
द्विजं सपूज्य वासोभिः प्रणिपत्य क्षमापयेत् । इह लोके परे चैव दानभेतत्सुखावहम् ॥२३॥
नापोपद्रवविद्रावि सर्वदुष्टनिबर्हणम् । प्रायश्वित्तं तथा प्रोक्तं नागदष्टस्य शंभुना ॥२४॥
षष्ठ्यां शक्तिसमोपेतं कुमारं शिखिबाहनम् । कारयित्वा यथाशक्त्या हेममालाविभूषितम् ॥२५॥
तंडुलेनाथ शिखरे वासोभिः पूज्य शक्तितः । षष्ठ्यां स्कंदं यथाशक्तिः कृत्वा स्कंदं हिरण्यमयम् ॥२६॥
पूजयिता गंधपुष्पधूपैर्नैवेद्यतस्तथा । नमस्कृत्य ततो दद्याद्राह्यणाय कुटुंबिने ॥२७॥
इह भूतिं परां प्राप्य प्रेत्य स्वर्गे महीयते । शूद्रो ब्राह्मणतामेति ब्राह्मणो ब्रह्मलोकताम् ॥२८॥
सप्तम्यां भास्करं पूज्य ब्राह्मणानश्वमुत्तमम् । दद्यादलंकृतग्रीवं सपर्याणं सदक्षिणम् ॥२९॥
सूर्यलोकमवाप्नोति सूर्येण सह मोदते । गंधर्वास्तुष्ठिमायांति दत्तेऽश्वे समलंकृते ॥३०॥
अष्टम्यां वृषभं श्वेतमव्यंगांगं धुरंधरम् । सितवस्त्रयुगच्छन्नं घंटाभरणभूषितम् ॥३१॥
दद्यात्प्रणम्य विप्राय प्रीयतां वृषभध्वजः । प्रदक्षिणं ततः कृत्वा आद्धारांतमनुव्रजेत् ॥३२॥
दानेनानेन नृपते शिवलोको न दुर्लभः । वृषस्कंधे प्रतिष्ठंति भुवनानि चतुर्दश ॥३३॥
तस्माद्रृषभदानेन तानि दत्तानि भारत । नवम्यां कांचनं सिंहं कारयित्वा स्वशक्तिः ॥३४॥
मुक्ताफलाष्टकयुतं नीलवस्त्रावगुंठितम् । दद्याद्देवीमनुस्मृत्यदुष्टदैत्यनिबर्हणीम् ॥३५॥
द्विजातिप्रवरायेत्थ्म सर्वान्कान्समश्नुते । कांतारवनदुर्गेषु चौरव्यालाकुले पथि ॥२६॥
हिंसकास्तं न हिंसति दानस्यास्य प्रभावतः । मृतो देवीपुरं याति पूज्यमानः सुरासुरैः ॥३७॥
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः । दशम्यां नृपशार्दूल दशाशाः स्वर्णनिर्मिताः ॥३८॥
लवणे च गुडे क्षीरे निष्पावेषु तिलेषु च । गव्यत्रये तंदुलेषु माषाणामुपरि स्थिताः ॥३९॥
संपूज्य वस्त्रपुष्पद्यैर्द्विजाय प्रतिपादयेत् । अनेन विधिनायस्तु पुमान्स्त्री वाथवा पुनः ॥४०॥
निवार्तपयति राजेंद्र तस्य पुण्यफलं श्रृणु । इह लोके भूपतिः स्यात्प्रेत्य स्वर्गे महीयते ॥४१॥
सफलास्तस्य सर्वाशा याः काश्विन्मनसेच्छिताः । ततः स्वर्गदिहाभ्येत्य कुले महति जायते ॥४२॥
एकादश्यां गुरुत्मंतं कारयित्वा हिरण्मणम् । यथाशक्त्या ताम्रपात्रे घृतस्यपरि पूजितम् ॥४३॥
पंचाग्न्यभिरते विप्रे पुराणज्ञे विशेषतः । दत्त्वा किंबहुनोक्तेन विष्णुलोके महीयते ॥४४॥
गां वृषं महिषीं हेमसप्तधान्यान्यजाविकम् । वडवां गुडरसान्सर्वास्तथा बहुफलद्रुमान् ॥४५॥
पुष्पाणि च विचिबाणि गंधांश्वोच्चवचान्बहून । यथाशक्त्या मेलयित्वा वस्त्रैराच्छदयेन्नवैः ॥४६॥
द्वादश्यां द्वादशैतानि ब्राह्मणेभ्योनिवेदयेत् । एकस्य वा महाराज यत्फलं तन्निशामय ॥४७॥
इह कीर्ति परां प्राप्य भुक्त्वा भोगान्यथेप्सितान् । ततो विष्णुपुरं याति सेव्यमानोप्सरोगणैः ॥४८॥
कर्मक्षयादिहाभेत्य राजा भवति धार्मिकः । यज्ञयाजी दानपतिर्जीवेच शरदां शतम् ॥४९॥
स्त्रापयेद्ब्राह्मनांश्वात्र त्रयोदश्यां त्रयोदश्या । तानाच्छाद्य नवैर्वस्त्रैर्गधपुष्पैरथार्चयेत् ॥५०॥
भोजयीत सुमिष्टान्नं दक्षिणां विनिवेदयेत् । यथाशक्त्या हेमखंडान्धर्मात्मा प्रीयतामिति ॥५१॥
धर्मराजाय कालाय चित्रगुप्ताय दंडिने । मृत्यवे क्षयरुपाय अंतकाय याम च ॥५२॥
प्रेतनाथाय रौद्राय तथा वैवस्वताय च । महिषास्थाय देवाय नामानीह त्रयोदशे ॥५३॥
उच्चार्य श्रद्धया युक्तः प्रणिपत्य विसर्जयेत् । यः करोति महाराज पूजामेतां मनोरमाम् ॥५४॥
यमाय ससुखं मर्त्ये स्थित्वा व्याधिविवर्जितः । यममार्ग गतः पश्वद्दःखं नाप्नोत्यसौ पुमान् ॥५५॥
न पश्यति प्रेतमुखं पितृलोकं स गच्छति । पुण्यक्षयादिहाभ्येत्य ससुखानीरुजो भवेत् ॥५६॥
महिषं सुशुभं कुंभं चतुर्दश्यां पयोभृतम् । तं कर्षकेण संयुक्तं हेम्रः सद्वस्त्रसंयुतम् ॥५७॥
घंटाभराशोभाढ्यं वृषभेण समन्वितम् । यो दद्याच्छिभक्ताय ब्राह्मणाय कुटुंबिने ॥५८॥
वृषं दत्त्वा नरेश्रेष्ठ शिवलोके महीयते । तत्र स्थित्वा चिरं काल्म क्रमादेत्य महीतलम् ॥५९॥
आरोग्यधनसंयुक्ते कुले महति जायते । सर्व कामसमृद्धयर्थ यावज्जन्मशतत्रयम् ॥६०॥
पौर्णमास्यां वृषोत्सर्ग कारयित्वा विधानतः । चंद्र रजतनिष्पन्नं फलेनैकेन शोभनम् ॥६१॥
पूजयेद्वंधयथोदितम् । क्षीरोदार्णवसंभूत त्रैलोक्यांगणदीपक ॥६३॥
उमापतेः शिरोरत्नशिवं यच्छ नमो नमः । दानेनानेन नृपते भ्राजते चंद्रवद्दिवि ॥६४॥
अप्सरोभिः परिवृतो यावदाभूतसंपप्ल्वम् ॥६५॥
दान्यान्यमूनि विधिवत्प्रतिपत्क्रमेण यच्छंति ये द्विजवराय विशुद्धसत्वाः । ते ब्रह्मविष्णुभुवनेषु सुखं विहृत्यं यंत्यकेतां सहशिवेन संरायोमे ॥६६॥ [ ७७०५ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिथिदानवर्णनं नाम त्रिनवायुत्तशततमोऽध्यायः ॥१९३॥