श्रीकृष्ण उवाच ॥
अथातः सप्रवक्ष्यामि लवणाचलमुत्तमम् । यत्प्रदानान्नरो लोकप्राप्नोति शिवसंयुतम् ॥१॥
उत्तमः षोडशद्रोणः कर्तव्यो लवणाचलमुत्तमम् । मध्यमः स्यातदर्द्धेनतदर्धेनाधमः स्मृत ॥२॥
वित्तहीनो यथाशक्त्या द्रोणादूद्वर्ध तु कारयेत । चतुर्थाशेन विषयान्पर्वतान्कारयेत्पृथक ॥३॥
विधानं पूर्व वत्कुर्याद्वह्यादीनां च सर्वदा । तद्वद्धेमतरुन्सर्वाल्लाँकपालनिवेशनम् ॥४॥
शिरांसि कामदेवादींस्तद्वत्तत्र निवेशर्यत । कुर्याज्जागरमत्रापि दानमंत्रान्निबोध मे ॥५॥
सौभाग्यससंभूतो यतोऽयंलवणोरसः । दानात्मकत्वेन च मांपाहिपापान्नगोत्तम ॥६॥
यस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना । प्रियं च शिवयोर्नित्यं तस्माच्छांतिप्रदो भव ॥७॥
विष्णुदेहासमुद्धूतं यस्मादारोग्यवर्धनम् । तस्मात्पर्वतरुपेण पाहि संसारसागरात् ॥८॥
अनेन विधिना यस्तु दद्याल्लवणपर्वतम । उमालोके वसेत्कल्पं ततो याति परां गतिम् ॥९॥
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः । पुत्रपौत्रेः परिवृतो जीवेच्च शरदां शतम् ॥१०॥
कुर्वति येलवणपर्वतसंप्रदानं संप्राप्नुवंति दिवि ते सुमहद्विमानम् । तत्राप्सरोगणसुरासुरसेव्यमानास्तिष्ठति हृष्टमनसो दिवि वृद्धमन्तः ॥११॥ [ ७७८६ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे लवणपर्वतदानविधिवर्णनं नाम षण्णवत्युत्तरशततमोऽध्यायः ॥१९६॥