श्रीकृष्ण उवाच ॥
अतः परं प्रवक्ष्यामि राजन्काञ्चनधेनुकाम् । यां दत्वा सर्व पापेभ्यो मुच्चते नात्र संशयः ॥१॥
सुरापो ब्रह्महा गोघ्नो भीरुर्भग्नव्रतोऽपि वा । गुरुघाती स्वसृगामी परदाररतश्वयः ॥२॥
मुच्यते पातकैः सर्वैर्दत्वा काञ्चनधेनुकाम् । संशुद्धस्य सुवर्णकस्य पंचाशत्पलिकां शुभाम् ॥३॥
अर्द्धत वा प्रकुर्वीत शक्त्या वा नृपसत्तम । उखां पश्चिमभागे तु दृष्टकुक्षियोधराम् ॥४॥
विभक्ताङ्गी सुजधनां सुमनोहरकर्णिकाम् । सर्वरत्नविचित्राङ्गीं कारयेत्कपिलां शुभाम् ॥५॥
चतुर्थेन तु भागेन वत्सं तस्याः प्रकल्पयेत् । रौप्यघंटां च दत्वा तु कौशेयपरिवातिताम् ॥६॥
ताम्रशृंगीं तथा कुर्याद्वैडूर्यमयकंभलाम् । मुक्ताफलमथेनेत्रे वैद्रुमी रसना तथा ॥७॥
कृष्णाजिने गुडप्रस्थं तत्रस्थां कारयेच्छुभाम् । कुंभाष्टकसमोपेतां नानाफलसमन्विताम् ॥८॥
तथाष्टादशधान्यातपत्रोपानद्युगान्विताम् । भाजनं वसनं चैव ताम्रदोहनकं तथा ॥९॥
दीपकान्नादिलवणाशर्कराधान्यकान्विताम् । प्रदद्याद्राह्यणं पूज्यवस्त्रैराभरणैः शुभैः ॥१०॥
स्त्रातः प्रदक्षिणीकृत्य धेनुं सर्वाङ्गसंयुताम् । गुंडधेनूक्तमंत्रैश्व आवाह्य प्रतिपूज्य च ॥११॥
त्वं सर्वदेवगणमन्दिरभूषणासि विश्वेश्वरत्रिपथगोदधिपर्वतानाम् । श्रद्धातिशयेन शकलीकृतपातकौघः प्राप्नोतिनिर्वृतिमतीवपरांनमामि ॥१२॥
लोके यथोप्सिफलार्थविधायिनीं त्वामाताद्य को हि भयभाग्यवतीह मर्त्यः । संसारदुःखमनाय यतस्त्वकामास्त्वां कामधेनुमिति वेदविदो वदंति ॥१३॥
एवमामन्त्र्य तां धेनुं विप्राय प्रतिपादयेत् । सदक्षिणोपस्करां च प्रणिपत्यक्षमा पयेत् ॥१४॥
दानकाले तु येदेवास्तीर्थानि मनसस्तथा । शरीरे निवसंत्यस्यास्ताञ्छुष्व नराधिप ॥१५॥
नेत्रयोः सूर्यशशिनौ जिह्रायां तु सरस्वती । दंतेषु मरुतो देवाः कर्णयाश्वतथाश्विनौ ॥१६॥
शृंगाग्रगौ सदा चास्या देवौ रुद्रपितामहौ । गंधर्वाप्सरसश्वैव ककुद्देशं प्रतिष्ठिताः ॥ कुक्षौ समुद्राश्वत्वारो यांनौ त्रिपथगामिनी ॥१७॥
ऋषयो रोमकूपेषु अपाने वसुधा स्थिता । अन्त्रेषु नागा विज्ञेयाः पर्वताश्वास्थिषु स्थिताः ॥१८॥
धर्मकामार्थमोक्षास्तु पादेषु परिसंस्थिताः । हुंकारे च चतुर्वेदाः कंठे रुद्राः प्रतिष्ठिताः ॥१९॥
पृष्ठवंशस्थितो मेरुर्विष्णुः सर्वशरीरगः । एवं सर्वमयी देवी पावनी विश्वरुपिणी ॥२०॥
काञ्चनेन कृता धेनुः सर्वदेवमयी स्मृता । यो दद्या त्तादृशीं धेनुं सर्वदानप्रदो हि सः ॥२१॥
कर्मभूमौ हि मर्त्यानां दानमेतत्सुदुर्लभम् । तस्माद्देयमिदं शक्त्या सर्वकल्मषनाशनम् ॥२२॥
पावनं तारणं चैवकीर्तिदंशांतिदंतथा । वर्षकोटिशतं साग्रं स्वर्गलोके गतो नरः ॥२३॥
नारी वा पूज्यते देवैर्विमानवरमास्थिता । गंधर्वैर्ग्रीयमानस्तु पुष्पैर्मालाविभूषितैः ॥२४॥
सर्वाभरण संपन्नः सर्वद्वंद्वविवर्जितः । स्वर्गे स्थित्वा चिरं कलं ततो मर्त्येभिजायते ॥२५॥
आधिव्याधिवि निर्मुक्तो रुपवान्र्पियदर्शनः । एवं नरो वा नारी वा दत्वा दानमिदं भुवि ॥२६॥
सर्वान्कामानवाप्नोति जायमानः पुनः पुनः ॥२७॥
आमन्त्र्य साधुकुलशीलगुणान्विताय विप्राय यः कनकधेनु सिमां प्रदद्यात् । प्राप्नोतिः सिद्धमुनिकिन्नरदेवजुष्टं कन्याशतैः परिवृतं पदमिन्दुमौलेः ॥२८॥ [ ६९०९ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सुवर्णधेनुदानव्रतविधिवर्णनं नाम षट्पंचाशदुत्तशततमोऽध्यायः ॥१५६॥