युधिष्ठिर उवाच ।
सौभाग्यारोग्यफलदं विपक्षपकारकम् । भुक्तमुक्तिप्रदं किञ्चिदव्रतं ब्रूहि जनार्दन ॥१॥
श्रीकृष्ण उवाच ॥ यदुमायाः पुरा देव उवानासुरसुदनः । कथासु संप्रवृत्तासु ललितारधनं प्रति ॥२॥
तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम् । नराणामथ नारीणामाराधन मनुत्तमम् ॥३॥
शृणुष्वावहितो भूत्वा सर्वपापप्रणाशनम् । नभस्त्ये वाथ वैशाखे पुनर्मार्गशिरेऽथवा ॥४॥
शुक्लपक्षतृतीयायां स्त्रातः सद्नौस्सर्ष्पैः । गोरोचनसुगोमूव्रमुस्तागोशकृतं तथा ॥५॥
दधि चन्दनसंमिश्रं ललाटे तिलकं न्यसेत् । सौभाग्यारोग्यकृद्यत्स्यात्सदा च ललिताप्रियम् ॥६॥
प्रतिपक्षं नृतीया च बद्धवा वा पीतवाससी । धारयेदथवा रक्तपीतानि कुसुमानि च ॥७॥
विधवाप्यनुरक्तानि कुमारी शुक्लवाससी । देव्यर्चां पञ्चगव्येन ततः क्षीरेण केवलम् ॥८॥
स्त्रापयेन्मधुना तद्वत्याष्पगन्धोदकेन च । पूजयेछुक्लपुषेश्व फलैर्नानाविधैरपि ॥९॥
धान्यकाजाजिलवणगुडक्षीरघृतादिभिः । शुक्लाक्षतैस्तिलैरर्च्यां ललितां यः सदार्चयेत् ॥१०॥
आपादाद्यर्वनं कुर्याद्नौर्याः सम्यक्सनासतः । वरदायै नमः पादौ तथा गुल्फौ श्रियै नमः ॥११॥
अशोकायै नमो जङ्घ भवान्यै जानुनी तथा । ऊरू माङ्गल्यकारिण्य कामदेव्यै तथा कटिम् ॥१२॥
पद्मोद्भवापै जठरमुरः कामप्रिये नमः । करौ सीभाग्यवासिन्यै बाहू शोशमुखश्रियै ॥१३॥
मुखं कन्दर्पवासिन्यै पार्वत्यै तु स्मितं तथा । गौर्यै नमस्तथा नासां सुनव्रायै च लोचने ॥१४॥
तुष्टन्यै ललाटफलकं कात्यायनै शिरस्तथा । नमो गौर्यै नमह सृष्टन्यै नमः कान्त्यै नमः श्रियै ॥१५॥
रम्भायै ललितायै च वासुदेव्यै नमो नमः । एवं सपूज्य विधिवदग्रतः पद्ममालिखंत ॥१६॥
पव्रैर्द्वादशभिर्युकं कुङ्रकुमेन सकर्णिकम् । पूर्वेण बिन्यसद्रौरीमपर्णां च ततः परम् ॥१७॥
भवानीं दक्षिणे तद्वद्रुद्राणीं च ततः परम् । विन्यसेत्पाश्विम सौभ्यां ततो मदनवासिनीम् ॥१८॥
वायव्यां पाटलावासामुत्तरेण ततो ह्युमाम् । लक्मीं स्वाहां स्वाधां तुष्टिं मङ्गलां कुमुदां सतीम् ॥१९॥
रुद्राणीं मध्यतः स्थाप्य ललितां कर्णिकोपरि । कुसुमैरक्षतैः शुभ्रैर्न । स्कारेण विन्यसत् ॥२०॥
गीतमङ्गलघाषं च कारयित्वा सुवातिनीः । पूजयंद्रक्तवासोभी रक्तमाल्यानुलेपनैः ॥२१॥
सिन्दूरं स्त्रानचूर्णं च तासां शिरसि पातयेत् । सिन्दूरं कुङ्रकुमं स्त्रानभिष्टं तस्थाः सदा यतः ॥२२॥
नभस्ये पूजयेद्नौरीमुत्पलैरसितैस्तथा । बन्धुजीवैराश्वयुजे कार्तिके शतपव्रकैः ॥२३॥
कुन्दपुष्पैर्मार्गशिरे पौषे वै कुङ्रकुमन च । माघे तु पूजयेद्देव्रीं सिन्दुवारेण भक्तितः ॥२४॥
जात्या तु फाल्गुने पूज्या पार्वती पाण्डुनन्दन । चैव्रे च मल्लिकाशोकैर्वैशाखं मन्धपाटलैः ॥२५॥
ज्येष्ठे कमलमन्दारैराषाढे चम्पकाम्बुजः । कदम्बैरथ मालत्या श्रावण पूजयेदुमाम् ॥२६॥
गोमूव्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । बिल्वपव्रार्क पुष्णं च गवां शृङ्गोदकं तथा ॥२७॥
पञ्चगव्यं तथा बिल्वं प्राशयेत्क्रमशः सदा । एतद्भपदाद्यं तु प्राशन समुदाहृतम् ॥२८॥
प्रतिपक्षं द्वितीयायां मया प्रोक्तं वरानने । ब्राह्मणं ब्राह्मणीं चैव शिवं गौरीं प्रकल्प्य च ॥२९॥
भोजयित्व्रार्चयेद्भकत्या वस्त्रमाल्यानुलेपनैः । पुंतः पीताम्बरे दत्त्वा स्त्रियाः कौसुम्भवाससी ॥३०॥
निष्पाव्राजाजिलवणमिक्षुदण्ड गुणान्वितम् । स्त्रियं दद्यात्फलं पुंतः सुवर्णोत्पलसंय़ूतम् ॥३१॥
यथा न देवदेवेशस्त्वां परित्यज्य गच्छति । तथा मां संपरित्यज्य पतिर्नांन्यव्र गच्छतु ॥३२॥
कुमुदा विमलानन्ता भवानी वसुधा शिवा । ललिता कमला गौरी सती रम्भाथ पार्वती ॥३३॥
नभस्यादिषु मासेषु प्रीयताभित्युदीरयेत् । व्रतान्ते शयनं दद्यात्सुव्रर्णकमलन्वितम् ॥३४॥
मिथनानि चतुर्विंशत्तदर्धं सकृदवयेत् । अतवष्टावथ पुनश्वातुर्मास्ये समर्त्तयेत् ॥३५॥
तथोपदेष्टारमपि पूजयेद्यनना गुरुम । न पूज्यते गुरुर्यव्र सर्वास्तव्राफलाः क्रियाः ॥३६॥
उक्तानन्ततृतीयैषा सदानन्तफलप्रदा । सर्पपापहरा देवी सौभाग्यारोग्यवर्धिनी ॥३७॥
न चैनां वित्तशाठयेन कदाचिदपि लङ्रवयेत् । नरो वा यदि वा नारी वित्तशाठन्यात्पतत्यधः ॥३८॥
गर्मिणी सूतिका नक्तं कुमारी चाथ रोगयुक । यदा श्रद्धा तदान्येन क्रिपमाण तु कारयेत् ॥३९॥
इमामनन्तफलदां तृतीयां यः समाचरत् । कल्पकोटिशतं साग्रं शिवलोके स पूज्यते ॥४०॥
वितहीनोऽपि कुवांत वर्षव्रयमुपोषणैः । पुष्पपव्रविधानेन सोपि तत्फलमाप्रुपात् ॥४१॥
नारी वा कुस्त्र या तु कुमारी विववा तथा । सोपि तत्फमान्पोति गौर्यनुग्रहभाविता ॥४२॥
इति पठति शृणोति वा य इत्थं गिरितनया व्रतमिन्दुलोकसंस्थः । मतिमपि च ददाति सोऽपि दवैरभरवधूजनाकेन्नरैश्व पूज्यः ॥४३॥
इति अनन्ततृतीयाव्रतम् ॥ श्रीकृष्ण उवाच ॥ अन्यामपि प्रवक्ष्यामि तृतीयां पापनाशिकाम् । रसकल्याणिनी नाम पुरा कल्पविदो विदुः ॥४४॥
माघप्तासे तु संप्राप्य तृतीयां शुक्लपक्षिकाम् । प्रातर्गव्येन पयसा तिलैः स्त्रानं समाचरेत् ॥४५॥
स्त्रापयेन्मधुना देवीं तथैवेक्षुरसेन च । पनः पूजा प्रकर्तव्या जात्या वा कुङ्रकुमेन वा ॥४६॥
दक्षिणाङ्गनि संपूज्य ततो वामानि पूजयेत् । ललितायै नमः पादौ गल्फ तद्वदथार्च येत् ॥४७॥
जङ्रघे जानू तथा सत्यै तथोक्त च श्रियै नमः । मदनालसायै तु कटिं मदनायै तथोदरम् ॥४८॥
स्तनौ मदनवासिन्य कुमुदायै च कन्धरम् । भुजान्भुजाग्रं माधव्यै कमलायै ह्युपस्थितम् ॥४९॥
भ्रूर्ललाटं च रूद्राण्य़ै शंकरायै तथालकान् । मकुटं विश्ववासिन्यै पुनः कान्त्यै तथालकान् ॥५०॥
नेव्रं चक्रावधारिण्यै पुष्टन्यै च वदनं पुनः । उत्कण्ठिन्यै नमः कण्ठमनन्तायै तु कन्धराम ॥५१॥
रम्भायै वामबाहु च विशोकायै नमः परम् । ह्रदय मन्मथादित्यै पाटलायै नमो नमः ॥५२॥
एवं संपूज्य विधिवद् द्विजदाम्पत्यमर्चयेत् । भोजयित्व्रान्नदानेन मधूरेण विमत्सरः ॥५३॥
सलडडुकं वारिकुम्मं शुक्लाम्बरयुगं ततम् । दत्त्वा सुवर्णकलशं गन्धमाल्यैरथार्चयेत् ॥५४॥
प्रीयतामव्र कुमुदा गृह्लीयाल्लवनव्रतम् । अनेन विधिना देवीं मासि मासि समर्चयेत् ॥५५॥
लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः । तावराजं तथा चैव्रे वर्ज्यं च मधु माधवे ॥५६॥
पारकं ज्येष्ठमास तु आषाढे जीरकं तथा । श्रीवणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा ॥५७॥
घृतमश्वयुजे तद्वद्वजयेत्कार्तिके तक्रम् । धान्यक मार्गशीर्षे तुष्ये वर्ज्या तु शकरा ॥५८॥
व्रतान्ते धान्यपूर्णं वै पाव्रं देयं हि मासिकम् । दद्याद्विकलवेलायां भक्ष्यपाव्रेण संयुतान् ॥५९॥
तन्दुलाञ्छ्व्रेतवर्णांश्व संयावमधुपूरिकाः । घारिकाघृतपूरांश्व मण्डकान्क्षीरशाककम् ॥६०॥
दध्यन्नं षलूविधं चैव भिण्डयः शाकवर्तिकाः । माघादौ क्रमशो दद्यादेतानि करकोपरि ॥६१॥
कुमुदा माधवी गौरी रम्भा भद्रा जया शिवा । उभा शची सती तद्वन्मङ्रला रतिलालसा ॥६२॥
क्रमान्माघादिसर्बव प्रीयतामिति कीर्तयेत् । चर्वन्तं पञ्च्गव्यं च प्राशनं समुदाह्रतम् ॥६३॥
उपवासी भवेन्नित्यप्रशक्तो दक्षिणे करे । पुनमाघे तु संप्राप्य शर्कराकरकोपरि ॥६४॥
कृत्वा तु काञ्चनीं गोधां पञ्चरत्नसमन्विताम् । उमामङ्गुष्ठसाव्रां च सुधासूव्रकमण्डलुम् ॥६५॥
तद्वद्नोमिथुनं सर्वं सुवर्णास्यं सितं परम् । सवस्त्रभाजन दत्त्वा भवानी प्रीयतामिती ॥६६॥
अनेन विधिना यश्व रसकल्याणिनीव्रतम् । कुर्यात्स सर्वपापेभ्यस्तत्क्षणादेव मुच्यते ॥६७॥
भवार्बुदसहस्त्रं तु न दुःखी जायते क्कचित् । अग्निष्टोमसहखेण यत्फलं तदवाप्रुयात् ॥६८॥
नारी वा कुरूते या तु कुपारी वा युधिष्ठिर । विधवा वा वराकी वा सापि तत्फलभागिनी ॥ सौभाग्यारोग्यसंपन्ना गौरीलोक महीयत ॥६९॥
इति पठति य इत्थं यः शृगोति प्रसङ्गत्सकलकलुषमुक्तः पार्वतीलोकमोति । मतिमपि च नराणां यो ददाति प्रियार्थं विपुलमतिजनानां नायकः स्यादमोघम् ॥७०॥ [ १३१४ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणी श्रीकृष्णयुधिष्ठिरसंवाद रसकल्याणिनीव्रतवर्णनं नाम षङ्रविंशतितमोऽध्यायः ॥२६॥