संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १४१

उत्तर पर्व - अध्याय १४१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

कथयरव महाभाग सर्वज्ञो ह्यासि यादव । सर्वकामाप्तये कृत्यं कथं शांतिकपोष्टिकम् ‍ ॥१॥

श्रीकृष्ण उवाच ।

श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ‍ । दृष्ट्यायुः पुष्टिकामोवातथैवाभिचरन्पुनः ॥२॥

सर्वशास्त्राण्यनुक्रम्य संक्षिप्य ग्रन्थविस्तरम् ‍ । ग्रहशांति प्रवक्ष्यामि पुरणश्रुतिभाषिताम् ‍ ॥३॥

पुण्येऽह्निं विप्रकथिते कृत्वा ब्राह्मणवाचनम् ‍ । ग्रहान्यहाधिदेवांश्व स्थाप्य होमं समारभेत् ‍ ॥४॥

ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः । प्रथमोऽयुतहोमः स्याल्लक्षहोममस्ततः परम् ‍ ॥५॥

तृतीयः कोटिहोमस्तु सर्वकामफलप्रदः । अयुतेनाहुतीनां च नवग्रहमस्यः स्मृतः ॥६॥

तस्यतावद्विधिं वक्ष्ये पुराणश्रुतिभाषितम् ‍ । कर्तस्योत्तरपूर्वेण वितरितद्वयविस्तृतां ॥७॥

कुर्याद्विधानतां वेदिं वितत्स्षुच्छ्रयसंचुताम् ‍ । संस्थापनाय देवानां चतुरस्त्रामुदक्ल्लवाम् ‍ ॥८॥

अग्निप्रणयनं कृत्वा तस्यामावाहयेत्सुरान् ‍ । देवानां तन्न संस्थाप्या विंशतिर्तदशाधिका ॥९॥

सूर्यः सोमो महीपुत्रो बुधो जीवः सितार्कजः । राहुः केतुरिति प्रोक्ता ग्रहा लोकहितावहाः ॥१०॥

ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णजावुभौ । रजतादायसाज्जवग्रहाः कार्याः क्रमादमी ॥११॥

मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु । उत्तरेणगुरुंविद्यादबुधंपूर्वोत्तरेणातु ॥१२॥

पूर्वेण भार्गवं विद्यात्सोमं दक्षिणपूर्वके । पश्चिमोत्तरतः केतुं स्थापयेच्छुक्लतंदुलैः ॥१३॥

ग्रहाधिपान्ममहाराज तंदुलैः स्थापयेदथ । भास्करस्येश्वरं विद्यादुमां च शनिनस्तथा ॥१४॥

स्कन्दमङ्गारकस्यापि बुधस्व च तथाहरिम् ‍ । ब्रह्माणं च गुरोर्विद्याच्छुक्रस्यादि शचीपतिम् ‍ ॥१५॥

शनैश्वरस्यतुयमंराहोः कालंतथैवच । केतोस्तु चित्रगुप्तं तु सर्वेषामेव देवताः ॥१६॥

अग्निरापः क्षितिर्विष्णुरिन्द्रः सौपर्णदेवताः । प्रजापतिश्व सूर्यश्व ब्रह्मा प्रत्यधिदेवताः ॥१७॥

विनायकं तथा दुर्गा वायुमाकाशमेव च । सावित्रीं च तथा लक्ष्मीमुमां च सदभर्तृकाम् ‍ ॥१८॥

आवाहयेद्वन्याहृतिभिस्तथैवाश्विकुमारको । संस्मरेद्रक्तदित्यमंगारकसमन्वितम् ‍ ॥१८॥

सोमशुक्रौ यथाश्वतौ बुधजीवौ च पिङ्गलौ । मंदराहू तथा कृष्णो धूम्रं केतुगुणं विदुः ॥२०॥

ग्रहवर्णानि देयानि वासांसि कुसुमानि च । गंधाश्व बलयश्वैव धूपागुग्गुलपूर्वकाः ॥२१॥

गुडौदनं रवेर्दद्यात्सोमाय घृतपायसम् ‍ । अंगारकाय संयावं बुधाय क्षीरषष्टिकम् ‍ ॥२२॥

दध्यन्नं गुरवे दद्याच्छुक्राय तु घृतौदनम् ‍ । शनैश्वर यकृशरंमेषमांसंतुराहवे ॥२३॥

चित्रौदनं केतवे च सर्वान्भक्ष्यैरथार्चयेत् ‍ । प्रागुत्तरेण तस्माच्च दभ्यक्षतविभूषितम् ‍ ॥२४॥

चूतपल्लवसंपन्नं फलवस्त्रयुगान्वितम् ‍ । पञ्चरत्नसमायुक्तं पञ्चभंगयुतं तथा ॥२५॥

स्थापयेदव्रणं कुंभं वरुणं तत्र विन्यसेत् ‍ । मंगायाः सरितः सर्वाः समुद्राश्व सरांसि च ॥२६॥

गजाश्वरध्यावल्मीकात्संगमाद्‌ध्रदगोकुलात् ‍ । मृदमानीय राजेन्द्र सर्वौषधिजलान्विताम् ‍ ॥२७॥

स्नानार्थ विन्यासत्तेत्र यजमान्त्य धर्मवित् ‍ । सर्वे समुद्राः सरितः सरः प्रस्त्रवणानि च ॥२८॥

आयांतु यजमानस्य दुरितक्षयकारकाः । एवमावाहयित्वाताम्सर्वान्नृपतिसत्तम् ‍ ॥२९॥

होमं समारभेत्सार्पियर्वव्रीहीतिलादिना । अर्कः पलाशखदिरौ ह्यपामार्गोऽथ पिप्पलः ॥३०॥

उदुंबरशमीदुर्वा कुशाश्व समिधः क्रमात् ‍ । एकैकस्य चाष्टशतमष्टाविंशति वा पुनः ॥३१॥

होतव्या मधुसर्प्पिर्भ्या दध्ना वा पायसेन वा । प्रादेशमात्रा ऋजत्वा विशाखा विफलाः शुभाः ॥३२॥

कल्प्यंते समिधः प्राज्ञैः सर्वकर्मसु सर्वदा । देवानामपि सर्वेषामुपांशुपरमार्थवित ॥३३॥

स्वेनवंनैव मंत्रेण होतव्याः समिधः पृथक् ‍ । आकृष्णेन इमं देवा अग्निर्भर्द्धादिवःक्रमात् ‍ ॥३४॥

उद्‌बुध्यस्वेति बोध्यश्व यथासंख्यमुदाहृताः । बृहस्पतेअतियदरथैवाच्चात्षरिस्त्रुतः ॥३५॥

शन्नो देवीति च कयाकेतुंकृण्वन्नितेतिच । होतव्यं यद्वदाज्यं च चरुं भक्ष्याणि वा पुनः ॥३६॥

मंत्रैर्दशाहुतीर्दत्वा होमो व्याहृतिभिस्ततः । उदङ्मुखाः प्राङमुखाश्च कुर्युर्ब्राह्मणपुंगवाः ॥३७॥

मंत्रदंतस्तु कर्तव्याश्चरदः प्रतिदेवतम् ‍ । अपौराजेति रुद्रस्य बलिहोमं समारभेत् ‍ ॥३८॥

आपोहिष्ठेत्युमायास्तु स्येनेतिस्वामिनस्तथा । विष्णोरिदंविष्णुरितिस्वमिच्छेतिरवयंभुवः ॥३९॥

इन्द्रादिदेवतानां तु इन्द्राय जुहुयात्पुनः । किंवायमरयायं गौश्वेत्येवं होमः प्रकीर्तितः ॥४०॥

कालस्य महाजज्ञानमिति मंत्रः प्रशस्यते । चित्रगुप्तस्य वा जातपौरणिका विदुर्बुधाः ॥४१॥

अग्निं दूतं वृणीमहे इति वह्रेरुदाहृतः । इंद्रं यमं वरुणमित्ययं मंत्रः प्रकीर्तितः ॥४२॥

भूमेः पृथिव्यंतरिक्षमिति बेदेषु पठ्यते । सहस्त्रशीर्षा पुरुष इति विष्णोरुदाहृतः ॥४३॥

वरुणः पवनश्वैव धनाध्यक्षस्तथा शिवः । ब्रह्मणा सहितः शेशो दिक्पालाः पांतु ते सदा ॥४४॥

कीर्तिर्लक्ष्मीर्धृतिर्मेधाः पुष्टिःश्रद्धा क्रिया मतिः । बुद्धिर्लज्जा शांतिपुष्टि कांतिस्तुष्टिश्व मातरः ॥४५॥

एतास्त्वामभिषिंचंतु धर्मपत्न्यः समागताः । आदित्यश्वन्द्रमा भौमोबुधजीवसितर्कजाः ॥४६॥

ग्रहास्त्वामभिषिचंतु राहु केतुश्व तर्पिताः । देवदानवगन्धूर्वा यक्षराक्षसपन्नगाः ॥४७॥

ऋषयो मनवो गावो देवमातर एव च । देवपत्न्यो द्रुमा नागादैत्याश्वाप्सरसां गणाः ॥४८॥

अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश्व ये ॥४९॥

सरितः सागराः शैलास्तीर्थानि जलदा नदाः । एते त्वामभिषिंचंतु सर्वकामार्थसिद्धये ॥५०॥

ततः शुल्कांबरधरः शुक्लगन्धानुलेपनः । सर्वगन्धसमायुक्तः म्रातःश्रद्धासमन्वितः ॥५१॥

यजमानः सपत्नीकान्सिद्धिदांस्तान्समाहितान् ‍ । दक्षिणाभिः प्रयत्नेन पूजयेद्वतविस्मयः ॥५२॥

सूर्याय कपिलां धेनुं दद्याच्छंखं तथेन्दवे । रक्तं धुरंधरं दद्याद्भ्ॐआय ककुदधिकम् ‍ ॥५३॥

बुधाय जातरुपं च गुरवे पीतवासमी । श्वेताश्वं दैत्यगुरव कृष्णां गामर्कसूनवे ॥५४॥

आयसं सहवे दद्यात्केतवे च्छागमुत्तमम् ‍ । सुवर्णेन समा कार्या यजमानेन दक्षिणा ॥५५॥

सर्वेषामथवा दद्याद्दरुर्वा येन तुष्यति । सुमंत्रेण प्रदातव्याः सर्वाःसर्वार्थदक्षिणाः ॥५६॥

कपिले सर्वदेवानां पूजनीयासि रोहिणी । तीर्थदेवमयी यस्मादतः शांतिं प्रयच्छ मे ॥५७॥

पुण्यस्त्वं शङ्खः पुण्यानां मङ्गलानां च मङ्गल । विष्णुना विधृतो नित्यमतः शांतिं प्रयच्छ मे ॥५८॥

धर्मत्वं वृषरुपेण जगदानन्दकारकः । अष्टमूर्तेरधिष्ठानमतः शांति प्रयच्छ मे ॥५९॥

हिरण्यगर्भगर्भस्थं हेम बीजं विभावसोः । अनन्तपुण्यफलदमतः शांतिं प्रयच्छ मे ॥६०॥

पीतवस्त्रयुगं दद्याद्वसुदेवस्य वल्लभम् ‍ । प्रदानात्तस्य मे विष्णु रतः शातिं प्रपच्छतु ॥६१॥

कपिलस्त्वश्वरुपेण य मादमृतसंभवः । चन्द्रा केवाहना नित्यनः शांति प्रयच्छ मे ॥६२॥

यस्मात्वं पृथिवी सर्वा धेनो वै कृष्णसं ज्ञेता । सर्वपापहरां नित्यमतः शांतिं प्रयच्छ मे ॥६३॥

जस्मादायस कमाणि तवाधीनानि सर्वदा । लाङ्‌गुलान्यायुधादीनि तस्माच्छान्तिं प्रयेच्छ में ॥६४॥

यस्मात्वं छाग यज्ञानामंगत्वेन व्यवस्थितेः । योनिर्बिभावसोर्नित्यमतः शांन्तिं प्रयच्छ मे ॥६५॥

गवामङ्गेषु तिष्ठति भुवनानि चतुर्दश । यस्मात्तस्माच्छिवं मे स्यादिष लोके परत्र च ॥६६॥

यस्मादशून्यशषनं केशवस्य शिवस्य च । शय्या ममाप्यशून्मास्तु तथा जन्मनि जन्मनि ॥६७॥

यथा रत्नेषु सर्वेषु सर्वे देवा व्यवस्थिताः । तथा शांतिं प्रयच्छंतु रत्नदानेन मे सुराः ॥६८॥

यथाभूमिप्रदानत्य कलां नार्हंति शोडशीम् ‍ । दानान्यन्यानि मे शांति भूमिदानाद्भवत्यपि ॥६९॥

पवं संपूजयेद्भक्या वित्तशाठ्याविवर्जितः ॥७०॥

वस्त्रकाञ्चनरत्नौघैर्माल्यगंधानुलेपनैः । ग्रहस्वरुप तुलं कथ्यमानं निबोध मे ॥७१॥

भक्तिभान पन्नस्य कथ्यमानं विराजतो पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ॥७२॥

सप्ताश्वः सप्तरज्जुश्वद्विभुजः स्यात्सदारविः । श्वेतश्वेतांबरधरोदशाश्वः श्वेतभूषणः ॥७३॥

गदापाणिर्द्विबाहुश्व कर्तव्यो वरदः शशी रक्तमाल्यां बरधः कर्णिकारसमद्युतिः ॥७४॥

खड‌गचर्मगदापाणिर्विधेयो भूमिनंदनः पीतमाल्यांबरधरः । पीतगंधानुलेपनः ॥७५॥

कांचने च रथे दिव्ये शोभमानो बुधः सदा । देवदैत्यगुरुतद्वत्पीतश्वेतौचतुर्भुजौ ॥७६॥

दंडिनौ वरदौ कार्यौ साक्षसूत्रकमंडल् ‍ । इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ॥७७॥

वाणप्राणासनधरः कर्तन्योऽर्कसुतः सदा । शार्दूलवदनः खङ्गी वर्मशूली वरप्रदः ॥७८॥

लोलसिंहासनस्थश्व राहुरत्र प्रशस्यते । धूम्रा द्विबाहवः सर्वे गदिनो विकृतानना ॥७९॥

गृध्रासनरता नित्यं केतवः स्युर्वरप्रदाः । सर्वेकिरीटिनः कार्या ग्रहा लोकहितावहाः ॥८०॥

स्वाङ्गलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं तदा । ग्रहस्वरुपमेतत्ते व्याख्यातं पांहुनन्दन ॥८१॥

एतज्ज्ञात्वा प्रयत्नेन पूजा कार्याविपक्षणैः । अनेन विधिना यस्तु ग्रहपू समारभेत ॥८२॥

सर्वन्कामानवाप्नोतिप्रेत्य स्वर्गे महीयते । यस्तु पीडाकरो नित्यं माल्यवित्तस्य वा ग्रहः ॥८३॥

तं तु यत्नेन संपूज्य शेषानप्यर्चयेब्दुधः । ग्रहा गावो नरेद्राश्व ब्राह्मणाश्व विशेषतः ॥८४॥

पूजिता पूजयंत्येते निदहंत्यपमानिताः । तस्मान्न दक्षिणाहीनं कर्तव्यं भूतिमिच्छसा ॥८५॥

संपूर्णायां दक्षिणायां भगवान् ‍ खलु तुष्यति । सदैवायुतहोमोऽयं नवग्रहमखः स्मृतः ॥८६॥

विवाहोत्सवयज्ञेषु प्रतिष्ठाषु कर्मसु निर्विघ्नार्थ महाराज तथोद्वेगाद्भुतेष्टच ॥८७॥

कथितोऽयुतहोमोऽयं लक्षहोममतः श्रृणु । सर्वकामाप्तये यस्माल्लक्षहोमं विदुर्बुधाः ॥८८॥

पितृणां वल्लभो यस्माक्तिमुक्तिफलप्रदः । ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् ‍ ॥८९॥

गृहस्योत्तरपूर्वेण मण्डपं कारयेद्‌बुधः । रुद्रायतनभूमौ वा श्वतुस्त्रमुदङ्‌मुखम् ‍ ॥९०॥

दशहस्तमधाष्टी वा हस्तान्कु यद्विधानतः । प्रागुदवप्रवणां भूमिं कारयेद्यत्नतो नरः ॥९१॥

प्रागुत्तरं समासाद्य प्रदेशं मंडपस्य तु । शोभनं कारयेत्कुंडं यथावल्लक्षणान्वितम् ‍ ॥९२॥

माणहीनं चाप्रशस्तमनेकभयदं भवेत् ‍ । यस्मात्तस्मात्सुसंपूर्ण शांतिकंड विधीयते ॥९३॥

अस्माद्दशगुणः । प्रोक्तो लक्षहोमः । स्वयंभुवा । आहुतिभिः प्रयत्नेन द क्षणाभस्तिथैव चः ॥९४॥

द्विहस्तविस्तुतं तद्वच्चतुर्हस्तायतं पुनः । लक्षहोमे भवेत्कुंडं योनिवक्रं विमेखलन् ‍ ॥९५॥

संश्यापनत्य देवानां विप्रत्रयसमावृतम् ‍ । द्विरंगुलोच्छ्रितो विप्रः प्रथमः समुदान्नुतः ॥९६॥

अंगुलोच्छ्रयसंयुक्तं वप्रद्वयमथोपरि । व्द्यंगुलस्तत्र विस्तारः सर्वेषां कथ्यते बुधैः ॥९७॥

दशांगुलोच्छ्रितामित्तिः स्थंडिलस्य तथोपरि । तस्मिन्नावाहयेद्देवा पूर्ववत्पुष्पतंडुलैः ॥९८॥

आदित्याभिमुखाः सर्वेस्थाप्याः प्रत्यधिदेवताः । स्थापनीया मुनिश्रेष्ठ नांतरेण पराड्‌मुखाः ॥९९॥

गुरुत्मानधिकत्तत्र संपूज्य श्रियमिच्छता । समपीनशरीरस्तु वाहनं परमेष्ठितः ॥१००॥

विषपापहरो नित्यमतः शांतिं प्रयच्छ मे । पूर्ववत्कुंभमामेत्र्य तद्वद्धामं समाचरेत् ‍ ॥१०१॥

सहस्त्राणं शतं हुत्वा समिसंस्यादिक पुनः । औदुंबरीमथाद्रीं च वककोटवर्जिताम् ‍ ॥१०२॥

बाहुमात्रां स्त्रुचं कृत्वा ततः स्तंभद्वयोपरि । घृतधारां तथा सम्यगग्नेरुपरि पातयेत् ‍ ॥१०३॥

पाठयेत्सूक्तमाग्नेयं वैष्णवं रौद्रमदैंवम् ‍ । महावैश्वानरं साम ज्येष्ठ साम च पाठयेत् ‍ ॥१०४॥

स्त्रानं तु यजमानस्य पूर्ववन्मवाचनम् ‍ । दातव्या यजमानेन पूर्वद्दक्षिणा पृथक् ‍ ॥१०५॥

कामक्रोधविहीनेन शांतचेतसः । नवग्रहखेविप्राश्वत्वारोवेदवेदिनः ॥१०६॥

अथवा ऋत्विजौ शांतै द्वावैवस्त्वतिक्रोविदौ । कार्यावयुतहोमं तु न प्रसण्येत विस्तरे ॥१०७॥

तद्वच्च दशचाष्टौ वा लक्षहोमेऽपि ऋत्विजः । कर्तव्याः शक्तितस्तद्वच्चत्वारो वा विमसा ॥१०८॥

नवग्रहमुखे सर्व लक्षहोमे दशोत्तरमे । दद्याच्च पांडवश्रेष्ठ भूषणान्यपि शक्तितः ॥१०९॥

शयनानिच वस्त्राणि हैमानि कटक वि च । कर्णागुलीपवित्राणि भक्तिमान्प्रतिपादयेत् ‍ ॥११०॥

न कुर्यादक्षिणा होनं वित्तशाट्येन मानवः । अददल्लोभमोहाभ्यांकुलक्षयमवाप्नुयात् ‍ ॥१११॥

अन्नदानं यथा शक्त्या दातव्यं भूतिमिच्छता । अन्नहीन व्रतं यस्मादुर्भिक्षफलदं भवेत् ‍ ॥११२॥

अन्नहीनोहनेद्राष्ट्रं मंत्र हीनस्तु ऋत्विजः । अदक्षिणो यजमानं नास्ति यज्ञसमोरिपुः ॥११३॥

न चाप्यल्पधनः कुर्याल्लक्षहोमं नरः क्कचित् ‍ । तस्मात्पीडाकरो । नित्यं य एव भवति ग्रहः ॥११४॥

तमेव पूजयेद्भक्त्या द्वौ वाक्रवा यथाविधि । एकमप्यर्चयेद्भवत्या ब्राह्मणं वेदपारगम् ‍ ॥११५॥

दक्षिणाभिः प्रयत्नेन बहून्बा बहुइवित्तवान् ‍ । लक्षहोमस्तु कर्तव्यो यदि वित्तं गृहे बहु ॥११६॥

यतः सर्वानवाप्नोति कुर्वन्कामात्विधानतः । पूज्यते शिवलोके च वस्वादित्यमरुद्भणैः ॥११७॥

यावत्कल्पशतान्यष्टावथ मोक्षमवाप्नुयात् ‍ । सकामो यस्त्विमं कुर्याल्लक्षहोमं यथाविधि ॥११८॥

स तं काममवाप्नोति पदं चानंत्यमश्रुते । पुत्रार्थी लभते पुत्र थनार्थी लभते धनम् ‍ ॥११९॥

भार्यार्थी शोभनां भार्या कुमारी च शुभं पतिम् ‍ । भ्रष्टराज्यस्तथा राज्यं श्रीकामः श्रिंयमाप्नुयात् ‍ ॥१२०॥

यं यं प्रार्थयते कामं तं तमाप्नोति पुष्कलम् ‍ । निष्कामः कुरुते यस्तु परं ब्रह्म स गच्छति ॥१२१॥

शातिं नवग्रहमयीं दुरितोपाशांतिं राजन्करोति बहुभिर्विवदि‌तूजेन्द्रैः क्षेमं सुभिक्षमतुलं कुलवृद्धिसंपत्तत्रास्ति यत्र कुरुते बत लक्षहो मम् ‍ ॥१२२॥ [ ६३२३ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिसंवादे नवग्रहलक्षहोम विधिवर्णनंनामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP