श्रीकृष्ण उवाच ॥
अथ पापापहं वक्ष्ये बृहद्व्रतमनुत्तमम । सुरासुरमुनीनां च दुर्लभं विधिना शृणु ॥१॥
पर्वण्याश्वयुजस्यान्ते पायसं घृतसंयुतम् । नक्तं भुञ्जीत शुद्धात्मा ओदनं वैक्षवान्वितम् ॥२॥
आचम्याथ शुचिर्भुत्वा बिल्वजं दन्तधावनम् । भक्षयित्वा महादेवं प्रणम्येदमुदीरयेत् ॥३॥
अहंदेव व्रतमिदं कर्तुमिच्छामि शाशतम् । तवाज्ञया महादेव यथा बिर्वहते कुरु ॥४॥
इत्येवं नियमं कृत्वा यावद्वर्षाणि षोडश । तिथयः प्रतिपत्पूर्वा भजिष्यामीत्यनुक्रमात् ॥५॥
ततो मार्गशिरे मासि प्रतिपद्यप्रेऽहनि । पृष्ट्वा गुरुं चोपवासं महादेव स्मरन्मुहुः ॥६॥
स्त्रात्वा देवं समभ्यर्च्य राव्रौ प्रज्वाल्य दीपकान् । यमुनां च महादेव नत्वा पश्वान्निमन्त्रयेत् ॥७॥
महादेवरतान्विप्रान्सपत्नीकान्यतव्रतान् । षोडशाष्टौ तदर्धं वा एकं वा शक्त्यपेक्षया ॥८॥
आमन्व्र्य स्वगृह गत्वा महादेवं स्मरन्क्षितौ । शुचिवस्त्रास्ततानां तु निराहारो निशि स्वपेत् ॥९॥
भास्करोदयमासाद्य स्त्रात्वा चादाय दीपकान् । नैवद्यं स्त्रपनं पुष्पं धूपं गच्छेच्छिवालये ॥१०॥
अभ्यङ्गयित्वा देवेशं कषायैश्व विरूक्षयेत् । स्त्रापयेत्पञ्चगव्यने पयसा तदनन्तरम् ॥११॥
घृतेन मधुना दध्ना रसेन पयसा पुनः । तिलाम्बुना ततः स्त्राप्य स्त्रापयेदुष्णवारिणा ॥१२॥
लेपयेत्सुघनं पश्वात्कर्षूरागरूचन्दनैः । पुष्पैः संपूज्य दातव्यं हैमं शिरसि पङ्कजम ॥१३॥
वस्त्रयुग्मं पताकां च पञ्चवर्णं वितानकम् । धूपं दीपं च घण्टाञ्च दद्योद्दव्रस्य शक्तितः ॥१४॥
पश्वान्निवेद्य नैवेद्यं स्तुत्वा स्वभवनं व्रजेत् । सुसमिद्धं ततः कृत्वा पूजयेज्जातवेदसम् ॥१५॥
व्रतिनश्व तथा चार्यं भोजयेन्मिथुनानि च । हेमवस्त्रादिदानेन यथाशक्त्या क्षमापयेत् ॥१६॥
एवं व्रिसर्ज्य तान्यर्वान्सार्द्धं बन्धुजनैः स्वयम् । प्राशयित्वा पञ्चगव्यं ह्रष्टो भुञ्जीत वाग्यतः ॥१७॥
एवमेव विधिं क्रुत्वा प्रारेभेन्निर्द्धनो धजी । वित्तसामर्थ्यतश्वैव प्रतिमासं च कृत्स्त्रशः ॥१८॥
वित्तहीनो यथा कश्विच्छ्रद्धया च पुनःपुनः । पुष्पार्चनविधानेन सर्वमेतत्समाचरेत् ॥१९॥
प्रतिमासमुपोष्यैवं प्रतिपत्कार्तिकावधौ । पारयेत्तं हुतं पार्थ प्रारम्भविधिना स्फुटम् ॥२०॥
द्वितीये वै पञ्चदश्यां कृत्वा नक्तं नराधिप । प्रतिपत्सद्वितीया चेत्तस्यामुपवसेत्सुधीः ॥२१॥
द्वितीयापवसेच्छुक्ला ततः प्रभृति वत्सरम् । प्रारम्भविधिना चैव द्वितीयामपि पारयेत् ॥२२॥
उपवासद्वयं कृत्वा तृतीपां प्रारभंत्ततः । अनेन क्रमयोगेन यावद्वर्षं समाप्यते ॥२३॥
कृवैवं षोडशे वर्षे पूर्णमास्यां समुद्यतः । पूर्ववद्देवमभ्यर्च्य कृशानुं वाभितर्प्य च ॥२४॥
हेमशृङ्गीं रौप्यखुगं सघण्टां कांस्यदोहनाम् । महादेवाय गां दद्याद्दीक्षिताय द्विजाय वै ॥२५॥
शिवभक्तिरतान्विप्रान्व्रिशुद्धांश्वैव षांडश । वखाभरणदामैश्व शक्त्या संपूजयेच्छया ॥२७॥
बृहत्तपोव्रतं चैव व्रह्यन्घाद्यघशोषणम् । भूर्भवादिषु लोकेषु भूरिभोगप्रदं नृणाम् ॥२८॥
चतुर्णामपि वर्णानां स्वर्गसोपानवस्थितम् । न कृर्यात्खण्डनं प्राप्य स मुटो नष्टचेतनः ॥२९॥
धन्यमायुःप्रद पुण्यं रूपसौभाग्यवर्द्वनम् । स्त्रीपुंसयोश्व निर्दिष्टं व्रतमेतत्पुरातनम् ॥३०॥
विधवयापि कर्तव्यं भूयोऽवैधव्यहेतवे । सधवयापि कर्तव्यमवियोगाय सद्ब्रतम् ॥३१॥
उपोष्य प्रतिमासं तु भुञ्जीत ब्राह्मणैः सह । एकद्विव्रिचतुर्मिर्वा स्वशवत्या पाण्डुनन्दन ॥३२॥
अन्से चान्ते तु वर्षाणां प्रारम्भविधिनाचरेत् । पुण्यसम्भारमन्विच्छन्गमयित्वा शिवालयम् ॥३३॥
व्रतविन्घे महाराज जाते दैवात्कथञ्चन । तावत्यस्तिथयश्वान्याः मुपोष्याः समाप्तये ॥३४॥
अथ शीघ्रतरं कश्विद्व्रतं कर्तुं समुद्यतः । विधिनानेन गजेन्द्र तेन ग्राह्यं निथिद्वयम् ॥३५॥
अन्ते चान्ते च वर्षाणां प्रारम्भविधिनाचरेत् । अथारब्धे व्रते कश्विदसमाप्ते स्त्रियेत चेत् ॥३६॥
सोऽपि तत्फलमाप्रोति सत्यारम्भप्रभावतः । वाचकाः श्रावकाश्वैव व्रतस्यास्य युधिष्ठिर ॥३७॥
भवन्ति पुव्रसंश्लिष्टाः शिवध्यानानुभावतः ॥३८॥
पुण्यं बृहत्तय इदं व्रतमादराद्ये कुर्वन्ति षोंडशसमा निरताः स्वधर्मे । ते भानुमण्डलमभेद्यमचिन्त्यमाद्यं भित्त्वा प्रयान्ति शशिशिखरपादमूलम् ॥३९॥ [ ७७४ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे बृहत्तपोव्रतवर्णनं नाम द्वादशोऽघ्यायः ॥१२॥