युधिष्ठिर उवाच ॥
गोसहस्त्रविधानं च कथयस्व जर्नादन । कस्मिन्कालं प्रदातव्यं कथंदेवं च तद्भवेत ॥१॥
श्रीकृष्ण उवाच ॥
गावः पवित्रा लोक नां गाव एव परायणम् । ब्रह्मणा सुजता लोकान्वृत्तिहेतोः प्रजेश्वर ॥२॥
गावः प्रथमतः सुष्टास्त्रैलोक्यहितकाम्यया । यासां मूत्रपुरीषेण देवतायनान्यपि ॥३॥
शुचीनि समजायंत किं भूतमधिकं ततः । मूलं यज्ञरय काम्यरय सर्क देवमयाः शुभाः ॥४॥
गोमये वसते लक्ष्मीः पयाप्तं तन्निदर्शनम् । ब्राह्मणश्वैव गावश्व कुलमेकं द्विधा कृतम् ॥५॥
एकत्र मंत्रस्तिष्ठन्ति ह्यविरन्यत्र तिष्ठति । यासां पुत्रैर्धृता लोकाधारितः । सर्वदेवताः ॥६॥
तासां दानविधानं च श्रृणु तत्पृथिवीपते । एकाऽपि गौर्गृणांपेता कृत्स्नं तारयते कुलम् ॥७॥
सुरुपा शीलसंपन्न युवती मुपयस्विनी । मुवत्सा गुदुहा चैव पापरोगविवर्जिता ॥८॥
विधिवत्तादृशा दत्ता कृस्नं तारयते कुलम् । किंपुनर्दश यो दद्याच्छतं वा विधिपूर्वकम् ॥९॥
सहस्त्रम् तु पुनर्दद्यातस्य वै किमिहोच्यते । गोसहस्त्रं पुरा दत्तं नहुषेण महीभृता ॥१०॥
स गतो ब्रह्मणः स्थानं ययातिश्व महामतिः । गंगातीरे महद्दत्तमदित्या पुत्रकाम्यया ॥११॥
लेभे पुत्रं त्रिलोकेशं नारायणमल्मणम् । श्रूयंते पितृभिर्गीता गाथास्ताः शृणु भूपते ॥१२॥
यदि काश्वित्कुर्लऽस्माकं गोसहस्त्रं प्रदापयेत् । यास्यामः परमां सिद्धिं कारितां पुण्यकर्मणा ॥१३॥
दुहिता वा कुले काचिद्धोसहस्त्रप्रदायिनी । सोपानः सुगतिर्दत्ता भविष्यति न संशयः ॥१४॥
अतः परं प्रवक्ष्यामि यज्ञं वै सर्वकामिक् । गोसहस्त्रं तदा दद्याच्छास्त्रोविधिवन्नरः ॥१५॥
गीर्थे गोष्ठे गृहे वापि मंडपं कारयेच्छुभम् । दश द्वादश हस्तं वा चतुर्वक्रं सतोरणम् ॥१६॥
तन्मध्ये कारयेद्वेदिं चतुहस्तामनूपमाम् । हस्तमात्रप्रभाणेन हस्तेन समलंकृताम् ॥१७॥
पूर्वोत्तरेऽथदिग्भागे ग्रहवेदिं प्रकल्पयेत् । ग्रहयज्ञविधामेन ग्रहांस्तत्र क्रमद्यजेत् ॥१८॥
ब्रह्मा विष्णुश्व रुद्रश्व पूज्याः प्रथममेव हि । ऋत्विजा परिकर्तव्या षोडशाष्टौ च शोभनाः ॥१९॥
चतुरो वा महाराज उपाध्यायश्व पंचमः । सर्वाभरणसंपन्नाः कर्णवेष्टांगुली यकैः ॥२०॥
शोभिताश्छत्रसंपन्नास्ताम्रपात्रद्वयान्विताः । ग्रहयज्ञोक्त विधिना होमं हव्यं समाचरेत् ॥२१॥
वेद्याः पूर्वोत्तरे भागे शिवकुंडं नियोजयेत् । कुंभद्वयं च द्वारेषु पंचरत्नं सपल्लवम् ॥२२॥
कार्यकुरुकुलश्रेष्ठ ततो होमं समारभेत् । लोकपालबलिं दद्यात्तुपुरुषदानवत् ॥२३॥
भोसहस्त्राद्विनिष्कृष्य सवत्सं दशकं गवाम् । गोसहस्त्राद्वहिष्कृर्याद्वस्त्रमाल्यविभूषणम् ॥२४॥
अतः वेश्य दशकं वस्त्रैर्माल्येश्व पूजयेत् । सुवर्णघंटिकायुक्तं ताम्रदोहनकान्वितम् ॥२५॥
सुवर्णतिलकोपेतंखुरैरौप्यैरलंकृतैः । हेमरत्नमयैः शृंगैश्वामरैश्वोपशोभितम् ॥२६॥
मुनयः केचिदिच्छन्ति कांचनं नंदिकेश्वरम् । लवणद्रोणशिखरे भक्त्या तमपि कारयेत् ॥२७॥
तथा प्रत्यक्षऋषभे केवाचिद्दानमिष्यते । ग्रहान्सुरांश्व संपूज्यामाल्यवस्त्रफलाक्षतैः ॥२८॥
पताकाभिरलंकृत्य देवतायतनानि च । गोषतेऽपि दशांशेन सर्वमेतत्प्रकल्पयेत् ॥२९॥
यदि सर्वा न विधनो गावः सर्वगुणोत्तमाः । दशकं पूज्य यत्नेन इतराः परिकल्पयेत् ॥३०॥
पुण्यकालमथोवाद्यगीतमंगलनिस्वनैः । सर्वौषध्युदकस्नातः स्नपितोद्विजपुंगवैः ॥३१॥
इममुच्चारयेन्मन्त्रं गृहीतकुमुसुमांजलिः । जमो वो विश्वभू र्तेभ्यो विश्वमातृभ्य एव्म च ॥३२॥
लोकाधिवासिनीभ्यस्तु रोहिणीभ्यो नमो नमः । गवामंगेषु तिष्ठन्ति भ्रुवनान्येकविंशतिः ॥३३॥
ब्रह्मादयस्तथा देवा रोहिण्यः पांतु मातरः । गावो ममाग्रतः संतु गावो मे रांतु पृष्ठतः ॥३४॥
गावो मे सर्वतः संतु गवां मध्ये वसाम्यहम् । यस्मात्त्वं वृषरुपेण धर्मश्वैव सनातनः ॥३५॥
अष्टमूर्तिरधिष्ठानमतः पाहि सनातनः । इत्यामन्त्र्य ततो दद्याद्गुरवे नंदिकेश्वरम् ॥३६॥
सर्वोपकरणोपेतं गोयुतं च विशेषतः । गवां शथमथैकैकं तदर्थ चापि विंशतिः ॥३७॥
दश पञ्चशतं दद्याद्वहुभ्यस्तदनुज्ञया । नैका बहुभ्यो दातव्या दोपकरो भवेत् ॥३८॥
वह्रयस्वेकस्य दातव्याः श्रीमदारोग्यवृद्धये । पयोव्रतस्ततस्तिष्ठेदेकाहं गोसहस्त्रदः ॥३९॥
तथैव ब्रह्मचारी स्याद्य इच्छोद्विपुलां श्रियम् । न देया दुर्वला धेनुर्नाल्पक्षीरा न रोगिणी ॥४०॥
न जीर्णादुःस्वभावावा नापत्यगतचेतना । अनेन विधिना यस्तु गोसहस्त्रप्रदो भवेत् ॥४१॥
सर्वपापविनिमुक्तेः सिद्धचारणसेवितः । विमानेनार्कवर्णेन किंकिणीजालमालिना ॥४२॥
सर्वेषां लोकपालानां लोके संपूज्यते सुरैः । सप्तावरान्सप्तपरान्सप्तश्वैवपरावरान ॥४३॥
पुरुषानुद्धरेद्दत्त्वा गोसहस्त्रं विधानतः । स्वर्गलोकाच्च्युतो वाथ नारी वा सप्तरायणा ॥४४॥
सप्तजन्मानि राज्ञी स्यात्स्तूयमाना पुनः पुनः ॥४५॥
न त्वेवेदं दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्व । तरमादेताः सर्वभूषासमेताः पात्रे कालेक्षीरवन्यो विधानात् ॥४६॥
एकापि गौर्बहुगुणा गुणिने प्रदत्ता दातुः कुलं त्रिपुरुषं विधिवत्पुनाति । यः श्रद्धया वितरतीह गवां सहस्त्र शक्यं फलं न नृपतेऽस्य मयाभिधातुम् ॥४७॥ [ ६९८९ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गोसहस्त्रप्रदानविधिव्रतवर्णनं नामैकोनषष्टयुत्तरशततमोऽध्यायः ॥१५९॥