श्रीकृष्ण उवाच ॥
फाल्गुनेऽप्यसिते पक्षे तृतीयायामुपोषिता । प्रातः स्थित्वा ब्रह्मचर्येजटामुकुटशोभिताम् ॥१॥
गोधारथगतां देवीं रुद्रध्यानपरायणाम् । पूजयेद्नन्धकुसुमैर्दीपालक्तकचन्दनैः ॥२॥
केसरैर्मधुरैर्द्रव्यैः स्वर्णमाणिक्यपूजया । ॐ भुषिका देवभूषा च भूषिता ललिता उमा ॥३॥
तपोवनरता गौरी सौभाग्यं मे पयच्छतु । दौर्भाग्यं मे शमयतु सुप्रसन्नमनाः सदा ॥४॥
अवैधव्यं कुले जन्म ददात्वपरजन्मनि । अङ्ग अङ्ग ममोपाङ्गे पर्वे पर्वे स्थितामृतम् ॥५॥
सुखद्दष्टिस्पर्शरसं गौरी सौभाग्यं यच्छतु । एबमुच्चार्य मन्व्रांश्व नारी ज्ञानवती सती ॥६॥
पूजयेद्ब्राह्मणोक्तैस्तु मन्व्रैर्मुखसूवासिनी । जीरकैः कटुहुण्डैश्व लवणैर्गुडसर्पिषा ॥७॥
ह्रद्यरारद्रैं : फलैः स्वणैंर्मनोज्ञैः पुष्पबन्धनैः । कुसुमैः कुङ्कुमैर्गन्धैः कालेयागुरुचन्दनैः ॥८॥
सिन्दूरेणातिरक्तेन वस्त्रेर्नानाविधैः शुभैः। पवैरनेकदेशोत्थैः पूपकैस्तिलतण्डुलैः ॥९॥
आशोकैश्व विगुणकर्घुतपूर्णौस्तु मोदकैः। इत्येवमादिनैवेद्यै पूजयित्वा महाद्रुमम् ॥१०॥
प्रदक्षिणं ततः कृत्वा दत्त्वा विमाय दक्षिणाम् । एनत्कारोति यःक श्विद्याकाचिच्च व्रत शुभं ॥११॥
स सा प्राप्स्यति दुष्प्राप्यं वैलोक्ये श्रीधरं प्रति । एतढ्घ्रतं मयाख्यातं यास्यन्ति शाश्वतीः समाः ॥१२॥
व्याख्यातं कश्यपेनादौ रुक्मिणीं व्रतमुतमम् । याश्वरिण्यन्ति ताः सर्वा भविष्यन्ति निरामयाः ॥१३॥
अङ्गपत्यङ्रसुभगा लोकद्दष्टिमनोहाराः । स्थित्वा वषशतं चान्ते ततो रुद्र्पुरं शुभम् ॥१४॥
यास्यन्ति हंसयानस्थं किङ्किणीशब्दनादितम् । तव्रत्या रमयिष्यन्ति स्वभर्तृन्वत्सरान्बहून् ॥१५॥
दिव्यभोगभुजो हृष्टाः सिद्धन्यष्टकसमन्विताः ॥१६॥
अर्धं महार्घमणिकुङ्कुमकेसराढयं स्वग्गन्धमुग्धमुरधमुखरालिकुलोपगीतम् दत्त्वा फलाक्षवयुतं मधुपादपस्य गौरीब लोकमहिना भवतीह नारी ॥१७॥ [ ९४४ ]
इति श्रीभविष्ये महापुराण उत्तरे पर्वणि श्रीकृष्णयुधिष्ठिसंवादे मधूकनृतीयाव्रत्वर्णनं नाम षोडशोध्यायः ॥१६॥