श्रीकृष्ण उवाच ॥
अथातः संप्रवक्ष्यामि पार्थ दानमनुत्तमम् । सप्तसागरकं नाम सर्वपापप्रणशनम् ॥१॥
पुण्यं दिनमथासाद्य युगादिग्रहणादिकम् । कारयेत्सप्तकुंडानि कांचनानि विचक्षणः ॥२॥
प्रादेशमात्राणि तथा रत्निमात्राणि वा पुनः । कुर्यात्सप्तशतादूर्ध्वमासहस्त्राच्च शक्तितः ॥३॥
संस्थाप्यानि च सर्वाणि कृष्णजिनतिलोपरि । प्रथमं पूरयेत्कुंडं लवणेन विचक्षणः ॥४॥
द्वितीयंपयसातद्व त्तृतीयंसर्पिषापुनः । चतुर्थ तु गुडेनैव दध्ना पंचममेव च ॥५॥
षष्ठं शर्करया तद्वत्सप्तमं तीर्थवारिणा । स्थापयेल्लवणस्यांते ब्रह्माणं कांचनं शुभम् ॥६॥
केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम् । भास्करं गुडमध्ये तु दधिमध्ये सुराधिपम् ॥७॥
शर्करायां न्यसेल्लक्ष्मीं जलमध्यें तु पार्वतीम् । सर्वेषु सर्वस्नानि धान्यानि च समंततः ॥८॥
स्थापयेत्पुरुषश्रेष्ठ यथालाभं यथासुखम् । ततः पर्वसमीपे तु स्त्रारःशुल्कांबरो गृही ॥९॥
त्रिःप्रदक्षिणम् वृत्य मंत्रानेतानुदीरयेत । नमो वः सर्वसिंधूनामाधारेभ्यः सनातनाः ॥१०॥
जंतूनां प्राणदेभ्यश्व समुद्रेभ्यो नमो नमः । पूर्णाः सर्वे भवंतो वै क्षारक्षीरघृतैक्षवैः ॥११॥
दध्ना शर्कराया तद्वत्तीर्थवारिभिरेव च । तस्मादघौघविध्वंसं कुरुध्वं मम मानदाः ॥१२॥
अलक्ष्मीः प्रशमं यातु लक्ष्मीश्वास्तु गृहे मम । एवमुच्चार्य तान्दद्याह्मणेभ्यो युधिष्ठिर ॥१३॥
एकमेकमथाभ्यर्च्य पुष्पवस्त्रविलेपनैः । बहूनामे तदुद्दिष्ट दानमेकस्य वा पुनः ॥१४॥
सर्वसामान्य किंवा विप्रानुरुपतः । दानं सप्तसमुद्राख्यं यः प्रयच्छति पार्थिव ॥१५॥
गृहान्न चलति लक्ष्मीर्यवत्कु लाष्टकम् । पूज्यमानः सुरगणै सिद्धविद्याधरोरगैः ॥१६॥
देवलोकान्न च्यवते सप्तमन्वंतराण्यसौ । ततश्व वेदसंस्कारात्परं ब्रह्मधिगच्छति ॥१७॥
इति ददाति ससामरसंयुताञ्छुचिरविस्मवदानिहं सागरान् । अमलकांचनरत्नमयानसौ पदमुपैतिहरे रमया वृतम् ॥१८॥
दानं प्रधानतरमतदतीव विप्रे प्रोक्तं युधिष्ठिर समाषिधिया विर्चित्य । हैमान्विधाय जलधीन्वितरस्व शक्तया प्राप्नोपि येन सरसानि समीहितानि ॥१९॥ [ ७३८४ ]
इति श्रीभविष्ये महापुराणे उस पर्वणि श्रीकृष्णयधिष्ठिरसं वादे सप्तसागरदानविधिवर्णनं नाम द्वाशीत्युत्तरशततमोऽध्यायः ॥१८२॥