युधिष्ठिर उवाच ॥
चैव्रे भाद्रपदे माघे रूपसौभाग्यपुव्रदम् । नृतीयाव्रयमेतन्मे कृष्ण कस्मान्न कीर्तितम् ॥१॥
किमहं भक्तिरहितस्त्रयीमार्गातिगो नरः। सुप्रसिद्धं जगत्येतद्नोपितं केन हेतुना ॥२॥
भवान्सर्वार्थानुकूलः सर्वज्ञ इति मे मतिः। श्रीकृष्ण उवाच ॥ व्रतं चैतज्जगत्ख्यातं नाख्यातं तेन ते मया ॥३॥
पद्यस्ति श्रवणे बुद्धिः श्रूयतां पाण्डुनन्दन । कोऽन्यः श्रोता जगत्यस्मिन्भवता सद्दशो भूवि ॥४॥
जया च विजया चैव उमायाः परिचारिके । आगत्य मुनिकन्याभिः पृष्टेऽभीष्टफलेच्छया ॥५॥
भवत्यौ सर्वदा देव्याश्वितवृत्तिविदौ किल । केन व्रतोपचारेण कस्मिन्नहनि पार्वती ॥६॥
पूजिता तुष्टिमभ्येति मन्व्रैः कैश्व वरानने । तासां तद्वचनं श्रुत्वा जया प्रोवाच सादरम् ॥७॥
श्रूयतामभिधास्यामि सर्वकामफलपदम् । व्रतमुत्सवसंयुक्तं नरनारीमनोरमम् ॥८॥
कैश्व सिततृतीयायां दन्तधावनपूर्वकम् । उपवासस्प नियमं गृह्लीयाद्भक्तिभागितम् ॥९॥
सकुङ्कुमं सताम्बूलं सिन्दूरं रक्तवाससी । विधवा वै सोपवासाप्यवैधव्यकरं परम् ॥१०॥
विधवा याति मार्गेण कुमारी तु थद्दच्छया । कुर्यादभ्यर्चनविधिं श्रूयतां मन्व्राविक्रमः ॥११॥
नेव्रपद्दपटीवस्त्रवैर्भ्रमण्डपिक शुभाम् । कारयेत्कुसुमाप्रोददिव्याभरणभुषिताम् ॥१२॥
प्रवाललम्बितव्रातामन्तर्दिव्यवितानकाम् । विन्यस्तपूर्णकलशां सत्पीठस्थापितद्विजाम् ॥१३॥
पुरतः कारयेत्कुण्डं हस्तमाव्रं समेखळम् । ततः स्त्रातानुलिप्ता च परिधाय सुवाससी ॥१४॥
देवाम्पितृन्समभ्यर्च्य ततो देवीगृहं व्रजेत् । नामाष्टकेन संपूज्य गौरी गोपतिवल्लभा ॥१५॥
तत्कालप्रभैवः पुष्पैर्गन्धालिबकुलाकुलैः । कुङ्कुमेन समालभ्य कर्पूरागरुचन्दनैः ॥१६॥
एवं संपूज्य विधिवत्सद्धूपेनाधिवासयेत् । पार्वती ललिता गौरी गान्धारी शाङकरी शिवा ॥१७॥
उमा सती समुद्दिष्टं नामाष्टकमिदं मया । लड्डूकैः खण्डबैष्टैश्व गुणकैः सिंहकेसरैः ॥१८॥
सोमालकैः कोकसरैः खण्डखाद्यकरम्बकैः । घृतपक्कैबहुविधैः सुपक्कफलकल्पितैः ॥१९॥
द्दष्टिप्राणहरैह्रद्यैनैवैद्यैः प्रीणयेदुमाम् । कण्टुखण्डं जीरकं च कुङ्कुमं लवणार्द्रकम् ॥२०॥
इक्षुदण्डानैक्षव्रं च हरिद्रार्द्रान्पुरो न्यसेत् । नालिकेरानामलकान्मातुलुङ्गन्सदाडिमान् ॥२१॥
कूष्माण्डकर्कटीवृन्तनारङ्गपनसादिकान् । कालोद्भवानि चान्यानि फलानि विनिवेदयेत् ॥२२॥
गृहाद्युदू खलशिलाप्रभृतीन्नतिभिः सह । नेव्राञ्जनशलाकाश्व नखरेचनकानि च ॥२३॥
दर्पणं वंशपाव्राणि भवान्यै विनिवदयेत् । शङ्खतूर्यनिनादेन गीतप्तङ्गलनिःस्वनैः ॥२४॥
भक्त्या संपूजयेद्देवीं स्वशक्त्या शिववल्लभाम् । ततोऽस्वसमये भाजोः कुमार्यः करकैर्नवैः ॥२५॥
स्त्रानं कुर्युर्मुद्रा युक्ताः सौभाग्यारोग्यवृद्धये । यामे यामे गते स्त्रानं देवीपूननप्रेव च ॥२६॥
तैरेव नाममिर्होमस्तिलाज्येन प्रशस्यते । पद्मासनस्थिता साध्वी तेनैबाद्रेंण वाससा ॥२७॥
गौरीमुखेक्षणपरा तां राव्रिमतिवाहयेत् । काश्विद्वाद्यन्ति संहृष्टाः काश्विन्नृत्यन्ति हर्षिताः ॥२८॥
कथयन्ति कथाः काश्विद्देव्यास्तव्र महोत्सवे । गीततालानुसंबद्धमनुद्धतमनाकृळम् ॥२९॥
नृत्यन्ति स्म पुरे देव्याः काश्विदुल्लसितभ्रुवम् । नृत्येन हृष्यति हरो गौरी गीतन तुष्यति ॥३०॥
सद्भावेनाथ वा सर्वे गच्छन्ति परमां मुदम् । सुवासिनीभिस्ताम्बूल कुङ्कुमं कुसुमानि च ॥३१॥
प्रदेयं जागरवतां चान्येषामपि किञ्चन । नटैर्विटैर्भटैश्वैव तथा प्रेक्षणकोत्सवैः ॥३२॥
सखिभिः सहिता राव्रिं गायन्नृत्यन्हि तां नयेत् । एवं प्रभातसमये स्त्रात्वा संपूज्य पर्वतीम् ॥३३॥
ततो वै सा समारोहेद्वस्त्रालङ्रकृततोरणम् । तोलयेत्सा तथासीनां गुडेन लवणेन च ॥३४॥
कुङ्कुमेनाथ वा शक्त्या कपूरागरुचन्दनैः । पर्वतानामपि च्छैदैः केचिदिच्छन्ति सूरयः ॥३५॥
कुण्डमण्डपसंभारैर्मन्ब्रैस्तव्रैव शोभयेत् । लवणेन सहात्मानं तोलयन्ति गुडेन वा ॥३६॥
कयापि भक्तिपरया सौभाग्यमतुलीकृतम् । एवं देवीं प्रणम्यार्यां क्षमाप्य गृहमाविशेत् ॥३७॥
आमन्व्र्य शास्त्रकुशलानाचारविधिपारगान । अन्नं च मधुरप्राय भोजयित्वा सुवासिनीः ॥३८॥
स्वयं भुञ्जीत सहसा ज्ञातीजनबुधैः स्वकैः । यच्च देव्याः पुरो दत्त नैवेद्यादि तदिच्छया ॥३९॥
गृहं प्रति नयेत्सर्वं विभज्याभ्रन्तमानसा । ततो दद्यादगृहस्थेम्यः कृतकृत्या भवेत्तदा ॥४०॥
बिधिर्भाद्रपदेऽप्येष सुसौन्दर्यप्रदाथकः । सप्तधान्यस्वरूपां च शूर्पे संपूजयेदुमाम् ॥४१॥
गोमूव्रप्राशंन ह्यव्र तेन गोमूव्रसंज्ञिता । माघमासतृतीयायां विशेषः श्रूयतामिति ॥४२॥
पूर्वोक्त सकलं कृत्वा प्रभाते यवसंस्तरम् । तोलयित्वा कुन्दपुष्पैः पूजयेत्तत्सुतामिति ॥४३॥
एतेन कारणेनोक्ता चतुर्थी कुन्दसंनुया । तृतीयाख्यं मयैतत्ते कथितं सर्वंकारणम् ॥४४॥
जयया मुनिकन्यानां यत्पुरा समुदाद्वतम् । श्रीकृष्ण उवाच ॥ आसीद्विदर्भनगरे बेश्या सर्वाङ्रसुन्दरी ॥४५॥
तया ब्राह्मनवाक्येन सर्वमेतत्कृतं पुरा । भुक्त्वा भोगान्महीपृष्ठे दत्त्वा दानं यथेप्सया ॥४६॥
कालेन समनुप्राप्ता मरणं मनुजेश्वर । अचिन्त्या राजदुहिता सा बभूवातिशोभना ॥४७॥
अवन्तिसुन्दरी नाम देवानामपि सुन्दरी । यदि वक्व्रसहखाणां सहस्त्र स्यात्कथञ्चन ॥४८॥
तथापि निर्वर्णयितुमशक्या सा सुलोचना । चैव्रवृतीयामाहात्म्यात्सा बभूव प्रभावती ॥४९॥
मातापिव्रोरतिप्रेष्ठा शिष्ठान्यजनबल्लभा । लब्धाब्धिसंभवा यद्वत्कृष्णेनाक्लिष्टकर्मणा ॥५०॥
ततः सा वुभुजे भोगान्भर्व्रा सार्द्धं मुदा सती । षददाद्ब्राह्मणेभ्यः सा भूषपं कटकादिकम् ॥५१॥
तत्प्रभावेण सा लेभे सौभाग्यं किं ततः परम् । पुव्रांश्व जनयामास विष्णुशकपराक्रमान ॥५२॥
सर्वास्त्रशस्त्रकुशलान्वेदोक्तविधिपारगान् । पवं रूपं महात्प्राप्य सौभाग्यं पुव्रसंपदम् ॥५३॥
भर्तुः सहैव मरणमन्ते प्राप्य पतिव्रता । शक्रादिलोकपालानां भवनेषु यथाक्रमम् ॥५४॥
आक्रम्य ब्रह्मलोकं च जगाम शिवसात्मताम् । एवं यान्यापि कुरुते नारी व्रतमिदं शुभम् ॥५५॥
सा रूपसौभाग्यसुतान्प्राप्य स्वर्गे महीयते । न दुर्भगा कुले तस्याः काचिद्भवति कन्थका ॥५६॥
न दुर्विनीतश्व सुतो न भृत्योऽप्रियकृद्भवेत् । न दारिद्यं गृहे तस्मिन्न व्याधिरूपजायते ॥५७॥
यव्र सा रमते साध्वी धमातचामीकरप्रभा । अन्याश्व पाश्वरिण्यन्ति ब्राह्यणानुमते व्रतम् ॥५८॥
संपूज्य वाचकं भक्त्या भूषणाच्छादनादिभिः । ताः सर्वसुखसंपन्ना अविपन्नप्रनोरथा । भविष्यन्ति कुरुश्रेष्ठ तस्यै देवि नमोस्तु ते ॥५९॥
माघे महार्ध्यमणिमण्डितपादपीठां चैव्रे विचिव्रकुसुमोत्कारचर्चिताङ्गीम् । सूर्यप्ररूढनवसस्यमयीं नभस्ये सपूज्य शंभुदयितां प्रभवन्ति नार्यः ॥६०॥ [ १४०१ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे चैव्रभाद्रपदमाघतृतीयाव्रतव्रर्णनं नामाष्टविंशतितमोऽध्यायः ॥२८॥