श्रीकृष्ण उवाच ॥
अथातः संप्रवक्ष्यामि दानमन्यत्तवोत्तमम । महाभूतघटं नाम महापातक नाशनम् ॥१॥
पुण्यां तिथिं समासाद्य स्वनुलिप्ते गृहांगणे । का येत्कांचनं कुंभं महारत्नान्वितं पुनः ॥२॥
प्रादेशादंगूलशतं यावत्कुर्यात्प्रमाणतः । शक्त्या पंचपलादूर्ध्वमाशत्ताच्च नरोत्तम ॥३॥
क्षीराज्यपूरितं कृत्वा कल्पवृक्षसमन्वितम् । पद्मसनगतास्तत्र ब्रह्मविष्णुमहेश्वराः ॥४॥
लोकपाला महेंद्राश्व स्ववाहनसमास्थिताः । ऋग्वेद साक्षसूत्रश्व यजुर्वेदः सपंकजः ॥५॥
वीणाधारी सामवेदो ह्यथर्वा सक्च्छभान्वितः । पुराणवेदो वरदः साक्षासूत्रकमंडलः ॥६॥
सप्तधान्यानि पुरतः स्थापयेच्छक्तितो बुधः । पादुकोपानहौ छत्रं चामराग्रयासनायुधान ॥७॥
एवं प्रकल्प्य विधिवन्महाभूत घटं नरः । गुडपात्रोपरिगतं माल्यवस्त्रैरथार्चयेत ॥८॥
अथ पर्वसमीपे तु स्त्रात्वा नियतमानसः । त्रिःप्रदक्षिणमावृत्य मंत्रमेतमुदीरयेत् ॥९॥
यस्मान्न किंचिदप्यस्ति महाभूतैर्विना कृतन् । महाभूत मयश्वायं तस्माच्छांतिं ददातु मे ॥१०॥
अत्र सन्निहिता देवाः स्थापिता विश्वकर्मणा । ते मे शांति प्रयच्छंतु भक्तिभावेन पूजिताः ॥११॥
इत्येवं पूजयित्वा तु महाभूतघटं नरः । ब्राह्मणं पूजयित्वा तु भूषणाच्छादनदिभिः ॥१२॥
महाभूतघटं दद्यात्पर्वकाले यतव्रतः । पुनः प्रदक्षिणीकृत्य ब्राह्मणं तं क्षमापयेत् ॥१३॥
अनेन विधिना यश्व दानमेतप्रयच्छति । एकविंशत्कुलोपेतः शिवलोके प्रयात्यत्तौ ॥१४॥
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः । अजेयः शत्रुसंघातैर्महाबलपराक्रमः ॥१५॥
क्षत्रर्मरतो विद्वान्देवब्राह्मणपूजकः ॥१६॥
अष्टापदोत्तमघंटं विमलं विधाय ब्रह्मेवशेकशवयुतं सहलोकपालैः । क्षीराज्यपूर्णविवरं प्रणिपत्य भक्त्या विप्राय देहि तव दानशतैः किमन्यै ॥१७॥ [ ७४०१ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महाभूतघटदानविधिवर्णनं नाम त्र्यशीत्युत्तरशततमोऽध्यायः ॥१८३॥