युधिष्ठिर उवाच ॥
अक्षौहिण्यो दशाष्टौ च मद्राज्यार्थे क्षयं गताः । तेन पापेन मे चित्ते जुगुप्साऽतीव वर्तते ॥१॥
तव्र ब्राह्मणराजन्यवैश्यशूद्रादयो हताः । भीश्मद्रोणकलिङ्गादिकर्णशल्यसुयोधनाः ॥२॥
तेषां वधेन यत्पापं तन्मे मर्माणि कृन्तति । पापपक्षालनं कञ्चिद्धर्मं ब्रूहि जगत्पते ॥३॥
श्रीकृष्ण उवाच ॥ सुमहत्पुण्यजननं गोवत्सद्वादशीब्र्तम् । अस्ति पार्थ महाबाहो पाण्डवानां धुरन्धर ॥४॥
युधिष्ठिर उवाच ॥ केयं गोद्वादशी नाम विधानं नव्र कीद्दशम् । कथमेषा समुत्पन्ना कस्मिन्काले जनार्दन ॥५॥
एतत्सर्वं हरे ब्रूहि व्राहि मां नरकार्णवात् ॥६॥
श्रीकृष्ण उवाच ॥ पुरा कुतयुगे पार्थ मुनिकोटिः समागता । तपश्वचार बिपुलं नानाव्रतधरा गिरौ ॥७॥
द्दर्षेण महता विष्टा देवदर्शनकाङ्क्षया । जम्बूमार्गे महापुण्ये नानातिर्थाविभूषिते ॥८॥
पारियाव्रे सिद्धपाव्रे रम्ये तन्दुलिकाश्रमे । टण्टाविरिति विख्याते उत्तमे शिखर नृप ॥९॥
तापसारण्यमनुलं दिव्यकाननमण्डितम् । वसिष्ठशुक्राङ्गिरसक्रतुदक्षादिभिर्वतम् ॥१०॥
वल्कलाजिनसंवीतैर्भूगोराश्रममण्डलम् । नानामृगगणैर्जुष्टं शाखामृगगणैर्युतम् ॥११॥
प्रशान्तसिंहहरिणं वस्तु सर्वगतद्रुमम् । गहनं निर्क्रतं रम्यं लतासन्तानसङ्कुलम् ॥१२॥
सिंहव्याध्रगजिर्भिन्न हरिणैः शम्बरैः शशैः । वराहै रूरुभिश्विव्रैः समन्तादुपशोभितम् ॥१३॥
तपस्यतां तव्र तेषां मुनीनां दर्शनार्थिनाम् । व्याजं चक्रे महीनाथ द्वादशाधार्धलोचनः ॥१४॥
बभूव ब्रह्मणे बुद्धो जरापाण्डुरमूर्द्धजः । श्लथचर्मतनुः कुब्जो यष्टिपाणिः सवेपथुः ॥१५॥
उमापि चक्रे गोरूपं शृणु बत्पार्थ याद्दशम् । क्षीरोदतोयसंभुता याः पुराऽमृतमन्थने ॥१६॥
पञ्च गावः शुभाः पाथं पञ्चलोकस्य मातरः । नन्दा सुभद्रा सुरभी सुशीला बहुला इति ॥१७॥
एते लोकोपकाराय देवानां तर्पणाय च । जमदग्निभरद्वाजवसिष्ठासिगौतमाः ॥१८॥
जगृहुः काद्मदाः पञ्च गावो दत्ताः सुरैस्ततः । गोमयं रोचना भूव्रं क्षीरं दधि धृतं गवाम् ॥१९॥
षडङ्गानि पविव्राणि संशुद्धिकरणानि च । गोमयादुत्थितः श्रीमान्बिल्ववृक्षः शिवप्रियः ॥२०॥
तव्रास्ते पद्महस्ता श्रीः श्रीवृक्षस्तेन सस्मृतः । बीजान्युत्पलपद्मानां पुनर्जातानि गोमयात् ॥२१॥
गोरोचना च माङ्गल्या पविव्रा सर्वसाधिका । गोमूव्राद्नग्गुलुर्जातः सुगन्धप्रियदर्शनः ॥२२॥
आहारः सर्वदेवानां शिवस्य च विशेषतः । यद्धीजं जगतः किञ्चित्तज्ञेयं क्षीरसंभवम् ॥२३॥
दधुः सर्वाणि जातानि मङ्गलान्यर्थसिद्धये । घृतादमृतमुत्पन्न देवानां तृप्तिकारणम् ॥२४॥
ब्राह्मनाश्वैव गावश्व कुलमेंक द्विधा कृतम् । एकव्र मन्व्रास्तिष्ठन्ति हविरन्यव्र तिष्ठति ॥२५॥
गोषु यज्ञाः प्रवर्तन्ते गोषु देवाः प्रतिष्ठिताः । गोषु वेदाः समुत्कीर्णाः सषडङ्गपदक्रमाः ॥२६॥
शृङ्गमूळे गवां नित्यं ब्रह्मा विष्णुश्व संस्थितौ । शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ॥२७॥
शिवो मध्ये महादेवः सर्वकारणकारणम् । ललाटे संस्थिता गौरी नासावशे च षण्मुखः ॥२८॥
कम्बलाश्वतरौ नागौ नासापुटसमाश्रितौ । कर्णयोरश्विनौ देवौ चक्षुर्भ्यां शशिभस्करौ ॥२९॥
दन्तेषु वसवः सर्वे जिह्रायां वरुणः स्थितः । सरस्वती च कुहरे यमयक्षौ च गण्डयोः ॥३०॥
संध्याद्वयं तथेष्टाभ्यां ग्रीवायां च पुरन्दरः । रक्षांसि ककुदे द्यौश्व पार्ष्णिकाये चव्यवस्थिता ॥३१॥
चतुष्पात्सकलो धर्मो नित्यं जङ्घासु तिष्ठति । खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः ॥३२॥
खुराणां पश्विमे भागे राजसाः संप्रतिष्ठिताः । रुद्रा एकादश पृष्ठे वरुणः सर्वसन्धिषु ॥३३॥
श्रीणीतटस्थाः पितरः कपोलेषु च मानवाः । श्रीरपाने गवां नित्यं स्वाहालङ्कारमाश्रिताः ॥३४॥
आदित्या रश्मयो वालाः पिण्डीभूता व्यवस्थिताः । साक्षाद्नङ्गा च गोमूव्रे गोमये यमुना स्थिता ॥३५॥
व्रयस्त्रिंराद्दंवकोटन्यो रोमकूये व्यवस्थिताः । उदरे पृथिवी सर्वा सशौलवनकानना ॥३६॥
चत्वारः सागराः प्रोक्ता गवां ये तु पयोधराः । पर्जन्यः क्षीरधारासु मेघा बिन्दुव्यवस्थिताः ॥३७॥
जठरे गार्हपत्योऽग्निर्दक्षिणाग्निर्ह्रदि स्थितः । कप्ठे आहवनीयोऽग्निः सभ्योऽग्निस्तालुनि स्थितः ॥३८॥
अस्थिव्यव स्थिताः शैला मज्जासु क्रतवः स्थिताः । क्रग्बेदोऽथर्ववदश्व सामवेदो यजुस्तथा ॥३९॥
सुरक्तपीतकृष्णादि गवां वर्णे व्यवस्थिताः । तासां रूपमुमा स्मृत्वा सुरभीणां युधिष्ठिर ॥४०॥
सस्मृत्य तत्क्षणाद्नौरी इयेष सद्दशां तनुम् । आत्मानं विदधे देवी धर्मराज शृणुष्व ताम् ॥४१॥
षडुन्नतां पञ्चनिन्नां मण्डूकाक्षीं सुवालविम् । ताम्त्रस्तनीं रौप्यकटिं सुखुरीं सुमुखीं सिताम् ॥४२॥
सुशीलां च सुतस्त्रेहां सुक्षीरां सुपयोधराम । गोरूपिणीमुमा स्पृष्ट्वा स्वामिनीं तां सवत्सकाम् ॥४३॥
चर्यया प्रतरं ह्रष्टो हादेवः स्वचेतसि । शनैः शनैर्ययौ पार्थ विप्ररूपी महाश्रमम् ॥४४॥
दत्त्वा कुलपतेः पाश्व भृगोस्तां गां न्यवेदयत् । तपस्विनां महातेजास्तां च सर्वेषु पाण्डव ॥४५॥
न्यासरूपां ददौ धेनु रक्षित्वा तां दिनद्वयम् । यावत्स्त्रात्वा इतस्तीर्त्वा जम्बूमार्गं वियाम्यहम् ॥४६॥
रक्षिष्यामः प्रतिज्ञाते मुनिभिः सुरभीमिमाम् । अन्नर्द्धिमगमद्देवः पुनर्व्याघ्रो बभूव ह ॥४७॥
वज्रचक्रनखोदर्वी ज्वलत्पिङ्गललोचनः । जिह्राकरालवदनो जिह्रालाङ्गूलदारूणः ॥४८॥
संप्रायादाश्रमपदं तां च धेनुं सवत्सकाम् । व्रासयामास त्तां देव मुनीनां दिक्ष्ववस्थितः ॥४९॥
ऋषयोऽपि समाक्रान्ता आर्तनादं प्रचक्रिरे । हा हेत्युच्चैः केचिदूचुर्हुंहुकारैस्तथाऽपरे ॥५०॥
तालास्फोटान्ददुः केचिह्याघ्रं द्दष्टवाऽतिभैरवम् । सापि हम्भारवांश्वके गौरुत्प्लुत्य सवत्सका ॥५१॥
तस्या व्याघ्रभयातायाः कपिलाषा युधिष्ठिर । पलायन्त्याः शिलामध्ये क्षणं क्षुरचतुष्टयम् ॥५२॥
व्याघ्रवत्सकयोस्तव्र वन्दितं सुरकिन्नरैः । द्दश्यतेऽतीव सुव्यक्तं तदद्यापि चतुष्टयम् ॥५३॥
सजलं शिवालेङ्गं च शंभोस्तीर्थं तदुत्तमम् । यस्संस्पृशति राजेन्द्र स गोवध्यां व्यपाहति ॥५४॥
तव्र स्त्रात्वा महातीर्थे जम्बूमार्गे नराधिप । ब्रह्महत्यादिभिः पापैर्मूच्यते नाव्र संशयः ॥५५॥
ततस्ते मुनयः कुद्धा ब्रह्मदत्तां महास्वनाम् । जघ्नुर्घटां सुरैर्दत्तां गिरिकन्दरपूरणीम् ॥५६॥
शब्देन तेन व्याघ्रोऽपि मुक्त्वा गावं सवत्सकाम् । विप्रैस्तव्र कृतं नाम ढुण्ढागिरिरिति श्रुतिः ॥५७॥
तं प्रप्रश्यन्ति ये पार्थ ते रुद्रा नाव्र संशयः । अथ प्रत्यक्षतां श्रेष्ठस्तेषां देवो महेश्वरः ॥५८॥
शूलपाणिस्त्रिपुरहा कामन्घो वृषभे स्थितः । उमासहायो वरदः सस्वामी सविनायकः ॥५९॥
सनन्दिः सप्रहाकाः सशृङ्गी समनोहरः । श्रोरभद्रा च चामुण्डा घण्टाकर्णांदिभिर्वृतः ॥६०॥
मानृभिर्भूतसङ्घातैर्यक्षराक्षसगुह्यकैह । देवदानवगन्धर्वमुनिविद्याधरोरगैः ॥६१॥
प्रणम्य देवदेवाय पत्नीभिः सहितैरुप्रा । गोरूपिणी सवत्सा च पूजिता ब्रह्मचारिभिः ॥६२॥
कार्तिकशुक्लयक्षे तु द्वाद्श्यां नन्दिणिव्रतम् । ततःप्रभृति राजेन्द्र अवतीर्णं महीतले ॥६३॥
उत्ताप्रपादेन तथा व्रत चीर्णमिदे शृणु । उनानपादनामासीत्क्षव्रियः पृथिवीपते ॥६४॥
तस्य भार्याद्वयं चामीद्रुचिशुघ्नीति विश्रुतम् । शुघ्नीजातो ध्रुवः पुव्रो बालपादधरोऽलसः ॥६५॥
रुच्याः समर्पितः शुघ्न्या ध्रुवोऽयं रक्षतां सखि । अह करिष्ये शुश्रुषां भर्तुस्तावत्सदा स्वयम् ॥६६॥
रूची रसवतीं नित्यं प्रत्यहं कुरुते गृहे । अकरोद्भर्तृशुश्रषां शुन्घी नित्यं पतिव्रता ॥६७॥
कदाचित्क्रोधमात्सर्यात्सापत्न्यं दर्शित तया । स्वयं रुच्या बिहत्यासौ शिशुः खण्डलशः कृतः ॥६८॥
तापिकायां तथा स्थाल्यां पक्तसिद्धः सुसंस्कृतः । अन्नभोजनवेलायां ददाति नृपभाजने ॥६९॥
तें वै भक्षयितुं दुष्टा सामिषं भोजन किल । अथ भोजनवेलायां वव्रे जीवितमाप्रवान् ॥७०॥
तथैव प्रहसन्बालो मातुरुत्सङ्गोऽभवत् । तं द्दष्टवा महदाश्वर्थं शुन्घी पप्रच्छ विस्मिता ॥७१॥
किमेतद्ब्रूहि बृत्तान्तं कस्यय व्युष्टिरुत्तमा । किं त्वयाचरितं किञ्चिदव्रतं दत्तं हुतं तथा ॥७२॥
सत्यं सत्यं पुनः सत्य येन जीवति ते सुतः । मयायं सप्तवारं तु विशल्यशकलीकृतः ॥७३॥
पक्कः स्वयंकृतः स्थाल्यां व्यञ्जनैः सहभोजनैः । परिविष्यमाणः सपूनः कथं जीवितमाप्तवान् ॥७४॥
किं ते सिद्धा महाविद्यामृनसंजीवनी शुभा । रत्नं मणिर्महाराती योगाञ्जमहौशधम् ॥७५॥
कथयस्व महाभागे सत्यं सत्यं भगिन्यसि । एवमुक्ते रुचेस्तस्या व्याचख्यौ वत्सगोव्रतम् ॥७६॥
कार्तिके चैव द्वादश्यां यथा चानुष्ठितं पुरा । ब्रतस्यास्य प्रभावेन पुनर्जीवति मे सुतः ॥७७॥
यथार्थमेतह्याख्यातं ते च गोद्वादशीव्रातम् । तवापि रूचि तत्सर्वं भविष्यति शुभं प्रियम् ॥७८॥
एवमुक्तं व्रतं चीर्णं रुच्या पुव्राः सुखंधनम् । संप्ताप्तं जीवितान्ते च ध्रुवस्थाने निवेशिता ॥७९॥
ब्रह्मणा सृष्टिकारेण रूचिर्भर्व्रा सहासिता । दशनक्षव्रसंयुक्तो ध्रुवः साद्यापि द्दश्यते ॥८०॥
ध्रुवर्क्षे च यदा द्दष्टे लोकः पापैः प्रमुच्यते । युधिष्ठिर उवाच । कीद्दश ताद्वेधानं च तन्मे ब्रूहि जनार्दन ॥८१॥
यत्कृतं शुन्घिवचनाद्रुच्या यदुकुलोद्भव । श्रीकृष्ण उवाच ॥ सप्राप्ते कार्तिके मासि शुक्लपक्षे कुरूत्तम ॥८२॥
द्वादश्यां कृतसंकल्पः स्त्रात्वा पुण्ये जलाशये । नरो वा यदि वा न री एकभक्तं प्रकल्पयेत् ॥८३॥
ततो मध्याह्रसमथे द्दष्टवा धेनुं सवत्सकाम् । सुशीलां वत्सलां श्वेतो कपिलां रक्तरूपिणीम् ॥८४॥
ब्राह्मणक्षव्रियविशां स्त्रीशूद्राणां जनेश्वर । यथाकमेण पूज्येन गन्धपुष्णजलाक्षतैः ॥८५॥
कुङ्कुमालक्तकैर्दीपैर्माषान्नवटकैः शुभैः । कुसुमैर्वत्सक चापि मन्व्रेणानेन पाण्डव ॥८६॥
" ॐ माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्थ नाभिः । प्रनुवोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट " नमो नमः स्वाहा ॥८७॥
इत्थं संपूज्य गां द्दष्ट्वा पश्वात्तां च क्षमापयेत । ॐ सर्वदेवमये देवि लोकानां शुभनन्दिनि ॥८८॥
मातर्ममाभिलषितं सफर्ले कुरु नन्दिनि । एवमभ्यर्चयेदेकां गामेतद्धि गवाह्रिकम् ॥८९॥
पर्युक्ष्य वारिणा भक्त्या प्रणम्य सुरभीं ततः । तद्दिने तापिकापक्कं स्थालीपाकं च वर्जयेत् ॥९०॥
भूमौ स्वयं ब्रह्मचारी शृणु यत्फलमाप्रुयात् । यावन्ति गाव्रे रोमाणि गवां कौरवनन्दन ॥९१॥
तावत्कालं स वसति गोलोके नाव्र संशयः । मेरोः पूर्यष्टकं रम्यमिन्द्राग्नियमरक्षसाम् ॥९२॥
वरुणानिलयक्षाणां रुद्रस्य च युधिष्ठिर । तासामुपरि गालोकस्वव्र याति स गोव्रती ॥९३॥
ऊर्जे सिते द्विदशमेऽहनि गां सवत्सां याः पूजयति कुसुमैर्वटकैश्व ह्रद्यः । ताः सर्वकामसुखभोगबिभूतिभाजो मर्त्ये वसन्ति सुचिरं बहुजीववत्साः ॥९४॥ [ २८१४ ]
इति श्रीभविष्ये महापुराण उत्तरपर्णणि श्रीकृष्णयुधिष्ठिरसंवादे गोवत्सद्वादशीव्रतं नामैकोनसप्ततितमोऽध्यायः ॥६९॥