श्रीकृष्ण उवाच ॥
शय्यादानं प्रवक्ष्यामि तव पांडुकुलोद्वह । यद्दत्वा सुखभागी स्यादिह लोकेपरत्र च ॥१॥
शय्यादानं प्रयच्छंति सर्वदैव द्विजोत्तमाः । अनित्यं जीवितं यस्मात्कोन्यः पश्वात्प्रदाह्यति ॥२॥
तावत्सबंधुःसपिता यावज्जीवति भारत । मृतो मृत इति ज्ञात्वा क्षणात्स्त्रेहो निवर्तते ॥३॥
तस्मात्स्वयं प्रदातव्यं शय्या भोज्यजलादिकम् । आत्मैवाह्यात्मनोबंधुरिति संचिंत्य चेतसि ॥४॥
शत्रुः स कै य आत्मानंदानभोगैर्न पूजयेत् । कोऽन्योऽहिततरस्तरस्ताकः पश्वात्पूजयिष्यति ॥५॥
तस्माच्छय्या समासाष सारदारुमयीं ढ्ढाम् । दंतपत्रचितां रम्यां हेमपट्टैरलंकृताम् ॥६॥
हंसतूली प्रतिच्छन्नां शुभगंडोपधानिकाम् । प्रच्छादनपटीयुक्तां गंधपाधिवासिताम् ॥७॥
तस्यां स्म्स्थापयेद्धैमं हरि लक्ष्मीसमन्वितम् । उच्छीर्षके घृतं कलशं परिकल्पयेत् ॥८॥
विज्ञेयं पांडव सदा सनिद्राकल्पकं बुधैः । तांबूलं कुंकुमक्षोदकर्षूरागरुचंदनम् ॥९॥
दीपकोपानहच्छत्रमरासनभोजनम । पार्श्वेषु स्थापयेच्छक्त्या सप्तधान्यानि चैव हि ॥१०॥
शयनस्थस्य भवति यदन्यदुपकारकम् । भृगारकाद्यपुष्पाणि पंचवणीवितानकम् ॥११॥
शय्यामेवं विधां कृत्वा ब्राह्मणायोपदापयेत् । सपत्नीकाय संपूज्य पुण्येऽह्री विधिपूर्वकम् ॥१२॥
नमस्ते सर्वदेवेश शय्यादानं कृतं मया । देहि तस्माच्छांतिफलं नमस्ते पुरुषोत्तम ॥१३॥
यथा न कृष्ण शयनं शून्यं सागरजातया । शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि ॥१४॥
दत्त्वैवं तल्पमनलं प्रणिपत्य विसर्जयेत् । एकादशाहेऽपि तथा विधिखे प्रकीर्तितः ॥१५॥
ददाति यदि धर्मार्थ मानवो बांधवे मृते । विशेषं चात्र राजेंद्र कथ्यमानं निबोध मे ॥१६॥
तेनोपभुक्तं यद्वद्दु किंचित्पूर्व गृहे सता । तद्वात्रलग्नं च तथा वस्त्रवाहनभाजनम् ॥१७॥
यदिष्टं च तथास्यसीतत्सर्व परिकल्पयेत् । स एव पुरुषोहमतस्तस्यांत स्थापयेत्तथा ॥१८॥
पूजयित्वा प्रदातव्या मृतशय्या यथोदिता । स्वर्गे पुरंदरगृहे सूर्यपुत्रालयेऽथवा ॥१९॥
सुखं वसत्यसौ जंतुः शय्यादान प्रभावतः । पीडयंति न तं याम्याः पुरुषा भीषणाननाः ॥२०॥
न घर्मेण न शीतेन बाध्यते स नरः क्कचित् । अपि पापसमायुक्तः स्वर्गलोके महीयते ॥२१॥
विमानवरमारुढः सेव्यमानोऽप्सरोगणैः । आभूतसप्लवं यावत्तिष्ठेत्पातकवर्जितः ॥२२॥
शय्याप्रदानममलं तव पांडुपुत्र संकीर्तितं सकलसौख्यनिधानमेतत् । तद्यो ददाति विधिवत्स्वयमेव नाकेकल्पं विकल्परहितः स बिभति ॥२३॥ [ ७४२४ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शय्यादानविधिवर्णनं नाम चतुरशीत्युत्तरशततमोऽध्यायः ॥१८४॥