अथ कन्यादानम् ॥
श्रीकृष्ण उवाच ॥
ब्रह्मदेयां तु यःकन्यामलंकृत्य प्रयच्छति । सप्तपूर्वान्भविष्यांश्च स्वकुले सप्तमानवान् ॥१॥
तेन कन्याप्रदानेन सतारयत्यसंशयम् । लोकानाप्नोति च तथा दक्षस्यैव प्रजापतेः ॥२॥
प्राजापत्येनविधिना आत्मानं च समुद्धरेत् । महत्पुण्यमवाप्नोति स्वर्गलोकं च गच्छति ॥३॥
भगवाश्वप्रदानानि गजदानं तथैव च । दत्वा तु वर्णहीनाय घोरे तमसि मज्जति ॥४॥
बहुवर्पसहस्त्राणि पुरीषं काकमश्रुते । शुल्केन दत्वा कन्यां च घोरं नरकमाप्नुयात् ॥५॥
बहून्यव्दसहस्त्राणि तथा अशुचिभुङ्गनरः । सवर्णा च सवर्णेभ्यो दद्यात्कन्यां यथाविधि ॥६॥
दत्वा चाधिऋवर्णाय द्विगुणं सगुणं तथा । द्विजपुत्रमनाथं वा संस्कुर्याद्यश्व कर्मभिः ॥७॥
चूडोपयनाद्यैश्वसोऽश्वमेधफलभेत् । अनाथां कन्यकां दत्वा नाकलोके महीयते ॥८॥
कन्यया सह दत्तं च सुवर्णं वह्रिमूलकम् । सकलं द्विगुणं तस्य फलमुक्तं पुरातनैः ॥९॥
कन्यादानादवाप्नोति दक्षलोकं नरोत्तम । विष्णुपूजासमं पुण्यं तत्कन्यापूजया भवेत् ॥१०॥
विप्रानमाहृत्यमनोभिरामसुंराङ्गनागेतविलासहृद्यत् । प्राप्नोति लोकंत्रिदशोत्तमानां कन्याप्रदानान्न विचारणोति ॥११॥ [ ६६६० ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कन्याप्रदानं नामाष्टचत्वारिशदुत्तरशततमोऽध्यायः ॥१४८॥