युधिष्ठिरः उवाच ॥
युष्मद्वाक्यामृतमिदं शृण्वन्नहं जनार्दन । न तृप्तिमधिगच्छामि जातं कौतूहलं हि मे ॥१॥
गोपतिः किल गोविन्दस्त्रिषु लोकेषु विश्रुतः । गोवुषस्य प्रदानेन त्रैलोक्यमभिनंदति ॥२॥
तस्माद्वोवृषकल्पस्य विधानं कथयाच्युत ॥३॥
श्रीकृष्ण उवाच ॥
वृषदानफलं पुण्यं श्रृणुष्व कथयासि ते । पवित्रं पावनं चैव सर्वदानोत्तमं तथा ॥४॥
दशधेनुसमोनङ्वानेकश्वैव धुरंधरः । दशधेनुप्रदानाद्धिस एवैको विशिष्यते ॥५॥
वोढा च चारुपृष्ठांगो ह्यरोगः पाडुनंदन । युवा भद्रः सुशीलश्व सर्वदोषविवर्जितः ॥६॥
धुरंधरः स्थापयते एक एव कुलं महत् । त्राता भवति संसारे नात्र कार्याविचारणा ॥७॥
अलंकृत्य वृषं शांतं पुण्येह्रि समुपस्थिते । रौप्यलाङ्गूलसंयुक्तं ब्राह्मणाय निवेदयेत् ॥८॥
मंत्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते । धर्मस्त्वं वृषरुपेण जगदानंकारके ॥९॥
अष्टमूर्तिरधिष्ठानमतः पाहि सनातन । दत्वैवं दक्षिणायुक्तं प्रणिपताविसर्जयेत् ॥१०॥
सप्तजन्मकृतं पापं वाङ्मनः -- कायक्रर्मजम् । तत्सर्व विलयं याति गोदानसुकृतेन च ॥११॥
यानं वृषभसंयुक्तं दीप्यमानं सुशोभितम् । आरुह्य कामगं दिव्यं स्वर्लोकमधिरोहति ॥१२॥
यावंति तस्य रोमाणि गोवृषस्य महीपते । तावद्वर्षसहस्त्राणि गवाम लोके महीयते ॥१३॥
गोलोकादवतीर्णश्तु इहलोके द्विजोत्तमः । यज्ञयाजी महातेजाः सर्वब्राह्मणपूजितः ॥१४॥
तवोक्तं वै महाराज कस्य देयो वृषोत्तमः । तदप्यहं ते वक्ष्यामि पात्रं त्राणपदं नृणाम् ॥१५॥
येषां सदा वै श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः । प्रतिग्रहे संकुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः ॥१६॥
गात्रे दृढं भारसहं सुपुष्टं सुश्रृङ्गिणं सर्वगुणोपपन्नम् । दत्वर्षभं गोदशकेन तुल्यं सत्यं भवंति भुवि तत्फलभागिनस्ते ॥१७॥ [ ६६८६ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृषदानविधिवर्णनं नाम पंचाशदुत्तशततमोऽध्यायः ॥१५०॥