श्रीकृष्ण उवाच ॥
पुरा बभूव राजर्षिरजपाल इति श्रुतः । प्रार्थितः स प्रजाभिस्तु सर्वदुःखापनुत्तये ॥१॥
दुःखापनोदं कुरु भोब्याधितानां नरेश्वर । एवमुक्तश्विरं ध्यात्वा कृत्वाऽव्याधीन्प्रजागणान् ॥२॥
पालयामास ह्रष्टोऽसावजपालस्ततोऽभवत् । तेनैषा निर्मिता शान्तिर्नाम्ना नीराजता जने ॥३॥
तस्यास्तु पाण्डबश्रेष्ठ लक्षणं वच्मि ते शृणु । राज्ञा पुरोहितैः सार्द्ध्मनुष्ठेया विधानतः ॥४॥
तस्मिन्काले बभूवाथ रावणो राक्षसेश्वरः। लंकास्थितः सुरगणान्नियुनक्ति स्वकर्मसु ॥५॥
अखण्डमण्डलं चन्द्रमात्तपव्रं चकार ह । इन्द्रं सेनापर्ति चक्रे वायुं पांशुप्रमार्जकम् ॥६॥
वरुणं बद्धर्कास्थं धनदं धनरक्षकम् । यमं संषमनेऽरीणां युयुजे नन्व्रणे मनुम् ॥७॥
मेघाश्छादन्ति नृपतिं दुमपुष्पादिपङिक्तिषु । सप्तर्षथः शान्तिपरा ब्रह्मणा सह संस्थिताः ॥८॥
यामिकामध्यकक्षायां मन्घर्वा गीततत्पराः । प्रेक्षणीयेऽप्सरोवृन्दे बाह्ये विद्याधरावृत्ताः ॥९॥
गङ्गाद्याः सरितः पाने मार्हपत्ये हुताशनः । विश्वकर्मान्नसंस्कारे यमः शिल्पिप्रयोजने ॥१०॥
तिष्ठन्ति पार्थिवाः सर्वे पुरः सेवाविधायिनः । द्दश्यन्ते भासुरै रत्नैः प्रभावन्तो विभूषणैः ॥११॥
संद्दष्ट्बा रावणः प्राह प्रशस्त प्रतिहारकम् । सेवां कर्तुं मम स्थाने ब्रहि कोऽव्र समागतः ॥१२॥
स उवाच ॥ प्रणम्याग्र दण्डपाणिर्निशाचर । एष ककुत्स्थो मान्धाता धुन्धमारोऽनलोऽर्जुनः ॥१३॥
ययातिनहुषो भीमो राघवोयं विदूरथः । एते चान्ये च बहवो राजान इति आसते ॥१४॥
मेघाकारास्तव स्थमने नाजपाल इहागतः । रावणः कुपितः प्राह शीघ्रं दूतं व्यसर्जयत ॥१५॥
इत्युक्ते प्रहितो दूतो धूश्वाक्षो नाम राक्षसः । धूम्नाक्ष गच्छ ब्रूहि त्वमजपालं ममाज्ञया ॥१६॥
सेवां कुरु समागच्छ कबन्धाय च पार्थिव । अन्यथा चन्द्रहासेन त्वां करिष्ये विकन्धरम् ॥१७॥
रावणबैवमुक्तस्तु धूस्त्राक्षो गरुडो यथा । संप्राप्य तां पुरीं रम्यां तच्च राजकुलं गतः ॥१८॥
ददर्शयं तमेकं स अजपालमजावृतम् मुक्तकेशं मुक्तकक्षं नैकमुक्तक्रमद्वयम ॥१९॥
यष्टिस्कन्धं रैणुभृत ब्याधिभिः परिवारितम् । निहता मिव्रशादूलं सर्वोपद्रवनाशनम् ॥२०॥
मह्यामालिख्य नामानि विनिध्नन्तं द्विषां मणम् । स्त्रातं भुक्तं शुभे स्थाने कृटकृत्यं मुनिं यथा ॥२१॥
द्दष्टवा ह्रष्टमनाः प्राह धूम्नाक्षो रावणोदित्तम् । साक्षेपमजपालोऽपि प्रत्यक्त्वा कारणाण्तरम् ॥२२॥
प्रेषयमास धूम्नाक्षं ततः कृत्यं समादध । ज्वरमाकारयित्वा तु प्रोवाचेदं महीपतिः ॥२३॥
गच्छ लङ्काधिपस्थानमाचरस्व यथोचितम् । नियुक्तस्त्वजपालन ज्वरो राजञ्जगासह ॥२४॥
गत्वर च कम्पयामास सगणं राक्षसेश्वरम् । रावणस्तं विदित्वा तु ज्वरं परमदारुणम् ॥२५॥
प्रोवाच तिष्ठतु नृपस्तेन म न प्रयोजनम् । ततः सविज्वरो राजा बभूव धनदानुजः ॥२६॥
तेनैषा निर्मिता शान्तिरजपालने धीमता । सर्वरोगप्रशमनी सर्वोपद्रवनाशिनी ॥२७॥
कार्तिके शुक्लपक्षस्य तुदाश्यां रजनीमुखे । समुत्थिते विनिद्रे तु देवे दामोद्रे तदा ॥२८॥
वेद्यन्ते रत्नमालाभी रम्ये मालानुरञ्जिते । जनयित्वा न्वं विष्णुं हुत्वा मन्व्रौर्द्रिजोत्तमैः ॥२९॥
वर्द्दमाननरूत्थाभिर्दीपिकाभिर्हुताशनम् । कृत्वा महाजनैः सर्वैर्हरिं नीराजयेच्छनैः ॥३०॥
पुष्पैरभ्यर्चित्म देवं समालब्धं च चन्दनैः । बदरैः कर्बुरैश्वैव व्रुपुसैरिक्षुभिस्तथा ॥३१॥
गन्धैः पुष्पैरलङ्कारैर्वखै रत्नैश्व पूजितैः । तस्यैवानुमतां लक्षीं ब्रह्माणं चण्डिकाम तथा ॥३२॥
आदित्यं शंकर गौरी यक्षं गणपतिं ग्रहान् । मातरं पितरं नागान्सर्वान्नीराजयेत्ततः ॥३३॥
गर्वा नीराजनं कुर्यां महिष्यादेश्व मण्डलम् । भ्रामयेत्व्रासयेच्छर्दिघण्टावादनछादनैः ॥३४॥
ता गावः प्रस्नुता यान्ति पीडाशृत्या निरोगकाः । सिन्दूरकृतशृङ्गाग्राः संभारवशवत्सकाः ॥३५॥
अनुयान्ति सगोपालाः कालयन्तो धनानि ते । छेदानुलिप्तरक्ताङ्गच रक्तपीतसिताम्बराः ॥३६॥
एवं कोलाहले वृत्ते गवां नीराजनोत्सवे । तुरङ्गाल्लक्षणैर्युक्तान्द्विरदांश्व सुपूजितान् ॥३७॥
राजचिह्रानि सर्वाणि उद्धत्य स्वगृहाङ्गणे । राजा पुरोहितैः सार्द्धं भन्व्रिभृत्यपुरः सरः ॥३८॥
सिंहासनोपविष्टश्व शङ्खतूर्यादिनिस्दनैः । पूजयेद्रन्धकृसुमैर्वस्त्रदीपविलेपनैः ॥३९॥
ततः स्त्रीलक्षणैर्युक्ता वेश्या बाथ कुलाङ्गना । शीर्षोपरि नरेन्द्रस्य भ्रामयेद्दारूपाव्रिकाम् ॥४०॥
शान्तिरस्तु समृद्धिश्व द्विजैश्व स्वजनेन च । ततो नीराजयेत्सौम्यं हस्त्यश्वरथसङ्कुलम् ॥४१॥
एवमेषा महाशान्तिः ख्याता नीराजने जने । येषां राष्ट्रे पुरे ग्रामे कियते पाण्डुनन्दन ॥४२॥
तेषां रोगाः क्षयं यान्ति सुभिक्षं वर्द्धते सदा । शान्तिर्नीराजना लोके सर्वानरोगाच्यापोहति ॥४३॥
लोकानावर्द्धयित्वा तु अजपालचरो यथा । एषां रोगादिपीडासु जन्तूनां हितमिच्छता ॥४४॥
वर्षे वर्षे प्रयोक्तव्या शान्तिर्नीराजना इति ॥४५॥
नीराजयन्ति नवमेघनिभं हरिं ये गोब्राह्मणानरथगजांश्व नरेशचिह्रान् । ते सर्वरोगरहिताश्व नुता नरेन्द्रैरिन्द्रप्रभा भुवि भवन्त्यजपालवाक्यात् ॥४६॥ [ २९२७ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नीराजनद्वादशीव्रतवर्णनं नामैकसप्ततितमोऽध्यायः ॥७१॥