श्रीकृष्ण उवाच ॥
व्रतं दानमथो राजंस्तव धर्माः प्रकाशिताः धर्ममूलं यतश्वेद तस्माद्धर्मपरो भव ॥१॥
जानताऽपि मया पार्थ कामाथौं न प्रकाशितौ । यतः स्वय्म प्रवृत्तोऽत्र लोकः किमनुवर्ण्यते ॥२॥
कामिनो वर्णयकामाँल्लोभं लुब्धस्य वर्णयन् । नरः किं फलमाप्नोति कूपेंऽधमिवपातयन ॥३॥
भविषोत्तरमेतत्ते कथितं पांडुनंदन । सदाचारवतां पुंसां व्रतदानसमुच्चयः ॥४॥
यदृष्ट मितिहासेषु पुराणेषु च भारत । वेदवेदांगसंबद्धं तत्सर्वमिहदर्शितम् ॥५॥
लोकवेदविरुद्धं यत्कथ्यते मनुजोत्तम । न तत्रास्था प्रकर्त्यव्या विप्रलापो हि स स्मृतः ॥६॥
अतिस्त्रेहेन भवतो मयैव समुदाहृतम् । ऋषीणां पुरतः पार्थ कुंठा भारती ॥७॥
नैतत्प्रकाशनीयं हि दांभिकाय शठाय वा । नास्तिकायान्यमनसे कुतर्कोपहतार्यच ॥८॥
साधुवृत्ताय दांताय सत्यार्जवरताय च । एतदाख्यायमानं हि शुभामुत्पादयेद्नतिम् ॥९॥
सामान्यमेतत्सुरसत्तमानां वर्णाश्रमाणां च नरेंद्रचन्द्र । ख्यातं भविष्योत्तरनामधेयं मया पुराणं तव सौहृदेन ॥१०॥
धर्मः स्वय्म पार्थ भवानसि त्व्म धर्मार्थविद्दृष्टपरावरश्व । पृष्टोऽस्म्यतो धर्ममह्म च वच्मि श्रद्धेयमेतत्सुतरां जनस्य ॥११॥
यास्याम्यहं द्वारवतीं पुनश्व यज्ञं समेष्यामि महोत्सवे च । कालस्य सर्व हि वशे विदित्वा नैवानुतापो भवतात्र कार्यः ॥१२॥
इत्युक्तवान्यातुकामः प्रहृष्टः संपूजितः पांडसुतैर्महात्मा । पृष्ट्वा सृहृज्ज्ञातिजनं हि सर्व जगाम विप्रान्प्रणिपत्य कृष्णः ॥१३॥
यद्याज्ञवल्क्यमुनिन भगवान्वसिष्ठः पृष्टः किलोत्तरमुवाच बहुप्रकारम् । कृष्णेन पांडुतनयस्य च यत्प्रदिष्टं व्यासेन तत्कृतमहो मुनिपुंगवेन ॥१४॥
जयति पराशरसूनुः सत्यवतीहृदयनंदनो व्यासः । यस्यास्यकमलगलितंवाङ्मधुपुण्यं जगत्पिबति ॥१५॥ [ ८१३० ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे समाप्तिवर्णनं श्रीकृष्णस्यद्वारकां प्रति गमनवर्णनं नाम सप्ताधिकद्धिशततमोऽध्याय ॥२०७॥