श्रीकृष्ण उवाच ॥
अथातः संप्रवक्ष्यामि घृताचलमनुत्तमम । तेजोऽमृतमये दिव्यं महापातक नाशनम् ॥१॥
पंचाशद्घृतकुंभानामुत्तमः स्याद्घृताचलः । मध्यस्तु तदर्घेन तदर्द्धेनावरः स्मृतः ॥२॥
अल्पवित्तस्तु कुर्वीत यथाशक्त्या विधानतः । विष्कंभपर्बतांस्तद्वच्चतुर्मागेन कल्पयेत ॥३॥
शालितंदुलपत्राणि कुंभोपरि निवेशयेत् । कारयेत्संहतानुच्चान्यथाशोभं विधानतः ॥४॥
वेष्टयेच्छुक्लवासोभिरिक्षुदंडफलादिकैः । धान्यपर्वतवच्छेषं विधानमिह पठ्यते ॥५॥
अधिवासनपूर्व च तद्धद्धोमं सुराचं नम । प्रभातायां तु शर्वर्या गुरवे विनिवेदयेत् ॥६॥
विष्कंभपर्वतांस्तद्वदृत्विग्भ्यः शांतमानसः । मंत्रेणानेन कौतेय तच्छुणुष्ववदाभिते ॥७॥
संयोगाद्घृतमुन्पन्नं यस्मादमृततेजसोः । तस्माद्घृतार्चिर्विश्वात्माप्रीयतां मम शंकरः ॥८॥
यस्मातेमयं ब्रह्म घृते नित्यं व्यवस्थितम् । घृतपर्वतरुपेण तस्मान्नः पाहि भूधर ॥९॥
अनेन विधिना दद्याद्घृतामनुत्तमम् । महापातकयुक्तोऽपि लोकमायाति शांकरम ॥१०॥
हंससारससंयुक्ते किंकिणीजालमालिते । विमानेअप्सरोभिश्वसिद्धविद्याधरैर्वृतः ॥११॥
विहरोत्पितृभिः सार्द्ध यावदाभूतसंप्ल्वम् ॥१२॥
आज्याचलं प्रचलकुलसुंदरीभिः संसेव्याजानीमह ये वितरंति मर्त्याः । स्वर्गे सुरेंद्रभवनं भवसंनिधिं वा स्त्रेहानुबंधमचलं भवतीति स्पष्टम् ॥१३॥ [ ७८७० ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे घृताचलदानविधिवर्णनं नामैकाधिकद्विशततमोऽध्यायः ॥२०१॥