श्रीकृष्ण उवाच ॥
शुक्ले भाद्रपदस्यैव तृतीयायां समर्चयेत् । सर्वधान्यैस्तां विरूढां भूतां हश्तिशाङ्रवलाम् ॥१॥
हरिकालिं देवदेवीं गौरीं शंकरवल्लभाम् । गन्धिः पष्पैः फलैर्धूपैनैंवेद्यैर्मोदकादिभिः ॥२॥
प्रीणयित्वा सनाच्छाद्य पद्मरागेण भास्वता । घठटावाद्यादिभिर्गीतैः शूभैर्दिव्यकथानुगैः ॥३॥
कृत्वा जागरणं रावौ प्रभाते ह्युद्रते रवौ । सुव्रासिनीभिः सा नेया मध्ये पुण्यजलाशये ॥४॥
तस्मिन्विसर्जयेत्पार्थ हरिकालीं हरिप्रियाम् । युधिष्ठिर उवाच ॥ भगवन्हरिकालीति का देवी प्रोच्यते भूवि ॥५॥
आर्द्रधान्यैः स्थिता कस्मात्पूज्यते स्त्रीजनन सा । पूजिता किं ददानीह सर्वं मे ब्रूहि केशव ॥६॥
श्रीकृष्ण उवाच ॥ सर्वपापहरां दिव्यां मत्तः शृणु कथाभिमान् । आसीद्दक्षस्य दुहिता कालीनान्नी तु कन्यका ॥७॥
वर्णेनापि च सा कृष्णा नवनीलोत्पलप्रभा । सा च दत्त्वा व्र्यम्बकाय महादेवाय शूलिने ॥८॥
विवाहिता विधानन शङ्खतुर्यानौनादिना । यत्कुर्याद गतैर्देवैर्ब्राह्मणानां च निःस्वनैः ॥९॥
निर्वर्तिने विवाहे तु कन्यासार्धं व्रिलोचनः । क्रीडते विधिधैर्भोगैर्मनसः प्रीतिवर्धनः ॥१०॥
अथ देवसमानस्तु कदाचित्स वृषध्वजः । आस्थानमण्डपे रम्ये आस्ते विष्णुसहायवान् ॥११॥
तव्रस्थश्वाह्रयामास नर्मणा व्रिपुरान्तकः । कालीं नीलोत्पलश्यामां गणमाव्रगणावृताम् ॥१२॥
एह्येहि त्वमितः कालि कृष्णाञ्जनसमन्वित । कालसुन्दरि मत्यार्श्वे धवले त्वमुपाविश ॥१३॥
एवमुत्क्षिप्रमनसा देवी सक्रुद्धमानसा । श्वासयामास तास्त्राक्षी बाष्पगद्नदया गिरा ॥१४॥
रुरोद सत्वरं बाला तव्रस्था स्फुरिसाधरा । किं देव योगात्तास्त्रा गौगौंरी चेत्यभिधीयते ॥१५॥
यस्मानममोपमा दत्ता कृष्णवर्णेन शंकर । हरिकालीति वाहूता देवर्षिगनसेविता ॥१६॥
तस्माद्देहभिमं कृष्णं जुहोमि ज्वलिनेऽनले । इन्युक्त्वा वार्यमाणा तु हरिकाली रुपान्विता ॥१७॥
मुमोच हरितच्छायाकन्तिं हरितशाद्वले । चिक्षप शेषं रागेण ज्वालिते हव्यवाहने ॥१८॥
पुनः पर्वतराजस्य गृहे गौरी बभूव सा । महादेवस्य देहार्द्धे स्थिता संपूज्यते सुरैः ॥१९॥
एवं सा हरिकालिति गौरीशस्त्र व्यवस्थिता । पूजनीया महादेवी मन्व्रणानेन पाण्डव ॥२०॥
हरकर्मसमुत्पन्ने हरकाये हरिप्रिये । मां वाहीशस्य मूर्तिस्थे प्रणतोऽस्मि नमो नमः ॥२१॥
हत्थं संपूज्य नैवेद्यं दद्याद्विपाय पाण्डव । तां च पातर्जले रम्ये मन्व्रेणैव विसर्जयेत् ॥२२॥
अर्चितासि मया भक्त्या गच्छ देवि सुरालयम । हरकाले शिंव गौरि पुनरागमनाय च ॥२३॥
एवं यः पाण्डवश्रेष्ठ हरिकालीव्रतं चरेत् । वर्षे वर्षे विधानेन नारी नरपते शुभा ॥२४॥
सा याफलमवाप्नोति तच्छृणुष्व नराधिप । मर्त्यलोके चिरं तिष्ठेत्सर्वरोगविवर्जिता ॥२५॥
सर्वभोगसमायुक्ता सौभाग्यबलगविता । पुव्रपौव्रसुह्रन्मिव्रनप्तृदौहिव्रसङ्रकुला ॥२६॥
साग्रं वर्षशतंयावद्नोगान्भुक्त्वा महीतले । ततोऽवसाने देहस्य शिवज्ञाना महामुन ॥२७॥
चिरभद्रा महाकालनन्दीश्वरविनायकाः । तदाज्ञाकिङ्कराः सर्वे महादेवप्रसादनः ॥२८॥
संपूर्णसृर्यगणसप्तविरूढशस्था तां वै हिमाद्रिदुहितां हरिकालिकाख्याम् । संपूज्य जागरमनुद्धतगीतवाधैर्यच्छन्ति या इह भवन्ति पतिप्रियास्ताः ॥२९॥ [ १०४५ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे हरिकालीतृतीयाव्रत नाम विंशोऽध्यायः ॥२०॥