श्रीकृष्ण उवाच ॥
अथान्यत्संप्रवक्ष्यामि व्रतं श्रेयस्करं परम् । शिवलोकप्रदं पुण्यं विधिवन्मे निबोधत ॥१॥
वारे सोमे सिताष्टभ्यां पक्षे सोमं समर्चयेत् । विधिना चन्द्रचूडालं प्राप्यमेतत्सचन्द्रकम् ॥२॥
दक्षिणार्धे हरिं ध्यात्वा मध्ये तु परितः प्रभुम् । पञ्चामृतादिना देवं स्थापयित्वा यतव्रती ॥३॥
चन्दनेनेन्दुयुक्तेन दक्षिणार्धं विलोपयेत् । हरभागं नीलरक्त शिदस्योपरि मौक्तिकम् ॥४॥
पश्वात्पुष्पैः समभ्यर्च्य सिक्तै रक्तैरनुत्तैमैः । नीराजन पुनः कुर्यात्पञ्चविंशातिदीपकैः ॥५॥
अघसिद्धैः शुभैर्भक्ष्यैर्गैवेद्यं विनिवेदयेत् । एवं कृतोपवासस्तु प्रभाते पूर्ववच्छिवम् ॥६॥
संपूज्याज्यतिलैर्मिश्रं जुहुयाञ्चातवेदसि । व्रतिनो ब्राह्मणान्पश्वाद्भोजयित्वा विधानतः ॥७॥
मिथुनानि तु संभोज् यथाशक्त्यानुपूजयेत् । आवर्त्य पितरावर्च्य विधिना तेन सुव्रत ॥८॥
संकत्सरान्ते कर्तव्यं यतत्सर्वं निबोधत । प्रागुक्तविधिना पूज्य सितपीतयुगद्वयम ॥९॥
दद्याद्वितानकं चैव पताकां घटकीं तथा । धूपगन्धारसी चापि दीपवृक्षं सुशोभनम् ॥१०॥
एवमादीनि योज्यानि पूर्ववद्भोज्यमाचरेत् । चतुरस्त्रं व्रिकोण च मण्डलं कारयेत्ततः ॥११॥
व्रिकोणे पार्वतीं ध्यायेञ्चतुरस्त्रे महेश्वरम् । संकल्प्य द्विजदाम्पत्यं वासोभिर्म् षणैस्तथा ॥१२॥
पूजयित्वा पूजयित्वा यथाशक्त्या कुर्यान्नीराजनं शुभैः । दीपकैः पञ्चविंशद्भिर्भोजयित्वा विसर्जयेत् ॥१३॥
जब्दपञ्चकमेकं वा एवं यः कुरुतेनरः । उभाभ्यां लोकमासाद्य पदं यास्यत्यनामयम् ॥१४॥
आदेहपतनाद्यस्तु नित्यमेतत्समाचरेत् । इहैव स हरिः साक्षान्न तदूपं विभाव्यते ॥१५॥
न स्पृशन्त्यापदस्तस्य न दूःखी भवते क्कचित् । ज्वरग्रहादिभिर्नैव पीडन्यतेऽसौ कदाचन ॥१६॥
श्रीकृष्ण उवाच ॥ अथवा तेन मार्गेण तामेव हि सिताष्टभीम् । संप्राप्यादित्ययोगेन प्राग्विधानेन चाभ्यसेत् ॥१७॥
किन्तु दक्षिणतन्व्रस्थं भास्करं वार्चयेदबुधः । पद्मरागेण दिव्येन सुवर्णेन च पार्वतीम् ॥१८॥
कुङकुमेन समालभ्य चन्दनेन शिंव तथा । अभाव सर्वरत्नामां हेमसर्वव्र योजयेत् ॥१९॥
रुद्रबीजं परं पुतं प्रियं रुद्रस्य सर्वदा । रक्तमाल्याम्बरधरं नैवेद्य घृतपाचितम् ॥२०॥
शेषः पूर्वविधानेन कर्तव्यो विधिविन्नरैः । तिथौ पूर्णे च कुर्वीत गव्येनानघपारणम् ॥२१॥
एतत्प्राक्च विधायाब्दं पञ्चाब्दानेवमेव च । कृत्वा सूर्यादिलोकेषु भुक्त्वा भोगान्व्रजेत्परम् ॥२२॥
पतङ्गत्प्रतापी स्याददीनश्व जनप्रियाः । अस्मिन्रोगो न बाध्येत धनवान्पुव्रवान्भवेत् ॥२३॥
यद्यष्टमी भवति सोमयुता कदाचिदर्केण वा कुरुकुलोद्वह तामुयोष्य । पूज्यो मया सह हरं हरिणाङ्कचिह्रं भक्त्यायुषां पदमुयैति परंमुसरेः ॥२४॥ [ २४२५ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वनि श्रीकृष्णयुधिष्टिरसंवादे सोमाष्टमीव्रतवर्णनं नामैकोनषष्टितमोऽध्यायः ॥५९॥