युधिष्ठिर उवाच ॥
कृष्णजिनप्रदानस्य विधिं कालं ममानघ । ब्राह्मणं च समाचक्ष्व तत्र मे संशयो महान् ॥१॥
श्रीकृष्ण उवाच ॥ युगादिषुपरागेषु संक्रांतौ दिनसंक्षये । माघ्यां वा ग्रहपीडामु दुःखप्नाद्धुतदर्शने ॥२॥
देयमेतन्महादानं द्रव्यमात्रागमे तथा । आहिताग्निर्द्विजो यश्व वदवेदांगपारगः ॥३॥
पुराणभिरतो दक्षो देयं तस्यच पार्थिव । यथा येनाविधानेन तन्मे निगद्धतः शृगु ॥४॥
गोनयेनोपलिप्ते तु शुचौ देशे नराधिप । आदाव्रेव समास्तीर्य शोभितं वस्त्रसा विकम् ॥५॥
कर्तव्यं रुक्भशृगें तद्रौप्यदंतं तथैव च । मुक्तादाम्ना तु लांगूलं तिलच्छन्नं तथैव च ॥६॥
तिलैः कृत्वा शिरो राजन्वासस च्छादयेद्बुधः । सुवर्णेनाभितः कुर्यादलंकुर्याद्विशेषतः ॥७॥
पुष्पैगंधैः फलैश्वैव नैवेद्येन च पूजयेत् । रत्नैरेवं यथाशक्त्या तस्य दिक्षु च विन्यसेत् ॥८॥
कांस्यपात्राणि चत्वारि तेषु दद्यायथाक्रमम् । घृतं क्षीरं दधि क्षौद्रमेवं दत्वा यथाविधि ॥९॥
ततः सर्वसमीपे तु मंत्रमेतुमुदीरयेत् । कृष्णः कृष्णरुर्देव कृष्णाजिन वरस्तथा ॥१०॥
त्वद्दानापास्तपापस्य प्रीयतां मे नमो नमः । त्रयस्त्रिंशत्सुराणा च आधारे त्वं व्यवस्थितः ॥११॥
कृष्णोऽसि नूर्तिमान्साक्षात्कृष्णाजिन नमोऽस्तु ते । एवं प्रदक्षिणी कृत्य प्रणिपत्य पुनः पुनः ॥१२॥
तत्प्रतिग्राहकं विम वेदवेदांगपारगम् । स्नात वस्त्रयुगाच्छन्नं स्वशक्त्या वाप्यलंकृतम् ॥१३॥
प्रतिग्रहश्व तस्योक्तः पुच्छदेश स्वयंभुवा । प्रतिग्रहप्रदग्धस्य विप्रस्य च स भारत ॥१४॥
न पश्येद्वदनं पश्वान्न चैनमभिनाषयेत् । अनेन विधिना दत्वा यथावत्कृष्णमार्गणम् ॥१५॥
समग्रं भूमिदानस्य फलं प्राप्नोति मानवः । कृष्णाजिनतिलान्कृत्वा हिरण्यं मधुसर्पिषी ॥१६॥
ये प्रयच्छंति विप्राय न ते शांच्या भवंति वै । सर्वालँकांश्वरत्येव कामचारा वियद्धताः ॥१७॥
आभूतसंप्लवं यावत्स्वर्ग प्राप्ता न संशयः । कृष्णजिनसमं दानं च चास्ति भुवनत्रये ॥१८॥
प्रतिग्रहोपि पापीयानिति वेदविदो विदुः । अवस्थात्रितये यच्च त्रिधा यत्समुपार्जितम् ॥१९॥
तत्सर्व नाशमायति दत्त्वा कृष्णा जिनं क्षणात् ॥२०॥
कृष्णेक्षणं कृष्णमृगस्य चर्म दत्त्वा द्विजेंद्राय समाहितात्मा । यथोक्तमेतन्मरणं न शोचेत्प्राप्नोत्यभीष्टं मनसः फलं यत् ॥२१॥ [ ७४९० ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कृष्णाजिनदानविधिव्रतवर्णनं नामाष्टाशीत्युत्तरशततमोऽध्यायः ॥१८८॥