श्रीकृष्ण उवाच ॥
शृणु भूपाल वक्ष्यामि विष्णुब्रतमनुत्तमम् । विभृतिद्वादशीं नाम सर्वामरनमस्कृतम् ॥१॥
कार्तिके वाथ वैशाखे मार्गशीर्षी च फाल्गुने । आषाढे वा दशम्यां च शुक्लायां लघुभुङनरः ॥२॥
कृत्वा सायं तनीं संध्या गृह्लीयान्नियम बुधः । एकादश्यां निराहारः समभ्यच्ये जनार्दनम् ॥३॥
द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो । तदविन्घेन मे यातु साफल्यं मधुसूदन ॥४॥
ततः प्रभात उत्थाय कृतन्मानजपः शुचिः । पूजयेत्पुण्डरीकाक्षं शुक्लमाल्यानुललेपचैः ॥५॥
भूतिदाय नमः पादौ विशोकाय च जानुनी । नमः शिवायेत्यरू च विश्वमूर्ते नमःकटिम् ॥६॥
कन्दपीय नमो मेदूमादित्याय नमः करौ । दामोदरायेत्युदरं वासुदेवाय च स्तनौ ॥७॥
माधवायेति ह्रदयं कण्ठं वैकुण्ठिने नमः । श्रीधराय मुखं केशान्केशवायेति पाण्डव ॥८॥
पृष्टं शार्ङ्गधरायेति श्रवणौ वरदाय वै । स्वनान्मा शङ्खचक्रासिगदापरशुपाणये ॥९॥
सर्वात्मने शिरो राजन्नम इत्यभिपूजयेत् । दशावताररूपाणि प्रतिमासं कमान्नृप ॥१०॥
दत्ताव्रेयं तथा व्यासमुत्पलेन समन्वितम् । दद्यादनेन विधिना पाखण्डानपि वर्जयेत् ॥११॥
समाप्यैवं यथाशक्त्या द्वादशद्वादशीर्नरः । संवत्सरान्ते लवणपर्वतेन सह प्रभोः ॥१२॥
शय्यां दद्यान्मुनिश्रेष्ठ गुरवे रससंवुताम् । ग्रामं च शक्तिमान्दद्यात्क्षव्रें वा भवनान्वितम् ॥१३॥
गुरुं संपूज्य विधिवद्वत्रालङ्कारभूषणैः । अन्यानपि यथाशकया भोजयित्वा द्विजोत्तमान् ॥१४॥
तर्पयेद्वस्त्रगोदानैरन्यव्र धनसंचपात् । अल्पवित्तो यथाशक्त्या स्तोकं रतोकं रतोकं समाचरेत ॥१५॥
यश्वातिनिःस्वः पुरुषो भक्तिमान्माधवं प्रति । पुष्पार्चनविधानेन सकुर्याद्वत्सरत्रयम् ॥१६॥
अनेन चिधिना यस्तु विभूतिद्वादशीव्रतम् । कुर्यात्स पापनिर्मुक्तः पितृणां तारयेच्छतम् ॥१७॥
जन्मनां शतसाहस्त्रं न शोकफलभाग्भवेत् । न च व्याधिर्भवेत्तस्य न दारिद्रन्यं न वन्धनम् ॥१८॥
वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि । यावद्युगसहस्त्राणां शतमष्टोत्तरं भवेत् ॥१९॥
तावत्स्वर्गे वसेद्राज्भूपतिश्व पुनर्भवेत । पुरा रधन्तरे कल्पे राजसीत्पुष्पवाहनः ॥२०॥
नान्मा लोकेषु विख्यातस्तेजसा सूर्यसन्निभः । तपसा तस्य तुष्टैन चतुर्वत्क्रेण भारत ॥२१॥
कमलं काञ्चनं दत्तं यथाकामगतः सदा । समस्तभृत्यसहितः सान्तःपुरपरिस्थितः ॥२२॥
द्वीपानि सुरलोकं च यथेष्टं विचरत्यसौ । कल्पादौ सप्तमं द्वीपं तस्य पुष्करवासिनः ॥२३॥
लोके संपूजितो यस्मात्पुष्करं द्वीपमुच्यते । तदैव ब्रह्मना दत्तं यानमस्य यतो नृप ॥२४॥
पुष्पवाहनमित्याहुस्तस्मात्तं देवदानवाः ॥२५॥
नागस्य तस्यास्य जगव्रयेपि ब्रह्माम्बुजस्थस्य तपोऽनुभानात् । पत्नी च तस्याप्रतिमा नरेन्द्र नारीसहस्त्रेरभितोऽभिनन्द्या ॥२६॥
नन्मा च लावन्यवती बभूव या पार्वतीवेष्टतमा भवस्य । तस्यामजानामयुतं बभूव धर्मात्मनामग्रधनुर्धराणाम् ॥२७॥
तदात्मनः सर्वमवेक्ष्य राजा सुहुर्मुहुविंस्मपमातसा द । सोभ्यागतं पूज्य मुनिप्रवीरं प्रचेतसं वाचमिमां बभाषे ॥२८॥
करमाद्विभूतिरमला मम मर्त्थपूज्था जाया च सर्वविजितामरसुन्दरी या । भार्या त्वनल्पतपसा तु सुतोषितेन दत्त ममाम्बुजगृहं परमप्रसादात् ॥२९॥
यस्मिन्प्रविष्ट पिकोटिशंत नृपाणां सामात्यकुश्र्जरनवाश्वधनावृतानाम् नालक्ष्यताक्षगतमम्बरनौरिवेह तारागणैरपि सुरासुरलोकपालैः ॥३०॥
तरमात्किम यजननीजठरोद्भवेन धर्मादिकं कृतमशेषजनातिगंस्यात् । सत्थङमयाथ तनयैरनया महर्षे माहार्थया तदखिलं कथय प्रचेतः ॥३१॥
तरथ तद्वचनं श्रुत्वा ध्यानेनावेक्ष्य चाखिलम् । प्रचेतास्तमुवाचाथ शृणु भूप पुरातनम् ॥३२॥
लुब्धकरवं पुरा राजन्सर्षसत्त्वभयङ्करः । आसीदसाधु चरितः सुह्रन्मिव्रविवर्जितः ॥३३॥
यतमध्यो ह्रत्वकेशः वृष्णांङ्गो रक्तलोचनः । धनुष्पाणिर्वनगतः कृतान्तकसमो भवान् ॥३४॥
अभूदनावृष्टिरतीव रौद्रा कदाचिदाहारनिमित्तरोषः । षद्यान्थथादाय ततो बहूनि गतं पुरंषैदिशनामधेथम् ॥३५॥
उन्मूल्थ लोभाच पुरं समरतं भ्रान्तंत्वया शेषमहत्तदासीत् । क्रेता न कश्वित्कमलेषु जातस्तोके भृशं शुत्परिपीडितश्व ॥३६॥
उपविष्टात्वमेकस्मिन्सभार्यो भवनाङ्गणे । अथ मङ्गलशब्दस्तु त्वया राव्रौ तथा श्रुतः ॥३७॥
उपोष्य साघमासस्य द्वादश्यां लवणाचलम् । निवेदयन्ती सुरवे शय्यां चोपस्करान्विताम् ॥३८॥
अलङकृत्य ह्रषीकेशं सौवर्णं परमं पदम् । साथ द्दष्ठाततस्ताभ्यामिं चित्तेऽवधारितम् ॥३९॥
किमेभिः कमलैः कार्यं वरं विष्णुरलङ्कृतः । इति भक्तिस्तदा जाता दाम्पप्यस्य नरेश्वर ॥४०॥
ताप्रसङ्गात्समभ्यर्च्य केशर्व लवणाचलम् । शय्यां च पुष्णप्रकरैः पूजिताभूच्च सर्वदा ॥४१॥
अथानङ्गवती तुष्टा तयोदर्होनशतव्रयम् । प्रादानदूगृहीतं ताभ्य़ां च तद्वैविरागतः ॥४२॥
अनङ्गवती च पुनस्तयोरन्नं चतुविंधम् । आनाय्योपह्रतं कृत्वा भुव्यतामिति भूपते ॥४३॥
ताभ्यां तु तदपि त्यक्तं भोज्यावः श्वो वरानने । प्रसंगाच्योपवसेन आवाभूयात्सुखावहः ॥४४॥
जन्मप्रभृति पापिष्ठाबावां देवि द्दढव्रते । सत्प्रसंगाद्धनुर्मध्ये धर्मलाभरतु चाबयोः ॥४५॥
इति जागरणं ताभ्यां प्रसंगात्तदनुष्ठितम् । प्रभाते च तया दत्ता शय्या सलवणाचला ॥४६॥
ग्रामश्व गुरवे भक्त्या विप्रेभ्यो द्वादशैव हि । वस्त्रालङ्कारयुक्ताङ्गा गावश्व कनकाश्चिताः ॥४७॥
भोजनं च सुह्रन्मिव्रदीनान्धकृपणैः समम् । तत्तु लुब्धकदाम्पत्यं पूजयित्वांविसर्जितम् ॥४८॥
स भवाँलुब्धको जातः सपत्नीको नरेश्वरः । पुष्पाणां प्रकरे तस्मात्केशवस्य प्रपूननम् ॥४९॥
प्राप्तं सुदुर्लभं वीर त्वया पुष्करमन्दिरम् । तस्य सर्वस्य महात्म्यादलं न तपसा नृप ॥५०॥
यथाकामगतं दत्तं पद्मयोनिविरिश्चिना । संतुष्टरतस्य राजेन्द्र ब्रह्मरूषी जनार्दनः ॥५१॥
सात्व नङ्गवती वेश्या कोमदेशस्य सांप्रतम् । पत्नी सपत्नी संजाता रत्या प्रीतिरिति श्रुता ॥५२॥
लोकेष्वानन्दजननी सकलामरपूजिता । तदप्युत्सुज्य राजेन्द्र निर्वाणं समवाप्त्यसि ॥५३॥
इत्युवत्वा स मुनिः सर्वं तव्रैवान्तरधीयत । राजा यथोक्त च पुनः स चक्रे पुष्पवाहनः ॥५४॥
इमामाचरतो ब्रह्मन्नखण्डव्रतमाचरेत । यथाकथञ्चित्कालेन द्वादश द्वादशीर्मुने ॥५५॥
कर्तव्याः शक्तितो देया विप्रेभ्यो दक्षिणा नृप ॥५६॥
इति कलुषविदारणं जनानामिति पठति शृणोति चातिभक्त्या । सतिमपि च ददाति देवलोके वसति स पराःशतानि वत्सराणाम् ॥५७॥ [ ३६६१ ]
इति भ्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे विभूतिद्वादशीब्रतवर्णनं नाम पञ्चाशीति तमोऽध्यायः ॥८५॥