श्रीकृष्ण उवाच ॥
अन्यामपि प्रवक्ष्यामि पद्मषष्ठीं शुभ्रां तथा । यामुषोष्य नरः पापविमुक्तः स्वर्गभाग्भवेत् ॥१॥
मार्गशीर्षे शुभे मासि पञ्चभ्यां नियतव्रतः । षष्ठीमुपोष्य कमलं कारयित्वा सुकाञ्चनम् ॥२॥
शर्करासंयुतं दद्याद्ब्राह्मणाय कुटुम्बिने । रूपं च काञ्चनं कृत्वा फलस्यैकस्य धर्मवित् ॥३॥
दद्यात्प्रातः कृतस्त्रानो भानमें प्रीयतामिते । भक्त्या तु विप्रान्संपूज्य सप्तम्यां क्षीरभोजनम् ॥४॥
कृत्वा कुर्यात्फलत्यागं या च स्यात्कृष्णसप्तमी । एतामुपोष्य विधिवदनेनैव क्रमेण नु ॥५॥
तद्वै हैमं फलं दत्त्वा सुवर्णकमलान्वितम् । शर्करापाव्रसंयुक्तं वस्त्रमालासमन्वितम् ॥६॥
षष्ठन्योभयोर्महाराज यावत्संवत्सरं ततः । उपोष्य दद्यात्क्रमशः सूर्यमन्व्रानुदीरयेत् ॥७॥
भानुरकों रविर्ब्रह्मा सूर्यः शुक्रो हरिः शिवः । श्रीमान्विभावसुस्त्वष्टा बरूणः प्रीयतामिति ॥८॥
प्रतिमास च सप्तम्यामैकैकं नाम कीर्तयेत् । प्रतिपक्ष फलत्त्यागमेतत्कुर्बन्समाचरेत् ॥९॥
व्रतान्ते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः शर्कराकलशं दद्याद्धैमपह्मफलन्वितस् ॥१०॥
यथा फलकरो मासस्त्वद्भक्तानां सदा रबे । तथानन्तफलावाप्तिरस्तु जन्मनि जन्मनि ॥११॥
इमामनन्तफलदां फलषष्टीं करोति यः । स सर्वपापनिर्मुक्तः सूर्यलोके महीयते । सुरापानादिकं किञ्चिद्यदव्रामुव्र वा कृतम् ॥१२॥
तस्तर्वं नाशमायाति सूर्यलोकं स गच्छति । भूतान्भव्यांश्व पुरुषांस्तारयेदेकविंशतिः ॥१३॥
शृणुयाद्यः पठेद्वापि सोपि कल्याणभारभवेत् ॥१४॥
हैमं फलं सकमल कलशं सितां यः षष्ठीमुपोष्य विधिवद् द्विजपुङ्गवाय । दद्यात्सुरासुरशिरोमणिघृष्टपाद भानुं प्रणम्य फलसिद्धिमुपैति मर्त्यः ॥१५॥ [ १८०२ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कमलषष्ठीव्रतं नामैकोनचत्वारिंशत्तमोऽध्यायः ॥३९॥